Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 31
________________ तिलकमञ्जरी। राजगणिकाकटाक्षवीक्षणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं क्वचिददानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोषदष्टौष्ठावण्ठनातं सर्वतश्च प्रकटिताहङ्कारैः परुषहुङ्कारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयहिरूस्थितानुपवेशयद्भिरनुपयुक्तानिष्काशयद्भिरधिकृतान् स्वकर्मसु व्यापारयद्भिर्वावदूकान मूकवते धारयद्भिमहाप्रतीहारैः कृतावेक्षणं द्वारदेशादपक्रान्तसकलपदातिपरिवारैरुदंशुमणिमुकुटभास्वरशिरोभिराखण्डलच्छिन्नपिच्छैर्गिरिभिरिव शिखरदीप्यमानवामिभिरितस्ततो निषण्णैरेकैकानुचरकृतसाहायकैर्महादण्डनायकैरध्यासितमध्यमतिभूयस्तया च राजलोकस्य कृच्छूलभ्यनिर्गमप्रवेशावस्थानमास्थानमण्डपमगच्छत् [ग] ।। तत्र च नृपतिदेवताराधनव्यतिकरण चिरकाललब्धावसरमतिदूरदर्शितादरैः प्रधानदौवारिकैः प्रवेश्य टिप्पनकम्-प्रणधिलोकं दूतजनम् । कृतालोकेन एकत्र विहितालोकशब्देन, अन्यत्र कृतप्रकाशेन । गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन एकत्र गमनौत्सुक्येन चलन् कजलस्निग्धः चूडासमूहरे यस्य स तथोक्तस्तेन, अन्यन्त्र कलस्निग्धः इन्द्रमणितेजोज्वालाकलापो यस्य स तथोक्तस्तेन [घ]। रञ्जिताः-प्रसादिताः, या राजगणिका:-राजवेश्याः, तासां कटाक्षेण-अपाङ्गभङ्गया, यद् वीक्षण-दर्शनम् , तेन कृतार्थीकृताःप्रमोदिताः, पूर्वसंसृष्टाः-पूर्वसम्मिलिताः, विटसामन्ताः-लम्पटक्षुद्रनृपा यस्मिंस्तादृशम् ; पुनः क्वचिदवानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोषदष्टौष्ठावण्ठनातं क्वचित्-कस्मिंश्चित् स्थाने, अदानेन-दानाभावेन, सृष्टः- क्रुद्धः, पुनः दुष्टप्रतीहारेग-दुष्टद्वारपालेन, हठेन-बलात् , निर्धार्यमाणः-समुदायात् पृथक् क्रियमाणः, रोषेण-अमर्षेण, दष्टौ ओष्ठौ यस्ताहशानाम् , अवण्ठाना- दुर्थलानाम् , मातः-समूहो यस्मिंस्तादृशम् ; पुनः सर्वतः सर्वांशतः, महाप्रतीहारैः प्रधानद्वारपालैः, कृतावेक्षणं कृतनिरीक्षणम् , कीदृशैस्तैः ? प्रकटिताहङ्कारैः आविष्कृताभिमानैः, पुनः परुषहुङ्कारवित्रासितजनैः परुषेण-तीव्रण, हुकारेण, वित्रासिताः-विभीषिता जता यैस्तादृशैः; पुनः उद्धतान् अविनीतजनान् , तर्जयद्भिः बिभीषयद्भिः, पुनः मान्यलोकं माननीयजनम् , कृताञ्जलिपुटैः रचिताञ्जलिपुटैः, आवर्जयद्भिः, नमस्कुर्वद्भिः; पुनः ऊर्ध्वस्थितान उत्थितान् , उपवेशयद्भिः उपवेशनं कारयद्भिः पुनः अनुपयुक्तान् अनावश्यकजनान् , निष्काशयद्भिः बहिरपसार. यद्भिः पुनः अधिकृतान् तत्तत्कार्येषु नियुक्तजनान् ; स्वकर्मसु स्वखकार्येषु, व्यापारयद्भिः प्रेरयद्भिः पुनः वावदूकान वाचालजनान् , मूकव्रते मौनव्रते, धारयद्भिः स्थापयद्भिः; पुनः कीदृशमास्थानमण्डपम् ? महादण्डनायकैः प्रधानदण्डनीत्यध्यक्षैः,अध्यासितमध्यम् अधिष्ठितमध्यभागम् , कीदृशैः द्वारदेशादपक्रान्तसकलपदातिपरिवारैः द्वारदेशात्-प्रवेशनिर्गमस्थानविशेषात् , अपक्रान्ताः-निष्क्रान्ताः, सकलाः-सर्वे, पदातयः-पादचारिणः, परिवारा: सैनिका येषां तादृशैः; पुनः उदंशुमणिमुकुटभास्वरशिरोभिः उदंशुभिः-उद्गताः, अंशवः-किरणा येषां तारशैः, मणिमुकुटः-मणिमयमस्तकाभरणैः,भास्वराणि-दीप्यमानानि, शिरांसि-मस्तकानि येषां तादृशैः, अतः आखण्डलच्छिन्नपिच्छैः आखण्डलेन-इन्देण, छिन्नाः खण्डिताः, पिच्छा:-पक्षा येषां तादृशैः, पुनः शिखरदीप्यमानवज्राग्निभिः शिखरे-उपरिभागे, दीप्यमानः-ज्वलन् , वनाग्निः-वज्रनिर्गतामियेषां तादृशैः, गिरिभिरिव पर्वतैरिवेत्युत्प्रेक्षा; पुनः कीदृशैः ? इतस्ततः अत्र तत्र, निषण्णैः उपविष्टै; पुनः एकैकानुचरकृतसाहाय्यकैः एकैकेन, अनुचरेण-भृत्येन, कृत, साहाय्यं सहायता, येषां तादृशैः पुनः कीदृशमास्थानमण्डपम् ? राजलोकस्य राजकीयजनस्य, अतिभयस्तया अत्यन्ताधिक्येन, कृच्छ्रलभ्यनिर्गमप्रवेशावस्थानं कृच्छ्लभ्यानि-स्थलसंकीर्णतया क्लेशसाध्यानि, निर्गमप्रवेशावस्थानानिप्रवेशः-तत्रागमनम् , निर्गमः-ततो निष्क्रमणम् , अवस्थान-तत्रावस्थितिश्च यत्र तादृशम् [ग] च पुनः, तत्र सभामण्डपे, नृपतिदेवताराधनव्यतिकरेण नृपतेः-राज्ञः, देवताराधनव्यतिकरेण-देवताराधनव्यासङ्गवशेन, चिरलब्धावसरं चिरेण-दीर्घकालेन, प्राप्तावसरम् , अतिदूरदर्शितादरैः अतिदूरादेव, दर्शितः-प्रकटितः, आदरः-सम्मानो येस्तादृशैः,प्रधानदौवारिकैः प्रधानद्वारपालेः, प्रवेश्य प्रवेश्य प्रवेश कारयित्वा कारयित्वा,प्रत्येकशः

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190