Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 27
________________ तिलकमलरी। १६९ राजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमा मण्डपिकां तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्पप्रकरसुरभेरास्थानवेदिकायाः पृष्ठभागे प्रतिष्ठापितमुभयतः संयोजितमृगाङ्कमणिदारुनिर्मितोदारमतवारणकमनुपृष्ठमाहितोच्चकाञ्चनपीठमीषजरठकुमुदगर्भदलावदातमच्छधवलधौतपट्टांशुकपटाच्छादितं दन्तपट्टमध्यास्त [अं] । व्यपास्त सकलविहारकालकल्पितवेषः प्रक्षालितचरणपल्लयश्च परिचारकगणेन सत्वरोपसृतधृतकरककिङ्करकरावर्जितेन शिशिरवारिणा प्रक्षाल्य बलसंक्षोभधूलिधूसरश्रमस्खेदलवलेखं मुखेन्दुमग्रतः स्थापिते मणिपतके प्रक्षिप्य कतिपयानुदकगण्डूषानुपस्पृश्य परिमृज्य चाभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन वस्त्रपल्लवेन सहस्तपल्लवं वदनमादरगृहीतजलार्द्रतालवृन्तेनान्यतमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा द्वारदेशस्थकटकककरवाकृष्टधावमानसंभ्रान्तवारिकम् , उत्सारितक्लान्तपुष्पबलितलिनायमानकुट्टिमोत्सङ्गम् , टिप्पनकम् - उपस्पृश्य आचम्य । अभ्यग्रः-समीपवर्ती । आरालिकः-सूपकारः [अ॰] । मध्यमा मध्यवर्तिनीम् , मण्डपिकां लघुमण्डपम् , चरणाभ्यामेव पादाभ्यामेव, गत्वा, तन्मध्यभागे तन्मध्यस्थाने, तत्क्षणोपलिप्ताया तत्क्षणकृतगोमयोदकोपलेपनायाः, पुनः निरन्तरक्षिप्तसरसपुष्पप्रकरसुरमेः निरन्तरं-निविद यथा स्यात् तथा, क्षिप्तानां-विकीर्णानाम् , सरसाना-स्निग्धानाम् , पुष्पाणाम् , प्रकरण-समूहेन, सुरभेः-सुगन्धाब्यायाः, आस्थानवेदिकायाः सभासम्बन्धिवेद्याः, पृष्ठभागे पश्चाद्भागे, प्रतिष्ठापितं संस्थापितम् , दन्तपट्ट हस्तिदन्तमयं फलकम् , अध्यास्त उपविष्टवान् , “पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः" इति मेदिनी, कीदृशम् ? उभयतः संयोजितमृगाङ्कमणिदारुनिर्मितोदारमत्तवारणकम् उभयतः-पार्श्वद्वये, संयोजितौसन्निवेशितो, मृगाङ्कमणिधु-चन्द्रकान्तमणिषु मध्ये, यदारु-सारभूतं वस्तु, तेन उत्तमचन्द्रकान्तमणिनेत्यर्थः, निर्मिती, उदारी-महान्तौ, मत्तवारणी-मत्तगजौ, यस्मिंस्तादृशम्, पुनः अनुपृष्ठं पृष्ठभागे, आहितोश्चकाञ्चनपीठम् आहितस्थापितम् , उच्चम्- उत्तुङ्गम् , काचनपीठ-सुवर्णमयमासनं यस्मिंस्तादृशम् , पुनः ईषज्जरठकुमुदगर्भदलावदातम् ईश्वत्किञ्चित् , जरठानि परिणतानि, यानि कुमुदगर्भदलानि-कुमुदान्तर्तिपत्राणि, तद्वत् अवदातम्-उज्वलम् , पुनः अच्छधवलधौतघवलपहांशकपटाच्छादितम अच्छेन-निर्मलेन, धवलेन-शुभ्रेण, धौतेन-प्रक्षालितेन. पटेन-कौशेयरूपेण उत्तमेन, अंशुकपटेन-सूक्ष्मवस्त्रेण, आच्छादितम् , “अंशुकं लक्ष्णवस्ने स्यात्" इति मेदिनी [अं] । व्यपास्तसकलविहारकालकल्पितवेषः व्यपास्तः-त्यक्तः, सकल:-समस्तः, विहारकालकल्पितः-नगरीभ्रमणावसररचितः, वेषः-कृत्रिमरूपं, येन तादृशः, च पुनः, परिचारकगणेन सेवकसमूहेन, प्रक्षालितचरणपल्लवः धौतपल्लवकोमलपादः, स राजा, बलसंक्षोभधूलिधूसरश्रमखेदलघलेखं बलसंक्षोभधूलिभिः-सेनासञ्चारोद्धतरेणुभिः,धूसरा-धूसरवर्णा, श्रमखेदलबलेखाश्रमजन्यखेदबिन्दुरेखा, यस्मिंस्तादृशम् , मुखेन्दं खकीयमुखचन्द्रम् , सत्वरोपसृतधृतकरककिङ्करकरावर्जितेन सत्वरोपमृतस्य शीघ्रमुपागतस्य, धृता-गृहीता, करका-तुषारतोयं येन तादृशस्य, किङ्करस्य-मृत्यस्य, करेण-हस्तेन, आवर्जितेनसमर्पितेन, शिशिरवारिणा-शीतलजलेन, प्रक्षाल्य विशोध्य. अग्रतः अग्रे. स्थापिते धृते. मा पतद्वहके-पतन्तं गण्डूषं गृहृतीत्यर्थकतत्संज्ञके गण्डूषपात्रे, कतिपयान परिमितान्, गण्डपान् चुलुकान्, प्रक्षिप्य विसृज्य, सहस्तपल्लवं हस्तपालवेन सहितम् , वदनम् , उपस्पृश्य जलेन स्पृष्ट्वा, च पुनः, अभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन अभ्यमः- नृपाप्राभिमुखो हस्तो यस्य तादृशेन, शाटकयाहिणा-मार्जनवस्त्रधारिणा मृत्यन, सत्वर-शीघ्रम् , उपढोकितेन-उपनीतेन दत्तेन, वस्त्रपल्लवेन पल्लवसदृशश्लश्णवस्त्रेण, परिमृज्य परि-सर्वतोभावेन, मार्जनं कृत्वा, आदरगृहीतजलाईतालवृन्तेन आदरेण-प्रीत्या, गृहीतं-धृतम् , जलाई जलायुतम् , तालवृन्त-तालव्य जनं येन तादृशेन, अन्यतमपरिचारकेण बहूनां मध्ये केनचिदेकेन सेवकेन, मन्दमन्दं शनैः शनैः, उपधीज्यमानः क्रियमाणोपवीजनः, . मुहूर्तमिव क्षणमिव, स्थित्वा आहारमण्डपं भोजनाऽऽगारम् , अयासीत् गतवान् । कीदृशम् ? द्वारदेशस्थकटककटुरवाकृष्टधावमानसम्भ्रान्तवारिकं द्वारदेशस्थस्य-द्वारदेशनियुक्तस्य, कटकस्य-सैन्यस्य, कटुरवेण-कठोरशब्देन, भाकृष्टाः-प्रेरिताः,धावमानाः-शीघ्रं गच्छन्तः, सम्भ्रान्ताः-स्वराऽऽकुलाः, वारिकाः-जलवाइका यस्मिंस्तादृशम् । पुनः उत्सा. २२ तिलक.

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190