Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
२०१
गम्यमानो युगपदाहृतानां कुपितयमहुङ्कारानुकारि भाङ्कार भैरवमतिगम्भीरमारसन्तीनां समरढकानां ध्वनितेन पातयन्निव सवन्धनान्यरातिहृदयानि तारतरव्याहारिणां बन्दिवृन्दानां हृदयहारिणा जयशब्दाडम्बरेण मुखरिताम्बरः शिविरान्निरगच्छत् । कुतव्यूहविरचनश्च समरसंक्षोभक्षमायामुपान्तभूमावस्थात् [ग] ॥
अथाकर्णितसमरभेरीनिनादजृम्भितानन्दाः सरसरोचनारचितललाटतिलकबिन्दयो दूर्वा प्रबालदन्तुरैः शिरोभिरभ्यर्णचारिचारणोच्चार्यमाणवीर्य संपद्स्त्वरितपद संचाराभिरागत्यागत्य करिघटाभिः समन्ततः ससामन्तचक्राः परिवारयांचकुरेनं सेनापतयः, प्रत्येकं पातितस्निग्धदृष्टिना च तेन सप्रसादमादिष्टाः प्रणम्य निजनिजस्थानेषु तस्थुः [घ] ॥
अथ निशीथानुभावभास्वरेण विषममुन्मीलता निमीलता च दीपिकानिवहेन पिशुनितममञ्जुगुञ्ज
टिप्पनकम् -- उदविनिहित महाहिभीषणास्त्रम् एकत्र महाहय एव भीषणानेकास्त्राणि, अन्यत्र महाहिवत् । पत्ररथराजं गरुडम् [ग] ।
उदरविनिहित महाहिभीषणानेकास्त्रम् उदरे - मध्यभागे, विनिहितानि - स्थापितानि, महाहिभीषणानि - महासर्पवद् भयानकानि अत्राणि यस्मिन् पक्षे महाहय एव महासर्पा एव, भीषणानि अस्त्राणि येन तादृशम्, रथाङ्गपाणिः रथाङ्गंचक्रम् पाणी - हस्ते यस्य स विष्णुः, पत्ररथराजमिव पत्राणि - पक्षा एव, रथाः - रथा इव गमनसाधनानि येषां ते पत्ररथाः-पक्षिणः, , तेषां राजा - गरुडः, तमिव, रथम्, अध्यास्य अधिरुह्य, यथासन्निहितेन यावान् सन्निहित आसीत् तावता, आत्मसैन्येन स्वसैनिकेन, अनुगम्यमानः अनुत्रियमाणः, युगपदाहतानां युगपत् ताडितानाम्, कुपितयमहुङ्कारानुकारिभाङ्कारभैरवं कुपितस्य - क्रुद्धस्य, यमस्थ यो हुङ्कारस्तदनुकारिणा, भाङ्कारेण ध्वनिविशेषेण, भैरवं भीषणम्, तथा अतिगम्भीरम् अतिस्फुटं च यथा स्यात् तथा, आरसन्तीनाम् आनदन्तीनाम्, समरढक्कानां संग्रामवाद्यविशेषाणाम्, ध्वनितेन ध्वनिना, सबन्धनानि भयादिनियन्त्रितानि, अरातिहृदयानि शत्रुहृदयानि, पातयन्निव अंशयन्निव; पुनः तारतरव्याहारिणाम् अत्युच्चैरुचारिणाम्, वन्दिवृन्दानां स्तुतिपाठकसमूहानाम्, हृदयहारिणा हृदयप्रियेण, जयशब्दाडम्बरेण जयकाराडम्बरेण, मुखरिताम्बरः ध्वनितगगनमण्डलः, शिबिरात् सैन्यावासात, निरगच्छत् निष्क्रान्तः । च पुनः कृतव्यूहविरचनः कृता विहिता, व्यूहस्य सैन्यसन्निवेशविशेषस्य, विरचना येन तादृशः सन्, समरसंक्षोभक्षमायां संग्रामसञ्चारसमर्थायाम्, उपान्तभूमौ पर्यन्तभूमौ अस्थात् स्थितवान् [ग] ॥ अथ तत्र स्थित्यनन्तरम्, आकर्णितसमरभेरी निनाद जृम्भितानन्दाः आकर्णितेन श्रुतेन, समर मेरीनिनादेन - संग्राम • ढक्काध्वनिना, जृम्भितः-प्रकटितः, आनन्दो येषां तादृशाः; पुनः सरसरोचनारचितललाटबिन्दवः सरसया - आर्द्रया, रोचनया-गोरोचनया, रचिताः- कल्पिताः, ललाटतिलकबिन्दवः - ललाटे तिलकरेखा यैस्तादृशाः; पुनः दूर्वाप्रवालदन्तुरैः दूर्वाख्यतृणविशेषनूतनदलव्याप्तैः शिरोभिः मस्तकैः, उपलक्षिताः; पुनः अभ्यर्णचारिचारणोच्चार्यमाणवीर्य सम्पदः अभ्यर्णचारिभिः-निकटगामिभिः, चारणैः - बन्दिभिः, उच्चार्यमाणाः - स्तूयमानाः, वीर्यसम्पदः - पराक्रम सम्पत्तयो येषां तादृशाः, ससामन्तचक्राः खविषयान्तर्वर्तिनृपसमुदायसहिताः सेनापतयः, त्वरितपदसञ्चाराभिः त्वरितः - शीघ्रः, पदसञ्चारः -- चरणसञ्चारो यासां तादृशीभिः, करिघटाभिः इस्तियूथैः आगत्यागत्य उपस्थायोपस्थाय, समन्ततः सर्वतः, एनं चतुरङ्गसेनानायकम्, परिवारयाञ्चक्रुः परिवेष्टन्ते स्म । च पुनः प्रत्येकं एकैकस्मिन् पातितस्निग्धदृष्टिना पातिता - प्रक्षिमा, स्निग्धा - स्नेहार्द्रा, दृष्टिर्येन तादृशेन तेन सेनानायकेन, सप्रसादं प्रसन्नतापूर्वकम् आदिष्टाः भज्ञताः सन्तः, प्रणम्य नमस्कृत्य, निजनिजस्थानेषु स्वस्वस्थानेषु तस्थुः स्थिताः [घ] ॥ अथ अनन्तरम्, प्रतिपन्थिबलं शत्रुसैन्यभू, चक्षुषः पथि दृष्टिमार्गम्, अढोकत प्राप्तम् । कीदृशम् ? निशीथानुभावभास्वरेण निशीथानुभावेन - मध्यरात्रप्रभावेण भाखरेण - प्रकाशमानेनः पुनः विषमं विषमप्रकारं यथा स्यात् तथा, उन्मीलता दीप्यमानेन, निमीलता संकुचता च, दीपिकानिवहेन प्रदीपसमूहेन, पिशु नितं सूचितम् पुनः अम जुगुअकालम् २६ तिलक०
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190