Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 107
________________ तिलकमञ्जरी । २४९ विप्लवप्रपश्चः' इत्युदीर्य तिर्यग्वलितवदनः सिंहलेन्द्रसुतमवादीत्-'सखे! किंनिमित्तं प्रहर्षस्थानेऽप्येवमस्वस्थेन भवता स्थीयते, किमर्थमिदमतर्कितागतेन तमसा समास्कन्दितं वदनमिन्दुमिव चन्द्रिका नायति नालीपेष्वपि कुन्दनिर्मला ते स्मितद्युतिः, किमित्यधिकमधुरा अपि परपुरन्ध्रिदूतीगिर इव श्रवसि न विशन्ति शृङ्गारप्रधानाश्चिरन्तनकवीनामुक्तयः, केन हेतुना नूतनैरपि सुहृजनसूक्तैरजातपुलकोद्गतिरुभयपाणिपर्यङ्कशरणा धार्यते कपोलद्वयी । कञ्चिन्न मयि जल्पति जातमुपतापदायिनः स्ववृत्तान्तस्य कस्यचिदाकस्मिकं स्मरणम् , यथाऽयमार्यार्थसूचितो युवा तथा न त्वमपि कुसुमायुधजयपताकया, कयाप्यवनिपालकन्यया कापि नयन. मार्गणैर्विद्धः। प्रयुक्तप्रार्थनश्च निपुणमनयेव चतुरया वचनभझ्या न कचित् सङ्केतस्थानकथनेन कृतार्थीकृतोऽसि, कृतप्रयत्नश्च तदवाप्तये विधिवशादतर्कितोपनतेन केनचिद् गरीयसा कार्येण तत्समागमसुखानां न दूरीकृतोऽसि [3]|' इत्याहतेन नृपतिसूनुना प्रयुक्तहृदयंगमप्रश्नः शनैरुन्नम्य सत्वरगृहीतोत्तरीयपल्लवप्रमृष्टदृष्टिवदनमनादरविलोकितपार्श्ववर्तिराजलोकः सशोक इव समरकेतुर्विरतवाक्प्रवृत्तिः स्थित्वा मुहूर्तमुपचक्रमे वक्तुम् कमलगुप्त !, अस्थाने अनवसरे, अयं विप्लवप्रपञ्चः क्षोभविस्तारः, किं किमर्थः, इत्युदीर्य इत्युक्त्वा, तिर्यग्वलितवदनः तिर्यक्-कुटिलं यथा स्यात् तथा, वलितं-सन्दितं मुखं यस्य तादृशः सन् , सिंहलेन्द्रसुतं सिंहलद्वीपनृपकुमारम् , समरफेतुमित्यर्थः, अवादीत् उक्तवान् किमित्याह-सखे ! भो मित्र ! प्रहर्षस्थानेऽपि प्रमोदावसरेऽपि, किंनिमित्तं किमर्थम् , भवता त्वया, एवम् अनेन प्रकारेण, अवस्थेन शोकाकुलेन, स्थीयते, किमर्थ कस्य हेतोः, कुन्द निर्मला कुन्दपुष्पवद्धवला, ते तव, स्मितद्युतिः मन्दहासच्छविः, नर्मालापेऽपि परिहासालापेऽपि, अतर्कितागतेन अकस्मादुपस्थितेन, तमसा शोकेन, पक्षे राहुणा, समास्कन्दितं समाकान्तम्, वदनं मुखम् , इन्दु चन्द्रम् , चन्द्रिका इव ज्योत्स्ना इव, न आर्द्रयति आद्रीकरोति, रूक्षतामपनयतीति यावत् , उद्भासयतीत्यर्थः। अधिकमधुरा अपि अत्यन्तश्रोत्रपेया अपि, शृङ्गारप्रधानाः प्राधान्येन शृङ्गाररसाभिव्यक्षिकाः, चिरन्तनकवीनां प्राचीनकविसम्बन्धिन्यः, उक्तयः वाचः, परपुरन्धिदूतीगिर इव पराङ्गनादूतीवचनानीव, श्रवसि कर्णे, किमिति किमर्थम् , न विशन्ति प्रविशन्ति, केन हेतुना कारणेन, नूतनैरपि नवीनैरपि, सुहृजनसूक्तैः मित्रजनसुभाषितैः, अजातपुलकोदतिः अजातरोमाञ्चोदया, पुनः उभयपाणिपर्यशरणा उभयपाणी-उभयकरावेव, पर्यको-तदाख्यशयनाधारविशेषौ, शरणे-आधारो यस्यास्तादृशी, कपोलद्वयी गण्डयुगलम् , धार्यते धारणकर्मतां प्राप्यते। मयि जल्पति भाषमाणे सति, उपतापदायिनः सन्तापकारिणः, कस्यचित् कस्यापि, स्ववृत्तान्तस्य, आकस्मिकम् अतर्कितोपनतकम् , स्मरणं न जातम् उत्पन्नम् , कच्चित् किम् ? यथा येन प्रकारेण, आर्यार्थसूचितः प्रकृतार्याशयेन कृतसूचनः, अयं बुद्धिसन्निकृष्टः, युवा तरुणः पुमान् , कयापि कन्यया नेत्रवाणविद्धो वर्तते, तथा तेन प्रकारेण, त्वमपि कुसुमायुधजयपताकया कामदेवजयपताकारूपया, कयापि कयाचित् , अवनिपालकन्यया नृपकन्यया, क्वापि कुत्रापि स्थाने, नयनमार्गणैः नेत्रबाणैः, विद्धः ब्रणितः, आहत इत्यर्थः, न वर्तसे इति शेषः; च पुनः, अनयेव प्रकृतकन्ययेव, चतुरया चातुरीपूर्णया, वचनभङ्गया वचनकौटिल्येन, वचनविच्छित्त्या वा, निपुणं स्फुटं यथा स्यात् तथा, प्रयुक्तप्रार्थनः प्रयुक्ता-कृता, प्रार्थना यस्य तादृशः सन् , क्वचित् कुत्रापि, संकेतस्थानकथनेन संकेतस्य-प्रतिज्ञातोभयसम्मेलनसमय प्रतीक्षाया यत् स्थानं तस्य, सूचनेन न कृतार्थीकृतोऽसि सफलीकृतोऽसि । च पुनः, तदद्वाप्तये तत्प्राप्तये, कृतप्रयत्नः विहितप्रयासः सन् , विधिवशात् दुर्दैवयोगात् , अतार्कतोपनतेन अकस्मादुपस्थितेन, गरीयसा गुरुत्तरेण, केनचित केनापि, कार्येण, न तत्समागमखानां तत्सम्मेलनानन्दानाम. दूरीकृतोऽसि दूरमवस्थापितोऽसि, ततो वञ्चितोऽसीत्यर्थः [2]। इति इत्थम् , आदृतेन सादरेण, नृपतिसूनुना नृपात्मजेन हरिवाहनेन, प्रयुक्तहृदयङ्गमप्रश्नः प्रयुक्तः-कृतः, हृदयङ्गमः-हार्दिकार्थविषयकः, प्रश्नो यस्य तादृशः, पुनः शनैः मन्दम् , उन्नम्य ऊर्ध्वमूखीभूय, सत्वरगृहीतोत्तरीयपल्लवप्रसृष्टदृष्टिवदनं सत्वरं-शीघ्रम् , गृहीतेन, उत्तरीय ३२ तिलकर

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190