________________
तिलकमञ्जरी । चैतन्यालिङ्गितं नाद्राक्षीत, तदाऽस्य चामरग्राहिणीमप्राक्षीत्- 'बालिके ! कथय कोऽयम् , कस्य वाऽपत्यम् , किमभिधानः, किंनिमित्तमनपेक्षितात्मविनिपात: पतङ्ग इव पावके सहसैवास्मत्सैन्ये प्रविष्टः, किमर्थमसमर्थसहायेनानेन साहसप्रायमिदमतिदुष्करं कर्माध्यवसितम् , कया प्रत्याशया शक्तेनापि शत्रुवधकर्मणि न कृतो दिवस एवाभियोगः, किं फलमभिलष्य निर्व्याजपौरुषेणाप्यङ्गीकृतः क्षुद्रक्षत्रियलोकसूत्रितः साप्तिकयुद्धमार्गः' [य] । सैवमापृष्टा सेनाधिपेन किमपि ध्यात्वा परामृष्टनयनबाष्पसलिला विलोक्याभिमुखमन्तदुःखावेगपिशुनमत्यायतं निःश्वस्य च शनैरवादीत्-'महाभाग! किं कथयामि मन्दभाग्या, कीडशोऽयमिदानी कथ्यते, गता खल्वस्तमस्य कथा, कथ्यमानापि कीदृशी भवत्येतदवस्थस्यास्य पूर्वावस्था, तथापि श्रूयताम्-- एष खल्वशेषद्वीपावनीपालमौलिमालामलनदुर्ललितपादयुगलस्य युगायतभुजप्राकाररक्षितनिजक्षितेरवधीरितविषधरेन्द्रोप्रवदननिःश्वासविषवेगेनागणितकालकूटज्वालाटोपेनानपेक्षितरामविशिखशिखिशिखाडम्बरेणाविज्ञात
अवधानातिशयपूर्वकमपि यथा स्यात् तथा, व्यापारितया प्रेरितया, उश्या चक्षुषा, यदा यस्मिन् काले प्रतिपक्षपक्षे शत्रुपक्षे, कमपि एकमपि, पुरुष, चैतन्यालिहितं चैतन्यवन्तम् , न, अद्राक्षीत् दृष्टवान् , तदा अस्य राजकुमारस्य, चामरग्राहिणी चामरवाहिनी दासीम् , अप्राक्षीत् पृष्टवान् , किमित्याह-बालिके! भो बाले !, कथय ब्रूहि, कोऽयम् अयं राजकुमारः कः ?, वा अथवा, कस्य अपत्यं पुनः?, किमभिधानः किन्नामा?, किंनिमित्तं कस्माद्धेतोः, पावके अग्नौ, पतङ्ग इव, अनपेक्षितात्मविनिपातः अनपेक्षितः उपेक्षितः, आत्मविनिपातः-खविनाशो येन तादृशः, सहसैव अविविच्यैव, अस्सत्सैन्ये अस्मत्सेनामध्ये, प्रविष्टः आपतितः, किमर्थम् किमुद्दिश्य, असमर्थसहायेन असमर्थः-शक्तिशून्यः, सहायो यस्य तादृशेन, अनेन राजकुमारेण, साहसप्रायम् अविवेकप्रयुक्तम् , अतिदुष्करम् अत्यन्तकठिनम् , इदं, कर्म कार्यम् , अध्यवसितं कर्तुं विचारितम् ?, कया प्रत्याशया सम्भावनया, शत्रुवधकर्मणि रिपून्मूलनात्मककार्ये, शक्तेन समर्थनापि, दिवस एव दिनमध्य एव, अभियोगः सङ्घर्षः, न कृतः ?, किं फलं के परिणामम् , अभिलष्य उद्दिश्य, निर्व्याजपौरुषेणापि वास्तविकपराक्रमशालिनापि, अनेनेति शेषः, क्षुद्रक्षत्रियलोकसूत्रितः क्षुदै:-राजनीतिज्ञानशन्यैः, क्षत्रियलोकैः-क्षत्रियजनैः, सूत्रितः-रचितः, सौप्तिकयुद्धमार्गः सुप्तिकालिकस्य-रात्रिकालिकस्य, युद्धस्य, मार्गःरीतिः, अङ्गीकृतः स्वीकृतः ? [य]। एवम् अनेन प्रकारेण, उक्तप्रकारेणेत्यर्थः, सेनाधिपेन सेनापतिना, आपृष्टा समन्ताजिज्ञासां ज्ञापिता, सा चामरग्रहिणी बालिका, किमपि किञ्चित् , ध्यात्वा विचिन्त्य, परामृष्टनयनबाष्पसलिला परामृष्टानि-प्रोग्छितानि, नयनयोः, बाष्यसलिलानि-अश्रुजलानि यया तारशी सती, अभिमुखं सम्मुखम् विलोक्य निरीक्ष्य, च पुनः, अन
। हार्दिकवेदनातिशयसूचकम् , अत्यायतम आंतदीर्घ यथा स्यात् तथा, निःश्वस्य निःश्वासं कृत्वा, शनैः मन्दम् , अवादीत् उक्तवती । किमिलाह-महाभाग ! हे महोदय !, मन्दभाग्या तुच्छभाग्या, अहमिति शेषः, किं कथयामि किमुत्तरयामि, अतिदुःखाकुलतया न किमपि वक्तुमहीमीत्यर्थः । इदानीम् अस्मिन् विपदवसरे, अयं नृपकुमारः, कीदृशः कथम्भूतावस्थः, कथ्यते वर्ण्यते, खलु निश्चयेन, अस्य राजकुमारस्य, कथा वार्ता, अस्तं विनाशम्, गता प्राप्स्यति। एतदवस्थस्य एषा-मरणरूपा, अवस्था यस्य तादृशस्य, अस्य नृपकुमारस्य, कथ्यमानापि वर्ण्यमानापि, पूर्वावस्था पुरातनवृत्तम् , कीडशी कथम्भूता, दुःखावहेत्यर्थः, भवति सम्पद्यते । तथापि तादृश्यपि, श्रूयतां श्रवणगोचरीक्रियताम् । एषः अयम् , खलु निश्चयेन, सिंहलद्वीपभर्तुः सिंहलाख्यो यो द्वीप:-जलमध्यवर्तिस्थलप्रदेशः, तद्भः-तदधिपतेः, महानरेन्द्रस्य महानृपतेः, अतिसमृद्धनृपतेरित्यर्थः, चन्द्रकेतोः तन्नामकस्य, आत्मजः औरसपुत्रः, समरकेतुः तत्संज्ञकः, अस्तीति शेषः, नामेति वाक्यालङ्कारे । कीदृशस्य ? अशेषद्वीपावनीपालमौलिमालामलनदर्ललितपादयगलस्य अशेषाः-समस्ता ये. द्वीपानां-जलमध्यवर्तिस्थलप्रदेशानाम्, अवनीपाला:-नृपाः, तन्मौलिमालाना-तन्मस्तकस्थमालानाम्, तन्मुकुटपक्कीनां वा, मलनेनसम्पर्केण, दुर्ललितं-सङ्घर्षणदुःखेन, ललित-सुन्दरम्, पादयुगलं-चरणद्वयं यस्य तादृशस्य पुनः युगायतभुज. प्राकाररक्षितनिजक्षितेः युगो नाम वृषस्कन्धारोप्यरथावयवविशेषः, तद्वद् आयतो-दीघौं यौ, भुजा-बाहू, तद्रूपेण
२८ तिलक.
प