Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 90
________________ २३२ टिप्पनक-परागविवृतिसंवलिता सुदृष्टिनामाऽझपटलिकः प्रविश्य पट्टकारोपितनिरवशेषमभ्यर्णवर्तिभिरनेकैः कश्मीरादिमण्डलप्रतिबद्धैः प्रधाननगरमामैरुपेतं कुमारभुक्तावखिलमुत्तरापथमर्पयांबभूव, समरकेतोश्च सर्वदायसहितानङ्गजीवनेऽङ्गादिजनपदाम् प्रायच्छत् [ऋ] | एवं च दर्शितप्रसादेन नृपतिना प्रतिदिवसमापाद्यमाननवनवसत्कारयोः, नियुक्तनिजपरिचारया सादरं मदिरावत्या चिन्त्यमानस्नानासनविलेपनादिशरीरस्थितिसाधनयोः, अनुजीविनो राजपुत्रजनस्य पात्रतानुसारेण संविभक्तस्वभुक्तिनगरमामनिवह निनिश्चिन्तयोः, दुष्टदायादसमवष्टब्धराज्यैरागत्यागत्य दिङ्मुखेभ्यो निजपदार्थिभिः पार्थिवकुमारैरनवरतगृह्यमाणसेवयोः, नरेन्द्रसेवया प्रतिदिनमवन्ध्यीकृतोभयसंध्ययोः, दूरीकृतदुष्टसामन्तसख्योपचारव्यवहारयोः, गुणानुरागिभिरागन्तुकफलार्थिभिश्च द्वीपान्तरनराधिपैसोभिराच्छादनै रत्नालङ्कारैर्विलेपनैः फलैरायुधैर्यानैरन्यैश्च निजनिजदेशसंभवैरपूर्ववस्तुभिः सततमुपचर्य पविष्टविशिष्टेष्ट्रराजलोकस्य निकटे-पार्वे, उपविष्टाः, विशिष्टाः-प्रशस्ताः, इष्टाः-अभिमता आत्मीया इति यावत् , राजलोकाः-नृपजना यस्य तादृशस्य, तस्य हरिवाहन स्य, हरिवाहनायेत्यर्थः, कुमारभुक्तौ कुमारस्य-हरिवाहनस्य, भुक्तोभोगोद्देशेन, तदीययोगक्षेमार्थमित्यर्थः, राज्ञा मेघवाहनेन, समादिष्टः सम्यगाज्ञप्तः, सुरष्टिनामा शोभना दृष्टिः-व्यावहारिकदृष्टिर्यस्येत्यन्वर्थसंज्ञकः, अक्षपटलिकः वित्तदानाऽऽदानादिव्यवहारजाताधिकृतः प्राज्ञिवाकपदप्रतिपाद्यः प्रधानपुरुषः, प्रविश्य मण्डपे प्रवेशं कृत्वा, उत्तरापथम् उदीच्यजनपदम् , अर्पयांवभूव ददौ, कीदृशम् ! पट्टकारोपितनिरव. शेषविशेष पट्टके-जनपदादिचित्रपट्टे, आरोपितः-चित्रितः, निरवशेषः-समस्तः, विशेषः-वैशिष्टयं यस्य तादृशम् , पुनः अभ्यर्णवर्तिभिः निकटवर्तिभिः, काश्मीरादिमण्डलप्रतिबद्धैः काश्मीरादिमण्डलान्तःस्थितैः, प्रधाननगरमामै मुख्यनगरपामैः, उपेतं सहितम् , पुनः अखिलम् अशेषम् । समरकेतोश्च तन्नामककुमारस्य, पुनः अनजीवने आस्यदेहस्य, जीवने-पोषणोद्देशेन, अस्य-अजभूतामात्यादिपरिवारस्य जीवनोहेशेन च, सर्वदायसहितान् अशेषभागसहितान्, अङ्गादिजनपदान् भङ्गादिदेशान्, प्रायच्छत् प्रदत्तवान् [ ]एवं च अनेन प्रकारेण च, दर्शितप्रसादेन प्रकटितप्रसन्नताकेन, नृपतिना मेघवाहनेन, प्रतिदिवसं दिने दिने, आपाद्यमाननवनवसत्कारयोः आपाद्यमानःप्राप्यमाणः, नवनवः-नवीनप्रकारकः, सत्कारः-पारितोषिक, ययोस्ताहशयोः पुनः नियक्तनिजपरिवारया नियुक्तः-तत्सरिचर्यायामधिकृतः, निजपरिवार:-स्वपरिचारकलोको यया तादृश्या, मदिरावत्या राज्या, चिन्त्यमानस्वानासनविलेप. नादिशरीरस्थितिसाधनयोः चिन्यमानानि-अवधानविषयीक्रियमाणानि, मान-जलेन शरीरमार्जनम् , आसनम्उपवेशनम् , विलेपनं-चन्दनादिद्रवोपलेपनम्, तदादीनि, शरीरस्थितिसाधनानि-शरीरस्वास्थ्योपकरणानि कर्माणि ययोस्तादृशयो, पुनः अनुजीविनोः तदधीनजीवनयोः, राजपुत्रजनस्य कुमारजनस्य, पात्रतानुसारेण योग्यतानुसारेण, संविभक. खभुक्तिनगरमामनिश्चिन्तयोः संविभक्तैः-सम्यग्विभज्य समर्पितैः, खभुक्तये-खभोगाय, खनिर्वाहार्थेरिति यावत् , नगरप्रामैः, निश्चिन्तयोः-जीवनचिन्तारहितयोः, पुनः दुष्टदायादसमवष्टन्धराज्यैः दुष्टैः-परधनलुब्धैः, दायादैः-धनभागग्रहीतृभिः, समवष्टब्धं-समाक्रान्तम् , राज्यं येषां तादृशः, निजपदार्थभिः खस्वराज्यप्रत्यावर्तनप्रार्थिभिः, पार्थिवकुमारैः नृपात्मजैः, दिङ्मुखेम्यः दिगन्तेभ्यः, आगत्य आगत्य उपस्थाय उपस्थाय, अनवरतगृह्यमाणसेवयोः सततक्रियमाणसेवयोः पुनः नरेन्द्रसेवया नरेन्द्रस्य-मेघवाहनस्य, सेवया-शुश्रूषया, प्रतिदिनं दिने दिने, अवन्ध्यीकृतोमय. सन्ध्ययोः अवन्ध्यीकृते-सफलीकृते, उभयसन्ध्ये-सायं प्रातश्च याभ्यां तादृशयोः; पुनः दूरीकृतदुष्टसामन्तसख्यो. पचारव्यवहारयोः दूरीकृत-वर्जितम् , दुष्टाना-दुर्जनानाम् , सामन्तानाम्-अधिकृतक्षुद्रनृपाणाम् , सख्यं-मैत्री, उपचारःसेवा, व्यवहारः-दानाऽऽदानादिः, याभ्यां तादृशयोः; पुनः द्वीपान्तरनराधिपः अन्यद्वीपनृपः, सततं निरन्तरम् , उपचर्यमाणयोः सेव्यमानयोः, कीदृशैः ? गुणानुरागिभिः गुणस्नेहिभिः, आगन्तुकैः-आगन्तृभिः, आगतरित्यर्थः, पुनः फलार्थिभिः किञ्चित्किञ्चिदभिमतफलप्रार्थिभिः, आगन्तुकफलार्थिभिरिति पाठे भाविफलाभिलाषिभिः, कर्वस्तुभिः? आच्छादनैः शरीरावरणभूतैः, वासोभिः वः, पुनः विलेपनैः केशरादिसुगन्धिवैः, फलैः खाडुफलोपहारैः, पुनः अन्यैः तद्व्यतिरिक्तैः, निजनिजदेशसम्भवैः स्वखदेशोत्पन्नः, अपूर्ववस्तुभिः विलक्षणवस्तुभिः; पुनः गुणगणैः

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190