Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 88
________________ २३० टिप्पनर्क परागविवृतिसंवलिता पर्यन्तवर्ती सपक्षो भूभृतां वर्गः । स्वर्गोधानवनलेखाचारेकैव दरे तिलकतालचम्पकैलालवङ्गपुन्नागबहुला दक्षिणार्णवोपकण्ठवनराजिः, अपरस्तु सर्वः सनीडः क्रीडोपकरणग्रामः, सर्वथा कुरु स्थिरमवस्थानाय चेतः, यच्चिन्तयसि तत्कृत्स्नमपि तवाचिरेण संपत्स्यते समीहितमिह' [उ] । इत्युक्त्वान्यतो विवर्तितमुखः पादपीठान्तिकोपविष्टमनवरतसंचारितस्नेहार्द्रलोचनं समरकेतुवदने हरिवाहनमवादीत्-'वत्स! एष समरकेतुर्गुणैः समधिक समं चात्मबन्धुवर्गे प्रधानपुरुषमपश्यता मया तवैव सहचरः परिकल्पितः, अस्य कल्पायुषो दर्पणस्येव सद्वृत्तस्य कलङ्करहितात्मनो मत्पुरस्कृतस्य सर्वकालमभिमुखेन भवितव्यम् , सुविदितदण्डनीतेः सौविदलस्येव निजपरिप्रहः सततमायत्ततां नेयः, भोगसुखसाधनैकहेतोः सुकृतकर्मण इव दानादिक्रियाभिः कर्तव्यमजस्रमुपबृंहणम् , सुश्लिष्टपरिवारस्य तरवारेरिव निशास्वपि स्वसंनिधौ विधेयमवस्थानम् [ऊ] । अन्वहं धायमा टिप्पनकम्-सपक्षः-सपिच्छः, सवर्गश्च, भूभृतां गिरीणां राज्ञां च [] । सद्वृत्तस्य शोभनवर्तुलस्य, अन्यत्र शोभनशीलस्य । कलङ्करहितात्मनः मलत्यक्तस्वरूपस्य, दोषत्यक्तजीवस्य च । सुविदितदण्डनीतेः एकत्र सुष्टुज्ञातक्षेत्रनयनस्य, अन्यत्र सुविज्ञाता दण्डनीति म-राजविद्या येन तस्य । भोगसुखसाधनैकहेतोः विषयसुख यकारणस्य, उभयत्र तुल्यम्, दानादिक्रियाभिः माहारादिदानशीलादिकरणैः, अन्यत्र प्रामादिदानसन्मानादिक्रियाभिः । सुश्लिष्टपरिवारस्य सुसम्बन्धकोशस्य, अन्यत्र सुसंयुक्तपरिच्छदस्य [ऊ] । स्थानाय अत्र निवाससका समस्तः, क्रीडोलवङ्गपुन्नागबहला। सर्वोऽपि समस्तोऽपि, भूभृतां राज्ञाम् , पक्षे पर्चतानाम् , वर्गः समूहः, पर्यन्तवर्ती समीपवर्ती, सपक्षः सुहृत् , पक्षे पक्षेण-पतत्रेण, सहितः । एका अद्वितीया, दक्षिणार्णवोपकण्ठवनराजिरेव दक्षिणसागरसन्निकृष्टक्रीडावनपतिरेव, दूरे वर्तत इति शेषः, कीदृशी? खोद्यानवनलेखाचारुः खर्गस्य-देवपुर्याः, यत् उद्यानम्-क्रीडाकाननम् , तद्रूपाणां-वनानाम् , या लेखा-पतिः, तद्वत् चारु:-रमणीया, पुनः तिलकतालचम्पकैलालवङ्गपुन्नागबहुला तिलकादिपुनागान्तक्षविशेषः, बहुला-प्रचुरा पूर्णेत्यर्थः । अपरस्तु, सर्वः समस्तः, क्रीडोपकरणग्रामः क्रीडासामग्री, सनीः संनिकृष्ट एवास्तीति शेषः । अवस्थानाय अत्र निवासाय, चेतः स्वमनः, स्थिरं दृढसंकल्पं, कुरु, यद् यद् यत् , समीहितम् अभिलषितं वस्तु, चिन्तयसि चिन्ताविषयीकरोषि, तत् तत् तत् , कृत्स्नमपि समस्तमपि, तव समीहितम् , इह अत्र स्थाने, अचिरेण शीघ्रमेव, सम्पत्स्यते सेत्स्यति [उ]। इत्युक्त्वा इति कथयित्वा, अन्यतः अन्यदिशि, विवर्तितमुखः परावर्तितमुखः, हरिवाहनं तदाख्यनिजकुमारम्, अवादीत उक्तवान् , कीदृशम् ? पादपीठान्तिकोपविष्ट पादपीठस्य-पादस्थापनाधारस्य अन्तिके-समीपे, उपविष्टम्-आसितम्, पुनः समरकेतवदने समरकेतुमुखे, अनवरतसञ्चारित अनवरतं-निरन्तरम् , सञ्चारिते-प्रेरिते, स्नेहार्द्र-स्नेहसरसे, लोचने-नयने येन तादृशम् , वत्स! भोः कुमार!, आत्मबन्धुवर्ग खबन्धुवर्ग मध्ये, गुणैः, समधिकम् उत्तमम् , समं तुल्यं च, प्रधानपुरुष प्रधानजनम् , अपश्यता अनुपलभमानेन, मया, एष पुरोवती, समरकेतुः तत्संज्ञकः कुमारः, तवैव सहचरः सखा, परिकल्पितः कृतः, दर्पणस्य इव आदर्शस्य इव, सद्वृत्तस्य सच्चरित्रस्य, पक्षे समीचीनवर्तुलाकारस्य, कलङ्करहितात्मनः निष्कलङ्कात्मनः, पक्षे निर्मलखरूपस्य, मत्पुरस्कृतस्य मया सम्मानितस्य, पक्षे मया पुर:-अग्रे, कृतस्य-धृतस्य, कल्पायुषः कल्पपर्यन्तायुषः, चिरंजीविन इत्यर्थः, कल्पायुषा इति पाठे तु चिरंजीविना त्वयेत्यर्थः, अस्य समरकेतोः, सर्वकालं सर्वदा, अभिमुखेन अभिमुखवर्तिना, भवितव्यं भवितुं योग्यम् , त्वयेति शेषः । सौविदल्लस्येव अन्तःपुररक्षकस्येव, सुविदितदण्डनीतेः सम्यगवगतदण्डविषयकराजनीतेः, सम्यग्ज्ञातवेत्रयष्टिनयनस्य, सुविहितेति पाठे तु सुप्रयुक्तदण्डनीतेः, अस्येति शेषः, आयत्तताम् अधीनताम् , निजपरिग्रहः स्वपरिवारः, नेयः प्रापयितव्यः । सुकृतकर्मण इव पुण्यकर्मण इव, भोगसाधनैकहेतोः सुखसाधनप्रधानकारणस्य, अस्येति शेषः, दानक्रियादिभिः प्रामादिदानसम्मानादिक्रियाभिः, पक्षे आहारादिदानशीलपरिपालनादिक्रियाभिः, अजनं सन्ततम् , उपबृंहणं परिवर्धनम् , परिपोषणमित्यर्थः, कर्तव्यं कर्तुमुचितम् । तरवारेरिव खगस्येव, मुश्लिष्टपरिवारस्य सुसङ्गतपरिजनस्य, पक्षे सुश्लिष्टः-सुभगः सुदृढो बा, परिवारः-खगकोशो यस्य तादृशस्य, अस्येति शेषः, स्वसन्निधौ स्वसमीपे, निशास्वपि रात्रिष्वपि, अवस्थानम् अवस्थितिः, विधेय सम्पादनीयम् [ऊ] । अन्वहं प्रतिदिनम् ,

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190