________________
२११
तिलकमञ्जरी। मांसभेदे, मन्द मेदसि, मुखरमस्थिषु, मन्थरं स्नायुग्रन्थिध्वसंख्यमसृजन्मार्गणबातम् [ण] । अतिवेगध्यापृतोऽस्य तत्र क्षणे प्रोत इव तूणीमुखेषु, लिखित इव मौाम् , उत्कीर्ण इव पुत्रेषु, अवतंसित इव श्रवणान्ते तुल्यकालमलक्ष्यत वामेतरः पाणिः [1] । अविरलशरासारत्रासिता हंसीव मेघागमे पल्वलमनवलोकिताश्रयविसंस्थुला सैन्यपतिवक्षःस्थलममुञ्चद् राजलक्ष्मीः; उद्वान्तहृदया च क्षणं बाहुशिरसि, क्षणं धनुषि, क्षणं कृपाणधाराम्भसि, क्षणमातपत्रे, क्षणं पालिध्वजेषु, क्षणं चामरेष्वकुरुत स्थितिम् । [२] । अहं तु तां तस्य विपदमप्रतिविधेयामुपनतामवलोक्य किंकर्तव्यतामूढः स्तम्भित इव मुहूर्तमतिष्ठम् , प्रयत्नवशाच प्रत्यानीतधैर्य इतस्ततश्च धावता हृदयेन तस्य प्राणपरिरक्षणोपायान् मृगयमाणः सततमासन्नवलंपि व्याकुलतया मुहूर्तमपसृतं स्मृतेझगिति तत्पुरा परमेश्वरेण प्रहितमङ्गुलीयकं बालारुणमस्मरम् , उच्छृसितहृदयश्च तदभिनन्द्य बहुप्रकारमादरकृतप्रणामः पाणिना दक्षिणेनोदक्षिपम् , आक्षेपस्खलद्वाणिश्च तत्क्षणमरातिवाणोन्मथितकेतुच्छत्रकार्मुकं
टिप्पनकम्-पालिध्वजा....... थ] !
परिजनैः, परिगत-व्याप्तमिवेति सर्वत्रोत्प्रेक्षा; पुनः मांसभेदे मांसभेदनावसरे, मूकं निःशब्दम् ; पुनः मेदसि वसायाँ मांसजन्यधातुविशेषे इति यावत् , तद्भेदने इत्यर्थः, मन्दम् अतीक्ष्णम् । पुनः अस्थिषु अस्थिभेदने, मुखरं वाचालम् । पुनः रमायुग्रन्थिषु शारीरिकवायुवाहकनाडीविशेषग्रन्थिभेदने, मन्थरं जडम् , शिथिलप्रवृत्तिकमिति यावत् [ण] । तत्र तस्मिन् , क्षणे मुहूर्ते, अस्य नृपकुमारस्य, अतिवेगव्यापृतः वेगातिशयेन कृतव्यापारः, वामेतरः दक्षिणः, पाणिः हस्तः, तुल्यकालं समकालमेव, अलक्ष्यत लक्षितः । कीदृशः? तूणीमुखेषु इषुधिमुखेषु, प्रोत इव गुम्फित इव; पुनः मौयां ज्यायाम् , लिखित इव चित्रित इव; पुनः पुखेषु बागमूलेषु, उत्कीर्ण इव उरिक्षप्त इव; पुनः श्रवणान्ते कर्णान्तभागे, अवतंसित इव अलङ्करणतामापादित इवेति सर्वत्रोत्प्रेक्षा [त] | मेघागमे वर्षागमे, अन. वलोकिताश्रयविसंस्थला अनवलोकितः-अदृष्टः, आश्रयः-स्थानं यया ताशी, अत एव विसंस्थुला-शिथिला, हंसी, पल्वलं क्षुद्र जलाशयमिव, अविरलशरासारत्रासिता अविरलेन-निरन्तरेण, शराणां-बाणानाम् , आसारेण-धारापातेन, त्रासिता सती, राजलक्ष्मीः राजोपास्यलक्ष्मीनामकदेवी, सैन्यपतिवक्षःस्थलं सैन्यपतेः-सेनानायकस्य, वज्रायुधस्य, वक्षःस्थलं-वक्षःप्रदेशम्, अमुञ्चत् त्यक्तवती । च पुनः, उद्वान्तहृदया उद्वान्तम्-उज्झितम्, हृदयं-सेनापतिवक्षो । यया तादृशी सती, अत्र उद्धान्तहृदयेति पाठे उद्घान्तं-निजाश्रयविश्लेषवशेन, सम्भ्रान्तं-हृदयं यस्यास्तादशी सतीत्यर्थः, राजलक्ष्मीरिति शेषः। क्षणं किञ्चित् कालम् , बाहुशिरसि बाहूलभागे, पुनः क्षणं धनुषि धनुर्दण्डोपरि, पुनः क्षण कृपाणधाराम्भसि खड्गधारात्मकजले, पुनः क्षणम् आतपत्र छनोपरि, पुनः क्षणं किञ्चित् कालम् , पालिध्वजेषु कोणस्थितध्वजेषु, पुनः क्षणं चामरेषु राजव्यजनेषु, स्थिति निवासम् , अकुरुत कृतवती [थ] । अहं तु विजयवेगस्तु, तस्य सेनापतेः, अप्रतिविधेयाम् अप्रतिकार्याम् , उपनताम् उपस्थिताम् , तां विपदं विपत्तिम् , अवलोक्य दृष्ट्वा, किंकर्तव्यतामूढः कर्तव्यविवेकरहितः, स्तम्भित इव कृतस्तम्भन इव, मुहूर्त क्षणम् , अतिष्ठं स्थितवान् । च पुनः, प्रयत्नवशात् आयासवशात् , प्रत्यानीतधैर्यः प्रत्यानीतं-पुनरावाहितं धैर्य येन तादृशः सन् , इतस्ततः अत्र तत्र, धावता भ्रमता, हृदयेन मनसा, तस्य सेनापतेः, प्राणपरिरक्षणोपायान् प्राणपरिरक्षणस्य-जीवनरक्षायाः, उपायान् प्रतीकारान् , मृगयमाणः अन्विष्यन् , सततं सदैव, आसन्नवर्त्यपि पार्श्ववर्त्यपि, व्याकुलतया व्यप्रतया, मुहूर्त क्षणम् , स्मृतेः स्मृतिपथात्, अपस्तं भ्रष्टम् , पुरा पूर्वम् , परमेश्वरेण परमेश्वरतुल्य प्रभावेण भवता, प्रहितं प्रेषितं, तत्, बालारुणं तन्नामकम् , अडलीयकम् अङ्गुलिभूषणम् , झटिति शीघ्रम् , अस्सरं स्मृतवान् । च पुनः, उच्छ्रसितहृदयः उदलितहृदयः सन्, तत् अकुलीयकम् , बहुप्रकारं बहवः प्रकारा यसिस्वादशं यथा स्यात् तथा, अभिनन्ध स्तुत्या, आदरकृतप्रणाम: आदरेण न तूपेक्षया कृतः प्रणामो नमस्कारो येन तादृशः, दक्षिणेन वामेतरेण, पाणिना हस्तेन, उदक्षिपम् उत्क्षिप्तवान् । च पुनः, आक्षेपस्खलवाणिः आक्षेपेण-रिपुकृतापमानेन, स्खलन्तीस्खलनमाश्रयन्ती, वाणी-वचनं यस्य तादृशः, तत्क्षणं तत्कालम्, अरातिवाणोन्मथितकेतुच्छत्रकार्मुकम् .