Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 167
________________ तिलकमञ्जरी। उवाच च विगतहर्षः-'कुमार! विश्रान्त एष तावदत्रैव प्रदेशे मार्गदेशकोऽस्माकमातोद्यध्वनिः । आज्ञापय किमधुना कर्तव्यम्, किमेवमेव बद्धवेगा पुरस्तादबद्धलक्ष(क्ष्य)मेव प्रवलंत इयं नौः, उत पश्चान्निवत्येते, यद्यवश्यमेव पुरः प्रयातव्यं द्रष्टव्यं च कौतुकमिति निश्चयः कुमारस्य, तन्न किञ्चिद् विलम्बन विचारेण का कृतेन प्रयोजनम् , अनेनैव पर्वतनितम्बावलम्बिना मार्गेण गम्यते यावत् किमपि दृष्टमथ न किञ्चिद् गतेन दृष्टेन वा कौतुकेन साध्यसिद्धिरिति बुद्धिस्तदलमात्मना वृथैव क्लेशितेन, प्रस्थीयते स्थानादित एव प्रतीपं, गम्यते शिविरम् , आश्वास्यते सर्वतस्त्वददर्शनेन विक्लवीभूतो भृत्यवान्धवमित्रलोकः, क्रियन्ते प्रस्तुतानि राज्यकार्याणि, कौतुकानि त्वपर्यवसानायामत्र दण्डयात्रायामदृश्यपारे भगवत्यकूपारे विचरतो यहच्छया कुमारस्य पदे पदे सुलभदर्शनानि, किं च तैः, अयमेव हि तावदवधिरद्भुतानां निदर्शनं दर्शनीयानां संकेतशाला कुतूहलकारिणां युज्यते रत्नकूटशैलः कथमपि प्रसङ्गदृष्टो द्रष्टुमनुग्रहीतुं च सपरिग्रहस्य विविधक्रीडाभिः [ग] । अत्र हि पदे पदे सुन्दरतया सुरलोकस्यापि जनितव्रीडानि क्रीडास्थानानि, स्थाने स्थाने सर्वतकानि वनानि, वने वने विकचरत्नकुसुमस्तबकतारकितानि कल्पतरूखण्डानि, खण्डे खण्डे बहुप्रपञ्चाः काञ्चनलता तथैव पूर्ववदेव, स्तोकम् अल्पं, गत्वा, नावं, सत्वरं शीघ्रम् , आचकर्ष निवर्तयामास [ख] 1च पुनः, विगतहर्षः नष्टहर्षः सन्, उवाच उक्तवान् , किमित्याह-कुमार! युवराज!, अस्माकं, मागेदेशक: मार्गावेदकः, एषः अयम् , आतोद्यध्वनिः वाद्यविशेषध्वनिः, अत्रैव अस्मिन्नेव, प्रदेशे स्थाने, विश्रान्तः निवृत्तः, अधुना सम्प्रति, किं कर्तव्यं कर्तुमुचितम् , इति आझापय आदिश । एवमेव इत्थमेव, बद्धवेगा जनितवेगा, इयं नौ किम् , अबद्धलक्ष्यमेव अनिश्चितगन्तव्यप्रदेशमेव यथा स्यात् तथा, पुरस्तात् अग्रे, प्रवर्त्यते प्रेरिष्यते, उत अथवा, पश्चात् निवर्त्यते निवर्तयिष्यते, मयेति शेषः । यदि कुमारस्य भवतः, अवश्यमेव नूनमेव, पुरः अग्रे, प्रस्थातव्यं प्रस्थातुमुचितम् , च पुनः, कौतुकम् उत्सवः, द्रष्टव्यं द्रष्टुमुचितम् इति , निश्चयः संकल्पः, वर्तत इति शेषः, तत् तर्हि, कृतेन, विलम्ब्रेन कालात्ययेन, वा अथवा, विचारेण विवेचनेन, न किश्चिद अल्पमपि, प्रयोजनं फलम् , किं नु पर्वतनितम्बावलम्बिना पर्वतकटिभागावलम्बिना, मार्गेण, यावत् यावन्तं कालं, किमपि कौतुकमिति शेषः, दृष्टं दृष्टिगोचरं, स्यादिति शेषः, तावत् गम्यते प्रस्थीयते, अथ यदि, गतेन गमनेन, वा अथवा, दृष्टेन दृग्गोचरीकृतेन, कौतुकेन उत्सवेन, न साध्यसिद्धिः प्रयोजन-- निष्पत्तिः, इति बुद्धिः निश्चयः, स्यादिति शेषः, तत् तर्हि, वृथैव व्यर्थमेव, क्लेशितेन आयासितेन, आत्मना खेन, अलं व्यर्थम् , इत एव अस्मादेव स्थानात् , प्रतीपं पश्चात् , प्रस्थीयते प्रयाणं क्रियते, शिबिरं सैन्यावासः, गम्यते प्राप्यते, त्वदर्शनेन त्वद्दर्शनाभावेन, विक्लवीभूतः व्याकुलीभूतः, भृत्य-बान्धव-मित्रलोकः सेवकबन्धुसुहृजनः, सर्वतः समन्ततः, आश्वास्यते सान्त्व्यते, पुनः प्रस्तुतानि प्रकृतानि, राज्यकार्याणि क्रियन्ते। अपर्यवसानायां निरवधिकायाम् , अत्र अस्थां, दण्डयात्रायां दीर्घयात्रायाम् , अदृश्यपारे अलक्ष्योत्तरावधिके, भगवति ऐश्वर्यवति, अकूपारे सागरे, यदृच्छया खेच्छया, विचरतः विहरतः, कुमारस्य भवतः, पदे पदे स्थाने स्थाने, कौतुकानि तु उत्सवास्तु, सुलभदर्शनानि अनायासदशेनानि, स्युरिति शेषः च पुनः,तैः अनन्तरोपवर्णितकोतुकैः, किम् न किमपि प्रयोजनमित्यर्थः। अद्भुतानाम् आश्चर्याणाम् , अवधिः चरमसीमा, प्रधानकेन्द्रमिति यावत् , पुनः दर्शनीयानां द्रष्टुं योग्यानां, वस्तूनां, निदर्शनम् आदर्शभूतः, पुनः कुतूहलकारिणाम् उत्सवकारिणां, संकेतशाला संकेतगृहम् , कथमपि कथञ्चित् , प्रसङ्गदृष्टः प्रसवशादवलोकितपूर्वः, अयमेव रत्नकूटशैलः रत्नकूटपर्वतः, हि निश्चयेन, तावदिति वाक्यालङ्कारे, द्रष्टुं दृष्टिगोचरीकतु, सपरिग्रहस्य सपरिवारस्य, विविधक्रीडाभिः अनेकक्रीडाभिः,अनुग्रहीतुम् अनुकम्पयितुं च,युज्यते योग्यो वर्तते [ग] ! हि यतः, अत्र अस्मिन् पर्वते, पदे पदे स्थाने स्थाने, सुन्दरतया मनोहारितया, सुरलोकस्यापि स्वर्गलोकस्यापि, जनितबीडानि उत्पादितलजानि, क्रीडास्थानानि क्रीडाक्षेत्राणि; पुनः स्थाने स्थाने प्रतिस्थानम् , सर्व - कानि युगपत्सर्वऋतुसुखावहानि, वनानि, इदं 'दृश्यन्ते' इति वक्ष्यमाणक्रिययाऽन्वेति, पुनः वने वने प्रतिवनम् , विकचरत्नकुसुमस्तबकतारकितानि विकचानां-किकसितानां, रत्नाना-स्वजातिश्रेष्ठानां रखरूपाणां वा, कुसुमानां-पुष्पाणां, यः स्तबकः-गुच्छः, तेन तारकितानि-संजाततारकाणीव, कल्पतरूखण्डानि कल्पवृक्षपतयः, पुनः खण्डे खण्डे प्रतिखण्डम् ,

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190