Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 116
________________ २५८ टिप्पनक-परागविवृतिसंवलिता चरचाटुकारस्वैरसौरभेयाभिरचिरजातप्रसवाभिरद्यश्वीनाभिश्च गोभिरशून्यपर्यन्तैस्तुहिनपातशीनहैयंगवीनवर्णतनुलतालावण्याभिः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिङ्मुखाभिर्नवनीतपिण्डपाण्डवलात्कठिनपरिमण्डलस्तनकलशयुगलाभिर्गोरसश्रीभिरिव शरीरिणीभिः सविभ्रमरगवलनैः स्नेहनिर्भराणि दधीनि बल्लवह्रदयानीव निर्दयमामभतीभिर्गोपललनाभिः सर्वतः समाकुलैगोकुलैरधिष्ठितकझोपकण्ठां नगरसीमामलङ्घयम् [य] । ___ अथाप्रेसराश्ववारदर्शनक्षुभितैः 'कटकमागच्छति' इति जनरवादुपलभ्योपलभ्य सर्वतः प्रधावितैः परित्यक्तनिजनिजव्यापारैरवकरकूटकेष्वधिरूढेस्तडागपालीषु पुञ्जितैर्देवकुलवरण्डकेषु कृतावस्थानैः पादपस्कन्धेषु बद्धासनैरूश्वोपविष्टैश्च लम्बितोभयभुजैश्च जघनपार्श्वविन्यस्तहस्तयुगलैश्च शीर्णपट्टिकागाढप्रथितासिधेनुकैश्च धौतशाटककृतशिरोवेष्टनैश्च वेणुयष्टिषु कृतावष्टम्भैश्च स्कन्धाधिरोपितदयितडिम्भैश्च सर्वत्र सकुतूहलैरपि सविशेष टिप्पनकम्-विशिखा-रथ्या । आपीनम्-ऊधः । अद्यश्वीनाः -अद्य श्वरे वा प्रसूताः । स्नेहनिर्भराणि घृतभरिवानि प्रेमपूरितानि च दधीनि वल्लभहृदयानि च । निर्दयमामतीभिः निष्करुणम्, मातीभिः-मदयन्तीभिः पीडयन्तीभिश्च [य]। सततम्-अनवरतम् , अनुचरस्य-भृत्यस्य, यः, चाटुकारः-प्रियवाक्यप्रयोगः, तत्र खरा:-स्वतन्त्राः, सौरभेया: वृषभा यासां तादृशीभिः, पुनः अचिरजातप्रसवाभिः अभिनव प्रसूताभिः, च पुनः, अद्यश्वीनाभिः अद्य श्वो वा प्रसविष्यमाणाभिः, अत्यासन्नप्रसवाभिरित्यर्थः । पुनः कीदृशैः ? गोपालललनाभिः गोपवधूमिः, सर्वतः सर्वभागेषु, समाकुलैः व्याप्तैः; कीदृशीभिः ? तुहिनपातशीनहैयङ्गवीनवर्णतनुलतालावण्याभिः तुहिनपातेन-हिमपातेन, शीनं-घनीभूतम् , यद् हैयङ्गवीन-नवनीतम् , तस्येव वर्ण:-रूपं यस्य तादृशम्, तनुलतायाः-शरीरलतायाः, लावण्य-कान्तिर्यासां तादृशीभिः, पुनः क्षीरधवलचलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिङ्मुखाभिः क्षीरवत्-दुग्धवत् , धवलाना- शुभ्राणाम् , चलतां च, कटाक्षाणाम्-अपाङ्गानाम्, छटाभिः-धाराभिः, प्रतिक्षणं-प्रतिपलम् , क्षालितानि-धौतानि, दिङ्मुखानि-दिगग्रभागा याभि. स्तादृशीभिः, पुनः नवनीतपिण्डपाण्डुवलगत्कठिनपरिमण्डलस्तनकलशयुगलाभिः नवनीतपिण्डवत् , पाण्डुकिञ्चित्पीतश्वेतवर्णम् , बल्गत्-चलत् , कठिनं कठोरम्, परिमण्डलं-वर्तुलं च, स्तनकलशयुगलं-कलशाकारस्तनद्वयं यासा तादृशीभिः, पुनः शरीरिणीभिः शरीरवतीभिः, गोरसश्रीभिरिव गवाम् , रसः-पयोदध्यादि, तदीयशोभाभिरिवेत्युत्प्रेक्षा, पुनः सविभ्रमैः विलाससहितैः, अङ्गवलनः अङ्गसञ्चलनैः, स्नेह निर्भराणि स्नेहेन-दध्यादिगुणविशेषेण, पक्षे प्रीत्या, निर्भराणि-पूर्णानि, दधीनि, च पुनः, कहाभहृदयानि पतिहृदयानि, बल्लवहृदयानि इति पाठे तु गोपहृदयानीत्यर्थः, निर्दयम् अत्यन्तम् , आमथ्नतीभिः आलोडयन्तीभिः [य]। ___ अथ अनन्तरम् , भगवन्तम् ऐश्वर्यशालिनम् , अम्भोनिधि समुद्रम् , अपश्यम् दृष्टवानहम् , इत्यप्रेणान्वेति । कीदृशः ? ग्रामेयकैः ग्रामवासिभिः, अवलोक्यमानबलसन्ततिः दृश्यमानसैनिकसङ्घः, कीदृशैः ? अग्रेसराश्ववार दर्शनाभितः अप्रेसराणाम्-अग्रगामिनाम् , अश्ववाराणाम्-अश्ववाहकानाम् , दर्शनेन, क्षुभितैः-सञ्चलितः, कटकं सैन्यम् , आगच्छतीति, जनरवात् लोकोक्तशब्दात् , उपलभ्योपलभ्य ज्ञात्वा ज्ञात्वा, सर्वतः सर्वदिग्भ्यः, प्रधावितैः कृतसत्वरगमनैः, पुनः परित्यक्तनिजनिजव्यापारैः संत्यक्तस्वस्वकार्यः, पुनः अवकरकूटेषु अवकीर्यते-मार्जन्या विक्षिप्यते इत्यवकरः, धूल्यादिराशिः, तत्कूटेषु-तदुपरिभागेषु, अधिरूढैः आरूढः, पुनः तडागपालिषु तडागकोणेषु, तडागसेतुषु वा, पुञ्जितैः सङ्घीभूतैः, पुनः देवकुलवरण्डकेषु देवकुलस्य देवमन्दिरस्य, वरण्डकेषु-प्राकारस्थानीयभित्तिषु, कृतावस्थानः अवस्थितैः, पुनः पादपस्कन्धेषु वृक्षस्कन्धेषु, बद्धासनैः कल्पितासनैः, च पुनः, ऊर्वैः उत्थितैः, च पुनः, उपविष्टैः कृतोपवेशनैः, च पुनः, लस्वितोभयभुजैः नमितोभयबाहुभिः, च पुनः, जघनपार्श्वविन्यस्तहस्तयुगलैः कटिपुरोभागनिवेशितहस्तद्वयैः, च पुनः, शीर्णपट्टिकागाढग्रथितासिधेनुकैः शीर्णपट्टिकायां-शीर्णावस्थपटखण्डे, गाढंदर्द यथा स्यात् तथा, प्रथिता-बद्धा, असिधेनुः-छुरिका यस्तादृशैः, च पुनः, धौतशाटककृतशिरोवेष्टनः धौतेनक्षालितेन, शाटकेन-वस्त्रेण, कृतं शिरोवेष्टन-मस्तकावरणं यैस्तादृशैः, च पुनः, वेणुयष्टिषु वंशदण्डेषु, कृतावष्टम्भैः कृता

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190