Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 34
________________ टिप्पनक-परागविवृतिसंवलिता अनतिदूरवर्तिनीभिः संनिधापितसितकुसुमदामदुर्वाक्षतदधिलयाभिरमलकाश्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः प्रत्यग्रविरचितचतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहेमपट्टाभिमुहुर्मुहुरदेशप्रहितलोचनामिः प्रतिपालयन्तीभिः क्षोणीपालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावतीमद्राक्षीत् [3] ॥ ___ दृष्ट्वा च दूरविकसितस्मितादृष्टिस्तां ससंभ्रमकृताभ्युत्थानां करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि समीपोपविष्टेयुगपदुत्थाय विहितप्रणामैः प्रधानान्तवंशिक सादरमुपदर्शिते स्पर्शवति हेमविष्टरे न्यवेशयत् []। उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः क्रमेणैताभिः सकललौकिकाचारकुशलाभिरिवनिताभिः प्रयुक्तमवतारणकमङ्गलमन्वभवत् [छ] ॥ अथ पुरोहितपुरःसरेषु विहितसायंतनस्वस्त्ययनकर्मस्वपक्रान्तेषु, प्रमोदसलिलप्लुतेक्षणासु दत्त्वाऽक्षतानुदीरिताशीष्षु निर्गतासु बान्धववृद्धासु, प्रस्थितेषु यथास्वमधिकारसदनानि सौविदल्लेषु, प्रारब्धपरिहासपेशल अक्षतस्य-आर्द्रतण्डुलस्य, दनश्च, लवाः-अंशा याभिस्तादृशीभिः; पुनः अमलकाञ्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः अमलेषु-निर्मलेषु, काञ्चनस्थालेषु-सुवर्णमयपात्रेषु, विशेषेण निहिताः स्थापिता , उच्छिखाः-उद्उर्व, शिखा-ज्वाला, येषां तादृशाः, पिष्टमया:-स्निग्धचूर्णमयाः, मङ्गलादीपा याभिस्तादृशीभिः; पुनः प्रत्यग्रविरचितचतुष्कचारुणि प्रत्यप्रं-नूतनं यथा स्यात् तथा, विरचितेन-निर्मितेन, चतुष्केण-चतुःस्तम्भेन मण्डपेन, चारुणि-मनोहरे, मणिवितर्दिकापृष्ठपीठे मणिमयवेदिकापृष्ठभागरूपासने, प्रतिष्ठापितविततहेमपट्टाभिः प्रतिष्ठापितानि-संस्थापितानि, विततानि-विस्तृतानि, हेमपट्टानि-सुवर्णमयोचपीठानि याभिस्तादशीभिः पुनः द्वारदेशप्रहितलोचनाभिः द्वारदेश प्रहिते-प्रेरिते, लोचने याभिस्तादृशीभिः; पुनः क्षोणीपालागमनं क्षोणीपालस्य-राज्ञः, आगमनं प्रतिपालयन्तीभिः प्रतीक्षमाणाभिः; पुनः अतिरुचिरवेषाभिः अतिमनोहरवेषशालिनीभिः [3] ॥ दृष्टा च तां तथाविधामवलोक्य तु, दूरविकसितस्मितादृष्टिः दूरादेव विकसिता-उत्फुल्ला, स्मितेन-मन्दहासेन, आदा-परसा, यद्वा स्मिता-मन्दहासान्विता, सरसा-अश्रुभिरा , दृष्टिर्यस्य तादृशः, ससम्भ्रमकृताभ्युत्थानां सवेगमभ्युत्थिताम् , तां मदिरावतीम् , करे हस्ते, गृहीत्वा, तत्र तस्मिन् , हेमविष्टरे सुवर्णपट्टे, न्यवेशयत् उपवेशितवान् , स राजेति शेषः । कीदृशे ? मणिवेदिकापृष्ठवर्तिनि मणिवेदिकोपरि विद्यमाने, पुनः युगपदुत्थाय सहैवोत्थाय, विहितप्रणामैः कृताभिवादनैः, समीपोपविष्टः समीपस्थितैः, प्रधानान्तर्वशिकैः अन्तः- अभ्यन्तरः, वंश:-गृहम्, तत्र नियुक्तः, मुख्यभूतैरन्तःपुराधिकृतजनैरिति यावत् , सादरं सबहुमानम् , उपदर्शिते दृष्टिगोचरीकारिते, पुनः स्पर्शपति प्रशस्तस्पर्शने, "अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः" इत्यमरः [च] । तस्याः मदिरावत्याः, दक्षिणपार्श्व दक्षिणभागम् , आश्रित्य अधिष्ठाय, उपविष्टः खयमपि कृतोपवेशनः स राजा, सकललौकिकाचारकुशलाभिः अशेषलौकिकव्यवहारनिपुणाभिः, एताभिः अनुपदमुक्ताभिः, वारवनिताभिः वेश्याभिः, प्रयुक्तं कृतपूर्वम् , यद् अवतारणकमङ्गलं वस्त्राञ्चलादिना पूजनरूपमङ्गलं स्वागतमङ्गलगानं वा, तत् अन्वभवत् अनुभूतवान् [छ]। अथ अनन्तरम् , पुरोहितपुरस्सरेषु पुरोहितप्रमुखेषु, षट्कर्मसु अध्ययनाऽध्यापन-यजन-याजन दान-प्रतिग्रहरूपाणि घट् कर्माणि येषां ते षट्कर्माणो विप्रास्तेषु, विहितसायन्तनखस्त्ययनकर्मसु विहितम् -अनुष्ठितम् , सायन्तनंसायंकाल कम् , खस्त्ययन-कल्याणफलककर्मविशेषः, स्वस्तिपदघटितम अपाठ इति यावत् , यैस्तादृशेषु, अत एव अपक्रान्ते निष्कान्तेषु सत्सु, तथा प्रमोदसलिलप्लुतेक्षणासु प्रमोदसलिलैः-आनन्दजलैः, प्लुते व्याने, ईक्षणे नेत्रे यासां तादृशीषु, बान्धववृद्धासु बन्धुभूतवृद्धस्त्रीजनेषु, अक्षतान् शुभाशीर्व्यजकातण्डुलान् , दत्वा उरिक्ष य, उदीरिताशीषु उक्काशीर्वादासु, अत एव निगतासु निष्कान्तासु सतीधु, तथा सौविदल्लेषु अन्तःपुररक्षकजनेषु, यथाखं यथायोग्यम् , अधिकारसदनानि रक्षणाय स्वस्खाधिकृतगृहान् , प्रस्थितेषु कृतप्रस्थानेषु । तथा प्रारब्धपरिहासपेशलकथासु

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190