Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमारी। तत्र च संनिधाने मकरध्वजायतनस्य नितान्तसुभगे भूविभागे प्रथममेवागत्य परिजनेन सूत्रितम् , अनतिमात्रोच्छ्रितस्य प्रशस्तविस्तारभाजः कूजितानुमीयमाननीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य लम्बमानबहलफललुम्बिस्तम्बभारदूरावर्जितोदारचिटपस्य जलतुषारवर्षिणा सरलि(सि)तसमदहंससारसारण नभखता स्वैरमान्दोलितसान्द्रशाखामण्डलस्य तरुणसहकारखण्डस्य मध्ये महता बालकदलीवनेन कवचितम् , [औ], अचिरविकचानामजिरशिरीषशाखिनामलिविघट्टितैर्गलद्भिर्बालशुकशकुनिगलनालनीलैः प्रसूनस्तबकैराकाशजाह्नवीशैवलैरिव शैत्यलोलैरनुसृतपुरोभागम् , प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरम्, प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालम् , प्रतिस्तम्भमारोपितहिमशिलाशालभञ्जिकम् , प्रतिगवाक्षमुपनिहितकालागुरु
टिप्पनकम्-सारवेण सरवाः सत्केन [औ] ।
अदूरे-समीपे, वहत्-स्पन्दमानम् , अगाधम् अतिगम्भीरं नीरे यस्य तादृशम् , [ओ]। च पुनः, तत्र तस्मिन् , तीर.
इत्यर्थः, जलमण्डपम्-जलगृहम् , अगच्छत् गतवान् । कीदृशम् ? मकरध्वजायतमस्य कामदेवमन्दिरस्य सन्निधाने समीपे, नितान्तसुभगे अत्यन्तमनोहरे, भूविभागे भूमिप्रदेशे, प्रथममेव पूर्वमेव, आगत्य आगमनं कृत्वा, परिजनेन वपरिवारेण, सुत्रितं रचितम्, पुनः तरुणसहकारखण्डस्य परिणतातिसुरभिरसालवनस्थ, मध्ये, महता विस्तृतेन, बालकदलीवनेन नवकदल्याख्यप्रसिद्धफलप्रसविवृक्षसमूहेन, कवचितं परितो वेष्टितम् , कीदृशस्य तस्य मध्ये ? अनतिमानोच्छ्रितस्य अनत्यन्तोन्नतस्य पुनः प्रशस्तविस्तारभाजः अतिविस्तारशालिनः; पुनः कूजितानुमीयमाननीलपल्लवप्रभान्धकारावगुण्ठितकलकण्ठकुलस्य कूजितेन-शब्दविशेषेण, अनुमीयमानम्-अनुमित्यात्मकज्ञानविषयीकियमाणम् ,नीलपल्लवानां-कृष्णवर्णनवदलानाम् ,याः प्रभा:-कान्तयः, तद्रूपैः, अन्धकारैः, अवगुण्ठितम्-आच्छादितम् , कलकण्ठानां-कोकिलानाम् , कुलं-समूहो यस्मिस्तादशस्य पुनः लम्बमानबहलफललुम्बिस्तम्बभारदुरावर्जितोदारविटपस्थ लम्बमाना:-अघो नमन्त्यः, बहलफला:-बहुफलाः, या लुम्बयः-प्रतिशाखावलम्बमानफलसमूहात्मका गुच्छाः, तासां स्तम्बस्य-समूहस्य, भारेण-गुरुतया, दूर-दूरपर्यन्तम् , आवर्जिताः-आनमिताः, उदारा:-विस्तृताः, विटपाः-शाखा यस्य तादृशस्य पुनः नमस्खता वायुना, खैरं खेच्छानुसारम्, आन्दोलितसान्द्रशाखामण्डलस्य आन्दोलित-प्रकम्पितम सान्द्र-निविडम् , शाखामण्डलं-शाखासमूहो यस्य तादृशस्य, कीडशेन वायुना? जलतुषारवर्षिणा जलहिमकणोत्क्षेपिणा, पुनः सरसितसमदहंससारसारवेण सरसिताः-सरसतामापादिताः, यद्वा सरसितेन-शब्देन सहिताः, शब्दायमाना इस्यर्थः,ये समदा:-मदान्विताः, हंससाराः-हंसश्रेष्ठाःतैःसारवेण-मुखरेण, यद्वा सरसिताः-सशब्दाः, समदाः-हर्षान्विताश्च, हंससाराः-श्रेष्ठहंसा येन तेन सरसितसमदहंससारेण, पुनः सारवेण-सरयुनदीसम्बन्धिना, सरयूनदीजलसंस्पर्शिनेत्यर्थः [औ । पुनः प्रसूनस्तबकैः पुष्पगुच्छैः, अनुसूतपुरोभागम् अनुसृतः-आश्रितः, व्याप्त इति यावत् , पुरोभागः-अग्रभागो यस्य तादृशम् , केषां तैः ? अचिरविकचानाम् अभिनवविकसितानाम् , अजिरशिरीषशाखिनां प्राङ्गणवर्तिशिरीषाख्यवृक्षविशेषाणाम् ; कीदृशैस्तैः ? अलिविघट्टितैः भ्रमरवि लेषितैः, पुनः गलद्भिः पतद्भिः पुनः बालशुकशकुनिगलनाल. नीलैः बालानां-शैशवावस्थानाम् , शुकशकुनीनां-शुकाख्यपक्षिविशेषाणाम् , यद् गलनालं-कण्ठकाण्डः, तद्वद् नीलैः-कृष्णवणः; कीदृशैः कैरिव ! शैत्यलोलैः शैत्येन हेतुना, लोलैः-तरलैः, आकाशजाह्नवीशैवलैरिव आकाशजाहव्याः-आकाशगङ्गायाः, शैवलैः-जलीयतृणविशेषैरिव; पुनः प्रतिभित्तिलम्बितविचित्रबिससूत्रचामरं प्रतिभित्ति-प्रतिकुडयम् , लम्बिताः-अधोनताः, विचित्रा:-विविधवर्णाः. बिससूत्राणां-मृणालतन्तूनाम् , चामरा:-व्यजनविशेषा यस्मिस्तादृशम् । पुनः प्रतिद्वारमाबद्धहरिचन्दनप्रवालवन्दनमालं प्रतिद्वार-द्वारे द्वारे. आबद्धा-लम्बिता, हरिचन्दनप्रवालानां-हरिचन्दनाख्यदिव्यधूक्षपालवानां चन्दनविशेषपालवानां वा, वन्दनमाला-तोरणमाला यमिंस्तादृशम् । पुनः प्रतिस्तम्भ प्रतिस्थूणम्, आरोपितहिमशिलाशालभलिकम आरोपिता-स्थापिता, हिमशिलायाः-शीतलप्रस्तरस्य, शालभजिका-पुत्तलिका यस्मिस्तादृशम् । पुनः प्रतिगवाक्षं प्रतिवातायनम् , उपनिहितकालागुरुधूपर्धाटेकम् उपनिहिता-आरोपिता, कालागुरूणां--
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190