Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
२८
10
15
महोपाध्यायमेघविजयगणिकृतं
चतुर्थः सर्गः ।
अथ जिनपतिपट्टे श्रीसुधर्मा गणीन्द्रो दिनपतिरिव रेजे राजराजाधिगम्यः । गणधर गणनायां पञ्चमोऽप्याद्य एव विनयनयतपोभिर्योऽतिशेते स्म सर्वैः ॥ १ ॥ तदनु दनुज पूज्यः प्राज्यतेजा हि जेम्बर्गणपतिरुदियायान्निद्रजाम्बूनदश्रीः । प्रभव इति गुरुस्तत्पपद्मांशुमाली गणधरमणिरस्मादेव शय्यं भवाऽऽख्यः ॥ २ ॥ तदनु गणहिमांशुः श्रीयशोभद्रसूरिर्विजितविबुधसूरिस्तस्य पट्टेद्वयीयम् । प्रगुणगुणविभूतिश्चारुसम्भूतिशब्दाद् विजय इति मुनीन्दुर्भद्रबाहुर्द्वितीयः ॥ ३ ॥ श्रुतसुरतरुमूलं स्थूलभद्रोऽनुकूलं समजनि यशसाऽऽशासुन्दरीणां दुकूलम् । तदनु च गिरिंनामाऽऽर्यो महादिः सुहस्ती द्वयमपि गणराजौ पट्टभाजौ तदीयौ ॥ ४ ॥ परमपि युगलं स्यात् सुस्थितः सुप्रबुद्धः श्रमणगणभृदिन्द्राद् दिन्नसू रिस्ततोऽभूत् । गणगुरुरुरुकीर्तिर्दिन्नंनामाऽथ सिंहद् गिरिगणविभुरस्माद् वज्रसूरिः सूरेज्यः ॥ ५ ॥ प्रसृमरमुनिसेनः सूरिराड् वज्रसेनैः शमिपतिरथ चन्द्रश्चारुसामन्तभद्रः । नव इव सुरसूरिर्वृद्धदेवाऽऽख्यसूरिर्गणपतिरतिशायिप्रोदितयोर्तेनाऽऽह्नः ॥ ६ ॥ प्रणतन्नृपतिदेवः सूरिराण्मानंदेवः क्षितिधर इव तुङ्गः स्वैर्गुणैर्मान तुङ्गः । सुरगिरिरिव धीरः श्रीधरो वीरैसूरिः प्रभुरपि जैयदेवश्चारुताकामदेवः ॥ ७ ॥ स्वामिपट्टेऽष्टमी श्री आर्यमहागिरि - श्री आर्य सुहस्तीसूरिरिति द्वौ
बभूवतुः ।
[5] (९) 'सुस्थितः सुप्रबुद्धः ' 'श्री आर्यमहागिरि - श्रीआर्यसुहस्तिसूरिपट्टे नवमौ श्रीसुस्थित- सुप्रतिवद्धसू । (१०) इन्द्राद दिन्नसूरिः ' 'सुस्थित- सुप्रतिबद्धपट्टे दशमः श्री इन्द्र दिनसूरिर्बभूव । (११) 'दिन्ननामा' इन्द्र दिन्न सूरिपट्टे श्रीदिन्नसूरिपट्टे द्वादशः सिंहगिरिर्बभूव । 'गिरिगणविभुः' सिंएकादश: श्रीदिन्नसूरिः बभूव । (१२) 'सिंहाद गिरिगणविभुः ' हाद् गिरिरिति सिंहगिरिरेव गणेषु विभुः प्रभुरिव । (१३) 'वज्रसूरिः' श्रीसिंहगिरिपट्टे त्रयोदशः श्रीवज्रस्वामी बभूव ।
[1] 1 'जिनपतिपट्टे' श्रीवर्द्धमानखामिपट्टे ।
(१) 'श्रीसुधर्मा' श्रीसुधर्मखामी । 2 ' दिनपतिः ' सूर्यः । 3 पञ्चमोऽप्याद्य एव एकादशानामपि गणधरपदस्थापनाऽवसरे श्रीवीरेण श्रीसुधर्मखामिनं पुरस्कृत्य गणोऽनुज्ञातः दुष्प्रसहं यावत् श्रीसुधर्मखाम्यपत्यानामेव प्रवर्त्तनात् ।
|
[2] 4 'दनुजपूज्यः' असूरैः पूज्यः वन्द्यः 'असुरा दितिदनुजाः' इति हैमः [अभि० चिं० कां० २ ० १५२] (२) 'जम्बू : ' श्रीसुधर्मखामिपट्टे द्वितीयः श्रीजम्बूस्वामी । 5 ‘उद्दिजाम्बूनदश्रीः' उक्षिद्रा विकसिता जम्बूनदस्य सुवर्णस्य श्रीः शोभा यस्य सः । (३) 'प्रभवः' श्रीजम्बूस्वामिपट्टे तृतीयः श्रीप्रभवखामी । (४) 'शय्यंभवाऽऽख्यः' श्रीप्रभवखामिपट्टे चतुर्थः श्रीशय्यं भवस्वामिनामा ।
[3] (५) 'श्रीयशोभद्रसूरिः श्रीशय्यंभव खामिपट्टे पञ्चमः श्री यशोभद्रसूरिः । 5 'विजितविबुधसूरिः ' विजितः विबुधानां सुराणां सूरिराचार्यो बृहस्पतिरित्यर्थः । (६) 'सम्भूतिशब्दाद् | विजयः’-‘भद्रबाहुः' इति द्वौ श्रीयशोभद्रसूरिपट्टे षष्टौ श्रीसं भूति विजय - श्रीभद्रबाहु खामिनावभूताम् ।
[4] 6 'श्रुतसुरतरुमूलम्' श्रुतानि चतुर्दशपूर्वाण्येव सुरतरवो देववृक्षास्तेषां मूलम् । (७) 'स्थूलभद्रः' श्रीसम्भूतिविजयश्रीभद्रबाहु खामिनोः पट्टे सप्तमः श्री स्थूलभद्रखामी (८) 'गिरिनामाssय महाऽऽदिः सुहस्ती' श्रीस्थूलिभद्र
Jain Education International
[ चतुर्थः सर्गः
[ 6 ] (१४) 'वज्रसेनः' श्रीवज्रसूरिपट्टे चतुर्दशः श्रीवज्रसेनसूरिः । (१५) 'चन्द्रः' वज्रसेन सूरि पट्टे पञ्चदशः श्रीचन्द्रसूरिर्बभूव । (१६) 'सामन्तभद्रः' 'श्रीचन्द्रसूरि पट्टे षोडशः श्री सामन्तभद्रसूरिर्वभूव । (१७) 'वृद्धदेवाऽऽख्यसूरिः ' 'श्रीसामन्तभद्रसूरि पट्टे सप्तदशः श्रीवृद्धदेवसूरिनामा बभूव (१८) 'प्रोदितद्योतनाऽऽह्नः ' 'श्रीवृद्धदेवसूरिपट्टेऽष्टादशः प्रद्योतनसूरिनामा सञ्जातः ।
[7] (१९) 'मानदेवः' श्रीप्रद्योतनसूरिपट्टे एकोनविंशतितमः श्रीमान देवसूरिः । (२०) 'मानतुङ्गः' श्रीमान देवसूरिपट्टे विंशतितमः श्रीमानतुङ्गसूरिजोतः । (२१) 'वीरसूरिः ' श्री।मानतुङ्गसूरिपट्टे एकविंशतितमः श्रीवीरसूरिर्बभूव । (२२) 'जयदेवः' श्रीवीरसूरिपट्टे द्वाविंशतितमः श्रीजयदेवसूरिर्वभूव ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184