________________
अष्टावक्र उवाच।
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती। पश्यंच्छृण्वन्स्पृशजिं घ्रन्नश्नन्नास्ते यथासुखम्।।१६४।। शून्या दृष्टितथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीण संसार सागरे।।१६५।। न जागर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः।।१६६।। सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासनामुक्तो मुक्तः सर्वत्र राजते।।१६७।। पश्यंच्छृण्वनन्स्पृाज घ्रन्नश्नन्गृह्यन्वदन्वव्रजन्। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः।।१६८।। न निन्दति न च स्तौति न हृष्यति न कुप्यति। न ददाति न गृहणाति मुक्तः सर्वत्र नीरसः।।१६९।।