Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 21
________________ અષ્ટક પ્રકરણ १६ ૧-મહાદેવ અષ્ટક वृत्तिः-'यो वीतरागः स महादेव उच्यते' इति क्रिया सर्वत्र योज्या। तत्र 'य' इति अनिर्दिष्टनामा 'वि' इति विशेषेण इतो नष्टो रागः प्रेम यस्य स 'वीतरागः', द्वेषक्षय एव सति रागक्षयो भवतीति वीतद्वेष इत्यपि द्रष्टव्यम् । तथा सर्वं समस्तं द्रव्यप्रदेशपर्यायरूपं वस्तु जानाति विशेषग्रहणतः समस्तावरणक्षयाविभूतकेवलसंवेदनेनावबुध्यत इति 'सर्वज्ञः' । सर्वज्ञत्वांव्यभिचारितत्वात् सर्वदर्शित्वस्येति सर्वदर्शीत्यपि दृश्यम् । ननु रागद्वेषमोहाभावः प्राक् प्रतिपादित एव, तत्प्रतिपादने च वीतरागत्वसर्वज्ञत्वे अवगते एव तत्स्वरूपत्वादेतयोरिति किमिह वीतरागत्वसर्वज्ञत्वोपादानेन ? इति । अत्रोच्यते- यत एव रागादयो न सन्त्यत एव वीतरागः सर्वज्ञश्चायं () इत्येवं हेतुफलभावेन "मलक्षयात्पीतवर्णप्रकर्षवत्कनकम्" इत्यादिन्यायेन गुणातिशयविवक्षणाददोषः, एवंविधन्यायस्य वाक्येषु सद्भिस्तत्र तत्राश्रितस्य दर्शनाच्च इति । अथवा कैचिद्वैराग्य ज्ञानादयः प्राकृता इष्यन्ते, ते च कैवल्यावस्थायां प्रकृतेवियुक्तत्वाद्विनिवर्तन्ते इति तन्मतव्यपोहार्थत्वाददोषः । तथाहि- ज्ञानवैराग्यादयश्चैतन्यस्वभावाश्चैतन्यं चात्मनो रूपं "चैतन्यं पुरुषस्य स्वरूपमिति वचनात्" इति कथं तन्निवृत्तिः । अन्ये पुनराचार्याः यस्य संक्लेशजनन इत्यादिश्लोकद्वयमर्हच्छद्मस्थावस्थामाश्रित्य व्याख्यान्ति । यतः संक्लेशजननानि रागादिविशेषणानि तस्यामेवावस्थायां व्यवच्छेदफलानि भवन्ति । तथाहि-यस्य संक्लेशजनन एव रागो नास्ति शमेधनदवानल एव च द्वेषः सज्ञानच्छादनाशुद्धवृत्तकारक एव च मोहो नास्ति न पुनः सत्तागततत्कर्मदलिकरूपोऽपि, स महादेव इति । यो वीतराग इत्यादि तु भवस्थकेवलिनमाश्रित्येति । ननु महत्त्वं छद्मस्थावस्थायामनुचितं ततो महत्तरावस्थान्तरस्य सद्भावात् । नैवम् । एवं हि सिद्धत्वलक्षणस्य महत्तमावस्थान्तरस्य सद्भावात् केवलिनोऽप्यमहत्त्वप्रसङ्ग इति । अन्यथा वा कथञ्चिदपौनरुक्त्यं भावनीयम् । इह च वीतरागग्रहणेन सरागादीनां महादेवत्वप्रतिषेध उक्तः । तत्र च भावना प्रागुपदर्शिता। सर्वज्ञ इत्यनेन च कपिलस्य महादेवत्वमपाकृतम्, तस्य च तन्मतेनैव सर्वज्ञत्वासम्भवात् । तथाहि "बुद्ध्यध्यवसितमर्थं पुरुषचेतयते" इति तन्मतम् । बुद्धश्च प्रकृतिविकारतया कैवल्यावस्थायां प्रकृतिनिवृत्ती निवृत्तत्वात् पदार्थमात्रचेतनापि तस्य न स्यात् किं पुनः सर्वज्ञत्वम् । न चैष पक्षो ज्यायान्, चेतनात्मकपुरुषाभ्युपगमे हि चेतनाव्याघातकारिप्रकृतिवियोगे पुरुषस्य सर्वज्ञत्वेनैवाभ्युपगन्तुं युक्तत्वादिति ॥ ___ तथा अनेनैव बुद्धस्यापि महादेवत्वं किञ्चिज्ज्ञत्वान्निवारितम् । यदाहुस्तच्छिष्यका:-"सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ॥१॥" इति । किञ्च किञ्चितत्वमपि तस्य न घटते, एकस्याप्यर्थस्य सकलस्वपरपर्यायविशेषितस्यासर्वज्ञत्वेन ज्ञातुमशक्यत्वात् । यत आह-"एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः ॥१॥" अथ सर्वज्ञो न संभवत्येव सत्तासाधकप्रमाणाग्राह्यत्वात्तस्य शशविषाणवत् । यदाह-सर्वज्ञोऽसा

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 354