Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 26
________________ टिप्पनक-परागविवृतिसंवलिता दितावसरैः श्रवणमूलमागत्य मध्याह्नकृत्याय प्रवर्तितो मागधश्लोकैरधिकृतैश्च राजलोकैः प्रववृते शनैः शनैः खनिवासमागन्तुम् [ऐ] । अवहिताधोरणचालितवारणश्चोर्वीकृत्य विधृतेन तत्कालमाक्रान्तचूडामणि दिवसमणिमदृष्टपूर्वमादराद् द्रष्टुमागतेन पौर्णमासीहिमगभस्तिनेव निवारितललाटतपातपः सितातपत्रेण हयखुरोतरध्यारेणुधूसरितनेपथ्यरातपम्लानमौलिदामभिः सर्वतोऽनुगम्यमानो नृपतिभिरुपर्युपरि संदानितानेकबन्दनमालमूर्ध्वविधृतवेत्रयष्टिभिः प्रथममेव सत्वरप्रविष्टैरितस्ततः प्रहितदृष्टिभिरपालैर्निरीक्षिताशेषकक्षान्त. रमन्तरिक्षोल्लेखिभिरनेकशतसंख्यैः सितप्रासादैः सर्वतः समाकुलं राजकुलमाससाद [ओ]॥ द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तियेगुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहमन्तः प्रविश्य द्वितीये द्वारे वारणादवततार [औ]। निवारितपरिवारलोकश्च द्वारपालैः परिमिताप्त पुरोहितैः-राजपुरस्कृतजनैः, परीक्ष्यमाणाः-क्रियमाणपरीक्षणाः, अध्ययनमुखराः-अध्ययनवाघालाः, उन्मुखाः-अध्ययनतत्पराश्य, द्विजाः-ब्राह्मणा येषु तादृशेषु, भूमिपतिः कीदृशः अवलोकिताभिमतनगरीप्रदेशः अवलोकिताः-निरीक्षिता, भभिमताः-द्रष्टुमभीष्टाः, नगर्याः-अयोध्यायाः, प्रदेशाः-स्थानानि येन तादृशः । पुनः समासादितावसरैः प्राप्तप्रवर्तनावसरैः, मागधश्लोक मागधानां-बन्दिनाम्, श्लोकः, अधिकृतैः प्रकृतकार्यनियुक्तैः, राजलोकः राजकीयजनैश्च, श्रवणमूलं कर्णविवरं पक्षे कर्णसमीपम् , आगत्य उपस्थाय, मध्याह्नकृत्याय मध्याह्नोचितम्नानादिकार्याय, प्रवर्तितः प्रेरितः [ऐ] अवहिताधोरणचालितवारणः अवहितेन-सावधानेन, आधोरणेन-हस्तिपकेन, चालितः-चलितुं प्रेरितः, वारणः-हस्ती यस्य तादृशः स राजा, राजकुलं राजमन्दिरम् , आससाद प्राप्तवान् , गतवानिति यावत् , “आधोरणा हस्तिपकाः" इत्यमरः । कीदृशः ? ऊवीकृत्य राज्ञ उपरि लम्बयित्वा, विधृतेन हस्तगृहीतेन, सितातपत्रेण श्वेतच्छत्रेण, निवारितललाटन्तपाऽऽतपः निवारितः-निवर्तितः, ललाटन्तपस्य-सूर्यस्य, आतप-तापो यस्य तादृशः, केनेव ? आकान्तचूडामणिम् आक्रान्तः-व्याप्तः, चूडामणिः-मुकुटो येन तादृशम् , चूडामणेरभिमुखमुद्भासमानमित्यर्थः, अदृष्टपूर्वम् भिक्षकालोदयेन पूर्वमदृष्टम् , दिवसमणि सूर्यम् , आदरात् स्नेहात्, तत्कालं तत्क्षणम् , द्रष्टुम् निरीक्षितुम् , आगतेन भवतीर्णेन, पौर्णमासीहिमगभस्तिनेव पूर्णिमाचन्द्रेणेवेत्युत्प्रेक्षा।पुनः नृपतिभिः खाधिकृतभूपतिभिः, सर्वतः समन्ततः, अनुगम्यमानः अनुत्रियमाणः, कीदृशैः ? हयखुरोद्धृतरथ्यारेणुधूसरितनेपथ्यः हयानाम्-अश्वानाम् , खुरैः-शफैः, उद्धताः-उक्षिप्ताः, ये रथ्यारेणवः-रथमार्गधूलयः, तैः धूसरित-किञ्चित्पीतश्वेतताम्रापादितम् , मलिनीकृतमिति यावत् , नेपथ्य-वेषो येषां तादृशैः, पुनः आतपम्लानमौलिदामभिः आतपेन-सूर्यतापेन, म्लानिमापन्नानि, मौलिदामानि-शियोमाल्यानि येषां तादृशैः । कीदृशं राजकुलम् ? उपर्युपरि अर्बोधभागे, सन्दानितानेकवन्दनमालं सन्दानिताः-निबद्धाः, अनेकाः-बहवः, वन्दनमाला:-तोरणस्रजो यत्र तादृशम् ; पुनः द्वारपालैः द्वाररक्षकैः, निरीक्षिताशेषकक्षान्तरं निरीक्षितानि-अवलोकितानि, अशेषाणि-समप्राणि, कक्षान्तराणि-प्रासादप्रकोष्ठाभ्यन्तराणि यस्य तादृशम् , “कक्षा स्पर्धा पदे काभ्यां रथगेह-प्रकोष्ठयोः” इति धरणिकोशः, कीदृशैस्तैः ? ऊर्ध्वविधृतवेत्रयष्टिभिः उपयुत्थापितवेत्रदण्डैः; पुनः प्रथममेव राज्ञः प्रवेशात् प्रागेव, सत्वरप्रविष्टैः कृतशीघ्रप्रवेशैः; पुनः इतस्ततः अत्र तत्र, प्रहितदृष्टिभिः व्यापारितलोचनैः; पुनः कीदृशम् ! अन्तरिक्षोल्लेखिभिः गगनमण्डलोद्धर्षिभिः, अमेकशतसंख्यैः यहुशतसंख्याकैः, सितप्रासादैः घेतमन्दिरैः, सर्वतः समन्ततः, समाकुलं व्याप्तं वेष्टितमिति यावत् | ओ]।। . च पुनः, तस्य राजकुलस्य, द्वारदेशे द्वारस्थाने, विधृतवाहनस्तिमितं विधृत-निरुद्धम् , स्थिरीकृतमिति यावत् , बाहनं यस्य तादृशम् , अत एव स्तिमितं-स्थिरीभूतम् , पार्थिवसमूह नृपमण्डलम् , तिर्यगुम्नमितमुखसंशया विर्यक्-कुटिलं यथा स्यात् तथा, उन्नमितेन-उत्था पितेन, मुखेन, या संज्ञा-संकेतः, तेन आवासगमनाय, उभयतः उभयभागतः, प्रस्थाप्य प्रस्थानार्थमनुमन्य, अन्तः मध्ये, प्रविश्य प्रवेशं कृत्वा, द्वितीये अपरस्मिन् , द्वारे, वारणात् गजात , अपततार अधस्तादागतः [औ]। च पुनः, द्वारपालैः द्वाररक्षकभृत्यैः, निवारितपरिवारलोकः निवर्तितानु. गामिजनः, परिमिताप्तराजपुत्रपरिवृतः परिमितैः-अल्पसंख्यकैः, आप्ते:-विश्वस्तैः, राजपुत्रैः, परिवृतः-परिवेष्टितः सन् ,

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190