Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 35
________________ तिलकमारी। कथासु स्थित्वा मुहूर्तमपसृतासु सव्याजं प्रियासहचरीषु, प्रकटिताङ्गरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्यूलरनालङ्कारपटलकासु निर्यातासु शुद्धान्तशय्यापालिकासु, विविक्ततामुपगते द्वारकपाटसंघटनधनविसर्पदगरुघनसारधूपोद्गारसौरभे वासभवने, भूमिपालस्तिर्यगावलितकण्ठकाण्डेन वदनपुण्डरीकेण प्रत्यवयवं विलोक्य स्पृष्ट्वा च करतलेन मन्दमन्दमानन्दनियत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किश्चिदाकुश्चितेक्षणः सकृप इव खिन्नाक्षरोद्गारं शनैर्व्याजहार- देवि! दृढमायासितासि, मयैव गाढकृतनिश्चयेन त्वदर्थसिद्धयर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृतिकर्कशजनोचितैर्ऋतकर्मभिः कदर्थितोऽयं सततसुखोचितस्त्वयात्मा, किमर्थमेषा मदकशय्याशयनलालिता ललिताङ्गि! शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः, किमिति निर्दये ! निसर्गपेलवं मध्यभागमनुदिवसमुपवासः कर्शयन्त्या कृतं प्रकृतिकर्कशस्यास्य प्रारब्धा-वक्तुमुपक्रान्ता, परिहासपेशला-हास्यमनोहरा, कथा-वाक्यप्रबन्धो याभिस्तादृशीषु, प्रियासहचरीषु प्रियासखीषु, मुहूर्त क्षणम् , स्थित्वा विलम्ब्य, सव्याज केनचिच्छद्मना, अपसृतासु निर्गतासु । तथा शुद्धान्तशय्यापालिकासु अन्तःपुरशय्यारक्षिकासु, तद्विन्यासिकाखिति यावत् , निर्यातासु निर्गतासु सतीषु, कीदृशीघु ? समुत्सर्पितविलासदीपवर्तिकासु समुत्सर्पिता-समुत्तेजिता, विलासदीपस्य-सुरतप्रदीपस्य, वर्तिः-दशा, याभिस्तादृशीषु; पुनः प्रकटिताङ्गरागशुक्तिषु प्रकटिताः-मञ्जूषादेरुद्धृताः, अङ्गरागस्य-अङ्गविलेपनद्रव्यस्य, आधारभूताः शुक्यो याभिस्तादृशीषु; पुनः प्रसृष्टमणिदर्पणासु प्रकर्षेण मृष्टाः-विशोधिताः, मणिदर्पणाः-मणिमयदर्पणा याभिस्तादृशीषुः पुनः सन्निधापितकुसुमपटवासताम्बूलरत्नालङ्कारपटलकासु सन्निधापितम्-उपस्थापितम्, कुसुमानां-पुष्पाणाम् , पटवासानां-वसनवासकाना-कुछमादिचूणानाम्, ताम्बूलाना-नागवल्लीदलानाम् , रत्नालङ्काराणां-रत्नमयाभरणानाम्, पटलं-समूहो याभिस्तादृशीषु । तथा द्वारकपाटसंघटनघनविसर्पदगरुघनसारधूपोद्गारसौरमे द्वारकपाटयोः-द्वारवर्तिकपाटयोः, संघटनेन-संयोजनेन, घन-सान्द्रं यथा स्यात् तथा, विसर्पत-अन्तः प्रसरत् , अगुरु-सुगन्धिद्रव्यविशेषः, धनसार:-कर्पूरः, तयोधूपस्योगारेणप्रसारण, सौरभम्-आमोदो यस्मिंस्तादृशे, वासभवने वासगृहे, विविक्ततां निर्जनताम् , उपगते प्राप्ते सति, भूमिपाल: राजा मेघवाहनः, तिथंगावलितकण्ठकाण्डेन तिर्यक्-कुटिलं यथा स्यात् तथा, आवलितः-आनमितः, कष्ठकाण्ड:कण्ठरूपः काण्ड:-नालो यस्य तादृशेन, वदनपण्डरीकेण मखकमलेन, आनन्दनियत्पलककलिकाकोरकित आनन्देन निर्यतीभिः-निःसरन्तीभिः, पुलककलिकाभिः-रोमाञ्चकोरकैः, कोरकितानि-व्याप्तानि, मदिरावतीगात्राणि मदिरावतीशरीराणि, प्रत्यवयवं प्रत्यङ्गम् , विलोक्य दृष्ट्वा, च पुनः, करतलेन हस्ततलेन, मन्दं मन्दं किञ्चित् किश्चित् , स्पृष्ट्वा स्पर्श कृत्वा, किञ्चिदाकुञ्चितेक्षणः किञ्चित्सङ्कोचितनयनः, सकृप इच सदय इव, खिन्नाक्षरोदारं खिमः-- खेदान्वितः, अक्षरोद्गार:-अक्षरोचारणं यस्मिंस्तादृशं यथा स्यात् तथा, शनैः मन्दम्, व्याजहार उक्तवान् , किमित्याहदेवि ! राशि!, त्वं दृढम् अत्यन्तम् , आयासिता क्लेशिता, असि वर्तसे, त्वदर्थसिद्धयर्थं त्वत्पुत्ररूपार्थसितम्, गाढकृतनिश्चयेन कृतदृढनिश्चयेन, मयैव, अध्यवसिते संकल्पिते, देवतासमाराधनविधौ देवतार्चनकार्य, निष्कारणं वृथैव, इयन्ति एतावन्ति, वासराणि दिनानि, प्रकृतिकर्कशजनोचितैः प्रकृत्या-खभावेन, कर्कशाः-कठोरकलेवराः, ये जनाः, तदुचितैः-तद्योग्यैः, व्रतकर्मभिः नियमाचरणैः, सततसुखोचितः अनवरतसुखानुभवयोग्यः, अयमात्मा, किमिति किमर्थ त्वया भवत्या, कर्थितः क्लेशितः । हे ललिताङ्गि! सुन्दरशरीरे !, स्थलारविन्द केसरसरससु. कुमारा स्थलारविन्दस्य-स्थलकमलस्य, ये केसराः-किजल्काः, तद्वत् सरसा-स्निग्धा, सुकुमारा-अतिकोमला, मदतशय्या. शयनलालिता मदीयोत्सङ्गरूपशव्यायां शयनेन -स्वपनेन, लालिता-प्रसादिता,एषा काययष्टिःखशरीरयष्टिः, निरावरणासु आवरणरहितासु, स्थण्डिलस्थलीषु चत्वरभूमिषु, किमर्थं शायिता खापिता, । हे निर्दये ! दयारहिते !, निसर्गपेलवं खभावतः कोमलम् , मध्यभागं शरीरमध्यावयवम् , अनुदिनं प्रतिदिनम् , उपवासैः अनशनैः, कर्शयन्त्या कृशतामा २३ तिलक.

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190