Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 187
________________ तिलकमलरी। ३२९ विलासचलनेषु सर्वतः प्रसरतातिसंनिहितमुखरमणिनूपुरखनेन प्रभासंतानेन श्रूयमाणराजहंसरवमाकाशकमलिनीवनमिवोद्विकासमुपदर्शयन्तीम् [ल], अङ्गुलिप्रणयिपद्मरागोर्मिकारागसंवर्धितप्रभासमृद्धिभिः समन्ततः प्रसरन्तीभिरभिनवातपताम्राभिरङ्गिनखमयूखलेखासंततिभिर्दाशरथिशरकृशानुकर्शितत्विषामुदधिविद्रुमलतावनानामुज्जीवनाय कुङ्कुमरसवारिकुल्यासहस्राणीव प्रवर्तयन्तीम् , अच्छकुङ्कुमरसपिञ्जरेण मसृणमाणिक्यवलयश्रेणिना जङ्घाकाण्डयुगलेन गिरितटाघातकुण्ठितमणिप्रतिममनङ्गकरिकलभदन्तद्वितयमाक्षिपन्तीम्, उभयथापि परिमण्डलोरुणा द्विधापि निबिडकक्षाबन्धबन्धुरेण नितम्बिना जघनबिम्बेन प्रयत्ननिवसितमप्यदृश्यत्वादविद्यमानकल्पं कल्पपादपांशुकं कलयन्तीम् [व], आच्छादितोदरवलित्रयस्य हसितहारीतपक्षह रितिनः कनुका टिप्पनकम्-- ऊर्मिका-मुद्रिका । कुल्या-सारणिः । उभयथापि परिमण्डलोरुणा द्वाभ्यां प्रकाराभ्याम् , परिमण्डलोरुणा-वृत्तबृहजङ्ग्रेन वृत्तविस्तीर्णेन च। द्विधापि निचितकक्षाबन्धबन्धुरेण घनकाञ्चीबन्धचारुणा निबिडपुरुषकक्षाबन्धमनोज्ञेन च । नितम्बिना प्रशस्तपश्चात्कटीभागेन [व] । अवरुद्धः, आतपो यस्यास्तादृशीम, कीदृशेन ? अवलम्बमानस्थूलमुक्ताफलावचूलेन अवलम्बमानः-अवनमन्, स्थूलमुक्ताफलानो-स्थूलमुक्तामणीनाम्, अवचूल:-प्रान्तविलम्बिजालको यस्मिंस्तेन, केनेव, परस्परानुलग्नविगलजलबिन्दुना परस्परानुलग्नाः- परस्परसंश्लिष्टाः, विगलन्तः-क्षरन्तः, जलबिन्दवः-पानीयकणा यत्र तादृशेन, गगनम् आकाशम् , उत्पतितेन उड्डीनेन, जलधिफेनपटलेनेव समुद्रफेनपुञ्जेनेवेत्युत्प्रेक्षा । पुनः अशोकतरुपल्लवाताम्रतलस्य अशोकवृक्षपल्लवक्त्, आताम्रम्-आरक्त, तलम् अधःप्रदेशो यस्य तादृशस्य, चरणपङ्कजयुगलस्य पादपद्मद्वयस्य, विलासचलनेषु सविलासविक्षेपेषु, सर्वतः परितः, प्रसरता व्याग्नुवता, पुनः अतिसन्निहितमणिनपुरस्वनेन अतिसन्नि हितः-अतिनिकटः, मणिनूपुरखनः-मणिमयनूपुरध्वनियस्य तादृशेन, प्रभासन्तानेन द्युतिराशिना, श्रूयमाणराजहंसरवं श्रूयमाणः, राजहंसरवः-राजहंसशब्दो यस्मिंस्तादृशम् , आकाशकमलिनीवनम् आकाशस्थक्रमलिनीकाननम् , उद्विकासमिव उत्-उत्कृष्टो विकासो यस्य तादृशमिव, उपदर्शयन्तीं दृष्टिगोचरतां नयन्तीम् [ ल]। पुनः अधिनखमयूखलेखासन्ततिभिः पादसम्बन्धिनखकिरणपतिसमूहैः, कुङ्कुमरसवारिकुल्यासहस्राणीव कुङ्कुमरसरूपं यद्वारि-जलं, तत्कुल्यानां-तत्प्रणालिकानां, सहस्राणीव प्रवर्तयन्तीं प्रवाहयन्तीम् , कीदृशीभिस्तत्सन्ततिभिः ? अङ्गुलिप्रणयिपद्मरागोर्मिकारागसंवर्धितप्रभासमृद्धिभिः अङ्गुलिप्रगयिन्याः-अङ्गुलिस्नेहिन्याः, पद्मरागोर्मिकाया:-पद्मरागमणिमयाजुलीयकस्य, रागेण-रक्ततया, संवर्धिता-सम्यग्वर्धिता, प्रभासमृद्धिः-द्युतिसम्पत्तिर्यामां तादृशीभिः, पुनः समन्ततः परितः, प्रसर न्तीभिः स्फुरन्तीभिः, पुनः अभिनवातपताम्राभिः बालातपवद् रक्ताभिः, कस्मै फलाय ? दाशरथिशरकृशानुकर्शि रथे:-रामस्य, शरकृशानुना-बाणाग्निना, कर्शिता-कृशतामापादिता, विट्- कान्तिर्येषां तादृशानाम्, उदधिविद्रुमलतावनानां समुद्रसम्बन्धिप्रवाललतावनानाम् , उज्जीवनाय । पुनः अच्छकुङ्कुमरसपिञ्जरेण उज्जवलकुङ्कुमद्रववत् पीतवर्णेन, मसृणमाणिक्यवलयश्रेणिना मसणा-स्निग्धा, माणिक्यवलयश्रेणिः-रत्नमयकङ्कणपतिर्यस्मिन् तादृशेन, जङ्घरकाण्डयुगलेन काण्डाकारजङ्घाद्वयेन, गिरितटाघातकुण्ठितमणिप्रतिम गिरितटाघातेन-पर्वतप्रदेशाघातेन, कुण्ठिताप्रतिहता, मणिप्रतिमा-मणिनिर्मितो गजदन्तबन्धो यस्य तादृशम् , अनङ्गकरिकलभदन्तद्वितयं कामदेवहस्तिशावकदन्तद्वयम् , आक्षिपन्तीं निन्दयन्तीम् । पुनः उभयथापि उभयप्रकारेणापि वक्ष्यमाणरूपेण, परिमण्डलोरुणा परिमण्डलीवर्तुलौ, ऊरू-जानूपरिभागौ यस्य तादृशेन, परिमण्डलं-वर्तुलम् , उरु बृहन्च, तादृशेन च, पुनः द्विधापि प्रकारद्वयेनापि, भागद्वयेऽपीत्यर्थः, निबिडकक्षाबन्धबन्धुरेण सान्द्रपरिधानपश्चादञ्चलपल्लवबन्धचारुणा घनकाञ्चीबन्धनशोभिना च,नि म्बिना प्रशस्तकटिपश्चाद्भागद्वयस्थौल्यशालिना, जघनबिम्बेन कटिपुरोभागमण्डलेन, प्रयत्ननिविसितमपि प्रयत्नपरिहितमपि, कल्पपादपांशुकं कल्पवृक्षसूक्ष्मवस्त्रम् , अदृश्यत्वाद्धेतोः, अविद्यमानकल्पम् अविद्यमानतुल्यं, कलयन्ती चारयन्तीम् [व] | पुनः आच्छादितोदरवलित्रयस्य आच्छादितम्, उदरसम्बन्धिवलित्रयं-रेखात्रयं येन तादृशस्य, ४२ तिलक

Loading...

Page Navigation
1 ... 185 186 187 188 189 190