________________
અષ્ટક પ્રકરણ
१६
૧-મહાદેવ અષ્ટક
वृत्तिः-'यो वीतरागः स महादेव उच्यते' इति क्रिया सर्वत्र योज्या। तत्र 'य' इति अनिर्दिष्टनामा 'वि' इति विशेषेण इतो नष्टो रागः प्रेम यस्य स 'वीतरागः', द्वेषक्षय एव सति रागक्षयो भवतीति वीतद्वेष इत्यपि द्रष्टव्यम् । तथा सर्वं समस्तं द्रव्यप्रदेशपर्यायरूपं वस्तु जानाति विशेषग्रहणतः समस्तावरणक्षयाविभूतकेवलसंवेदनेनावबुध्यत इति 'सर्वज्ञः' । सर्वज्ञत्वांव्यभिचारितत्वात् सर्वदर्शित्वस्येति सर्वदर्शीत्यपि दृश्यम् ।
ननु रागद्वेषमोहाभावः प्राक् प्रतिपादित एव, तत्प्रतिपादने च वीतरागत्वसर्वज्ञत्वे अवगते एव तत्स्वरूपत्वादेतयोरिति किमिह वीतरागत्वसर्वज्ञत्वोपादानेन ? इति । अत्रोच्यते- यत एव रागादयो न सन्त्यत एव वीतरागः सर्वज्ञश्चायं () इत्येवं हेतुफलभावेन "मलक्षयात्पीतवर्णप्रकर्षवत्कनकम्" इत्यादिन्यायेन गुणातिशयविवक्षणाददोषः, एवंविधन्यायस्य वाक्येषु सद्भिस्तत्र तत्राश्रितस्य दर्शनाच्च इति । अथवा कैचिद्वैराग्य ज्ञानादयः प्राकृता इष्यन्ते, ते च कैवल्यावस्थायां प्रकृतेवियुक्तत्वाद्विनिवर्तन्ते इति तन्मतव्यपोहार्थत्वाददोषः । तथाहि- ज्ञानवैराग्यादयश्चैतन्यस्वभावाश्चैतन्यं चात्मनो रूपं "चैतन्यं पुरुषस्य स्वरूपमिति वचनात्" इति कथं तन्निवृत्तिः ।
अन्ये पुनराचार्याः यस्य संक्लेशजनन इत्यादिश्लोकद्वयमर्हच्छद्मस्थावस्थामाश्रित्य व्याख्यान्ति । यतः संक्लेशजननानि रागादिविशेषणानि तस्यामेवावस्थायां व्यवच्छेदफलानि भवन्ति । तथाहि-यस्य संक्लेशजनन एव रागो नास्ति शमेधनदवानल एव च द्वेषः सज्ञानच्छादनाशुद्धवृत्तकारक एव च मोहो नास्ति न पुनः सत्तागततत्कर्मदलिकरूपोऽपि, स महादेव इति । यो वीतराग इत्यादि तु भवस्थकेवलिनमाश्रित्येति । ननु महत्त्वं छद्मस्थावस्थायामनुचितं ततो महत्तरावस्थान्तरस्य सद्भावात् । नैवम् । एवं हि सिद्धत्वलक्षणस्य महत्तमावस्थान्तरस्य सद्भावात् केवलिनोऽप्यमहत्त्वप्रसङ्ग इति । अन्यथा वा कथञ्चिदपौनरुक्त्यं भावनीयम् । इह च वीतरागग्रहणेन सरागादीनां महादेवत्वप्रतिषेध उक्तः । तत्र च भावना प्रागुपदर्शिता।
सर्वज्ञ इत्यनेन च कपिलस्य महादेवत्वमपाकृतम्, तस्य च तन्मतेनैव सर्वज्ञत्वासम्भवात् । तथाहि "बुद्ध्यध्यवसितमर्थं पुरुषचेतयते" इति तन्मतम् । बुद्धश्च प्रकृतिविकारतया कैवल्यावस्थायां प्रकृतिनिवृत्ती निवृत्तत्वात् पदार्थमात्रचेतनापि तस्य न स्यात् किं पुनः सर्वज्ञत्वम् । न चैष पक्षो ज्यायान्, चेतनात्मकपुरुषाभ्युपगमे हि चेतनाव्याघातकारिप्रकृतिवियोगे पुरुषस्य सर्वज्ञत्वेनैवाभ्युपगन्तुं युक्तत्वादिति ॥
___ तथा अनेनैव बुद्धस्यापि महादेवत्वं किञ्चिज्ज्ञत्वान्निवारितम् । यदाहुस्तच्छिष्यका:-"सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ॥१॥" इति । किञ्च किञ्चितत्वमपि तस्य न घटते, एकस्याप्यर्थस्य सकलस्वपरपर्यायविशेषितस्यासर्वज्ञत्वेन ज्ञातुमशक्यत्वात् । यत आह-"एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः ॥१॥"
अथ सर्वज्ञो न संभवत्येव सत्तासाधकप्रमाणाग्राह्यत्वात्तस्य शशविषाणवत् । यदाह-सर्वज्ञोऽसा