Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 39
________________ तिलकमलरी। १८१ मनयोः खेन रूपेण भारमुद्वोढुमक्षमेव क्षामतां मुमोच मध्यलक्ष्मीः , अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायताः प्रसञः पदन्यासेषु निःश्वासाः [२] । प्रतिदिवसमुपचीयमानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत, तथा हि-वासभवनाङ्गणभ्रमिषु खिन्ना शरत्प्रसन्ने मानससरःपयसि ससखीजना स्नातुमियेष, मध्यन्दिननिदाघजनिताऽऽयल्लका पल्लवितकल्पपादपलताकुलेषु कुलगिरिनितम्बारामेषु रन्तुमभिललाष, विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धायतनेषु सान्ध्यमारब्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् , अग्रतः प्रपश्चितविचित्राख्यानकेन श्रव्यवचसा कथकनारीजनेन विविधं विनोद्यमानापि दिव्यकथासु कर्णं ददौ, विधृतविकोशपुष्करे न तथा निजकरे यथा सुभटनिकरे दृष्टिमनयत, अपास्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावज्ञमैक्षत, सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत, टिप्पनकम्-बन्धुतां बन्धुसमूहम् [त] आयल्लकः-खेदः। विधृतविकोशपुष्करे एकत्र विकृतविगतप्रतिवारासिफलके, अन्यत्र विस्तविकसितपथे। अपास्तरणपरिकरं निरस्तसंग्रामपरिच्छदम् , अन्यन्न अपगतास्तरणपरिकरम् [थ]॥ मुखतां श्याम-कृष्णम , मुखम् अग्रभागो यस्य तत्ताम् , जग्मतुः प्रापतुः, अन्तर्वत्नीनामुदरगौरवस्य आलिङ्गनानन्दशैथिल्यस्य स्तनाग्रभागश्यामत्वस्य चौत्सर्गिकत्वात् । च पुनः, कामम् अत्यन्तम् , प्रवृद्धयोः स्थौल्यमापनयोः, अनयोः स्तनयोः, भारं, खेन आत्मीयेन, रूपेण कृशाकारेण, उद्बोदुम् उद्वहनाय, अक्षमा इव असमर्था इवेत्युत्प्रेक्षा, मध्यलक्ष्मीः मध्यावयवशोभा, क्षामतां कृशताम् , मुमोच तत्याज, खाभाविककृशतामपहाय स्तनभारोबहनोपयोगिनी गुरुता जग्राहेत्यर्थः । अनपत्यतादर्शनदुःखतप्ताम् अनपत्यतायाः-अपत्यराहिल्यस्य, दर्शनेन यद् दुःखं-परितापः, तेन तप्ताम् , बन्धुतां खबन्धुजनताम् , निर्वापयितुं शमयितुमिव, आयताः दीर्घाः, निश्वासाः नासावायवः, पदन्यासेषु पादविक्षेपेषु चलनचलायामित्यर्थः, प्रसस्रः प्रसरन्ति स्म; अन्तर्वनीनां चलनश्रमेण निःश्वासोद्गमस्य प्रकृतिसिद्धत्वात् [त] । च पुनः, प्रतिदिवसं प्रतिदिनम् , उपचीयमानगर्भा वर्धमानगर्भा सती, सकललोकाश्चर्यकारिणः सर्वलोकाश्चर्यजनकान्, अभिलाषविभ्रमान् मनोरथविलासान् , अकृत कृतवती, अभृतेति पाठे धृतवतीत्यर्थः । तान् विभ्रमान् दर्शयति-तथाहीति । वासभवनाङ्गणभ्रमिषु वासभवनस्य-निवासमन्दिरस्य, यानि अङ्गणानि-चत्वराणि, तेषु या भ्रमयःभ्रमणानि, तासु खिन्ना अनुभूतखेदा सती, ससखीजना सखीजनसहिता, शरदागमात् शरडतोरागमनात् , प्रसन्ने निर्मले, मानससरस्पयसि मानसाख्यसरोवरजले, स्नातुं निमबितुम् , श्येष अभिलषितवती । मध्यन्दिननिदाघजनिताऽऽयलका मध्यन्दिने-मध्यावे, यो निदाघः-धर्मः, तेन जनितः-उत्पादितः, आयल्लका-खेदो यस्यास्तानी सती, पल्लवितकल्पपादपलताकुलेषु पल्लविताभिः-नूतनदलव्याप्ताभिः, कल्पपादपलताभिः-कल्पवृक्षलताभिः, आकुळेषुव्याप्तेषु, यद्वा पल्लवितं कल्पपादपलतानां कुलं-समूहो येषु तादृशेषु, कुलगिरिनितम्बारामेषु कुलगिरीणां-कुलपर्वतानाम् , नितम्बारामेषु-मध्यभागस्थोद्यानेषु, रन्तुं क्रीडितुम् , अभिललाष अभिलषितवती, मदिरावतीति शेषः । विबुधवृन्दपरि वृता विबुधवृन्देन-पण्डितमण्डलेन, देवमण्डलेन वा, परिवृता-परिवेष्टिता सती, शाश्वतेषु सदातनेषु, सागरान्तरद्वीपसिद्धायतनेषु सागरान्तराः समुद्रान्तर्गताः, ये द्वीपाः-स्थलप्रदेशाः, तत्रत्येषु सिद्धायतनेषु-सिद्धमन्दिरेषु, अप्सरोभिः खर्वेश्याभिः, आरब्धं प्रवर्तितं, सान्ध्यं सायंकालिक, प्रेक्षानृत्यं नृत्यविशेषम् , ईक्षितुं द्रष्टुम् , अकात् श्राकाहितवती। अग्रतः अग्रे, प्रपश्चितविचित्राख्यानकेन प्रपञ्चितं--विस्तारितम् , विचित्रं-विविधम् , आख्यानकम्-अमृतमन्यनादिकथानकं येन तादृशेन, श्रव्यवचसा श्रव्य-श्रवणप्रियं, वचो यस्य तादृशेन, कथकनारीजनेन कथानककुशलो यो नारीजन:श्रीजनः, तेन, विविधं नानाप्रकारकं यथा स्यात् तथा, विनोद्यमानापि प्रसाद्यमानापि, दिव्यकथासु दैविकोपाख्यामकेषु, मनोहरकथासु वा, कर्ण, ददौ प्रवर्तयामास, विधृतविकोशपुष्करे विकृतं-निहितम् , विकोश-विकसितम् , पुष्कर-कमलं, यस्मिंस्तादृशे, निजकरे वहस्ते, तथा दृष्टिं न, अनयत् प्रेरितवती, यथा विधृतं, विकोश-प्रत्याकाररहितम्, पुष्करं-कृपाण, फलकं येन तादृशे, सुभटनिकरे सुयोधसमूहे । प्रकामगुणवन्तमपि अत्यन्तगुणशालिनमपि, पक्षे मनोहररजुबद्धमपि

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190