Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 67
________________ तिलकमञ्जरी। नीलस्विषो बाणता द्विधाकृतोद्दण्डपुण्डरीकाः कादम्बाभिधामारवमुखरिताशामुखाः शिलीमुखाभिख्यां मुस्यामुद्वहन्तः, सायकाः प्रसस्नुः [ड। अतिसंहततया च तेषामन्तरितचक्षुरिन्द्रियाः पुरोवर्तिनामपि वीराणां रणमतीन्द्रियं नाद्राक्षुरमरपतयः, समीपेऽपि त्रिदशतां सुभटजनमुपागतं न स्वयानमारोपयितुमपारयन्नप्सरसः, समासन्नस्यापि न कबन्धस्य स्कन्धरुधिरधारया कपालान्यपूरयन् परेतयुवतयः, निरुद्धचन्द्रालोकबद्धान्धकारेषु च रुधिरनिम्नगातीरेषु प्ररूढतालतरुवनशङ्कया निर्विशङ्कमध्यासितोयवेतालमण्डलमध्याभिरमराङ्गनाभिररम्यन्त समरासादिताः पत्तयः [8] । मुहूर्ताच्च प्रीतहृदयः स नरपतिकुमारः सेनाधिपतिमवदत्-'वसायुध ! तवानेन सकललोकविस्मयकारिणा भुजबलेन धनुरिवावर्जितं मम निसर्गस्तब्धमपि हृदयम्, आशैशवादपारपौरुषमदोन्मादपरवशस्य मे शतशः संगरेषु संवृत्तः प्रवेशः, जातश्च सहस्रसंख्यैर्धन्विभिः सह समागमः, बाणतां चोदहन्तः। द्विधाकृतोदण्डपुण्डरीकाः कादम्बाभिधां द्विधाकृतानि-छिन्नानि, उद्गतदण्डानि पुण्डरीकाणिछत्राणि यैस्ते तथोक्ताः, अन्यत्र छिनोद्दण्डपमाः, कादम्बा:-हंसाश्च । आरवमुखरिताशामुखाः शिलीमुखामियां शब्दशब्दितदिशुखाः, शिलीमुखाभिख्या, शिलीमुखाः-भ्रमराः [ड] । शारताम् , पक्षे नीलझिण्टीनामकबाणवृक्षताम् , उद्वहन्तः, तद्वृक्षाणामपि तादृक्कान्तिकत्वेन साधात् ; पुनः, द्विधाकृतोहण्ड. पुण्डरीकाः द्विधाकृतानि-खण्डितानि, उद्दण्डानि-ऊर्ध्वदण्डावलम्बितानि, पुण्डरीकाणि-रिपुभूतनृपच्छन्नाणि, पक्षे उद्दण्डानिऊवनालावलम्बितानि, पुण्डरीकाणि-कमलानि यस्तादृशाः, अत एव कादम्बाभिधां कादम्बेति कलहंससाधारणसंज्ञाम् , उद्वहन्तः, कलहंसानां शराणां च कादम्बसंज्ञकत्वात् ; पुनः आरवमुखरिताशामुखाः आरवैः-खशब्दैः, मुखरितानिप्रतिनादितानि, आशामुखानि-दिङ्मुखानि यस्तादृशाः, अत एव मुख्यां प्रधानभूताम् , शिलीमुखाभिख्यां भ्रमरसाधारणशिलीमुखेति संज्ञाम् , उद्वहन्तः, शराणां भ्रमराणां च शिलीमुखेतिसंज्ञकत्वात् [ड] । च पुनः, तेषां बाणानाम् , अतिसंततया अन्योऽन्यमतिमिलिततया, अन्तरितचक्षुरिन्द्रियाः अन्तरित-व्यवहितम् ; चक्षुरिन्द्रियं यासां तादृश्यः, अमरपतयः पतिबद्धदेवगणाः, पुरोवर्तिनामपि अग्रे स्थितानामपि, वीराणां सुयोधानाम् , अतीन्द्रियम् इन्द्रियागोचरम् , रणं संग्रामम् , चक्षुषा नेत्रेण, न अद्राक्षुः द्रष्टुमशक्नुवन् । पुनः समीपेऽपि पार्वेऽपि, पार्थस्थितमपीत्यर्थः, त्रिदशता संग्राममरणजन्यदेवत्वम् , उपागतं प्राप्तम् , सुभटजनं सुयोधजनम् , खयानं खवाह्यरथम् , आरोपयितुम् आरोहयितुम् , अप्सरसः खर्वेश्याः, न अपारयन् अशक्नुवन् , निरन्तरबाणप्रहारजनितान्धकारमयत्वेन पार्श्ववर्तिनोऽपि मृतसुभटा न दृष्टिगोचरीभवितुमशकनिति भावः । एवं समासनस्यापि पार्श्वस्थस्यापि, कबन्धस्य "मनुष्याणां सहस्रेषु हतेषु हतमूर्धसु । तदावेशात् कबन्धः स्यादेकोऽमूर्धा क्रियान्वितः ॥” इत्यन्यत्रोक्तशिरोरहितसक्रियशरीरस्य, स्कन्धरुधिरधारया स्कन्धरुधिरस्य-स्कन्धस्यन्दितशोणितस्य, धारया-प्रवाहेण, परेतयुवतयः पिशाचयुवतयः, कपालानि खकर्परान्, न अपुरयन् न पूरयितुमपारयन् । च पुनःनिरुद्धचन्द्रालोकबद्धान्धकारेषु निरुद्धः-अनवरतबाणवर्षणावरुद्धः, चन्द्रालोकः-चन्द्रप्रकाशो येषु तादृशेषु, अत एव बद्धः स्थापितः, अन्धकारो येषु, यद्वा निरुद्धेन चन्द्रालोकेन बद्धोऽन्धकारो येषु तादृशेषु, रुधिरनिमगातीरेषु शोणितनदीतटेषु, प्ररूढतालतरुवनशङ्कया प्रवृद्धतालाख्यवृक्षविशेषवनसन्देहेन, निर्विशकं निश्शर्वं यथा स्यात् तथा, अध्यासितोलवेतालमण्डलमध्याभिः अध्यासितम्-अधिष्ठितम् , ऊर्ध्ववेतालानाम्ऊर्ध्ववर्तिव्यन्तरविशेषाणाम्, मण्डलमध्य-मण्डलमध्यभागो याभिस्वादशीभिः, अमराङ्गनाभिः देवाशनाभिः, समरा. सादिताः समरात्-रणात्, आसादिताः-प्राप्ताः, पत्तयः पदातयः, अरस्यन्त रम्यन्ते स्म । च पुनः, महात क्षणात्, प्रीतहृदयः प्रसन्नमनाः, स नरपतिकुमारः राजकुमारः, सेनाधिपति सेनानायकं वज्रायुधम् , अवदत् उकवान् , वज्रायुध! हे तत्संज्ञकसेनापते ! सकललोकविस्मयकारिणा सकललोकानां सर्वजनानाम् , विस्मयकारिणापाश्चर्यजनकेन, अनेन तव भुजबलेन बाहुविक्रमेण, निसर्गस्तब्धमपि निसर्गेण-खभावेन, स्तब्धमपि-निश्चेष्टमपि, मम हृदयं, धनुरिच चापदण्ड इव, आवर्जितं नमितम् , सचेष्टतामापादितमित्यर्थः । आ शैशवात् आबाल्यात् , अपार पौरुषमदोन्मादपरवशस्य अपारम्-अत्यन्तम् , यत् पौरुषं पराक्रमः, तज्जन्येन मदेन-अभिमानेन, य उन्मादः २७ तिलक.

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190