Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 122
________________ पद्य ८-२३] दिग्विजयमहाकाव्यम् प्रभासु जायेsपि महातपोऽभूद् वियोग भाजः प्रकृतेर्विकारात् । विधो विधातत्विषि कापिलीया प्रवृत्तिरासीत् कुमुदां विबोधे ।। १६ ।। महेश्वरस्यापि दिगम्बरत्वं "विधोस्तदाऽधो भवनात् कलायाः । शिवाऽऽश्रितस्याति पशुक्रियाभिः प्रौकाशि कशिस्थजने न वन्द्यम् ॥ १७ ॥ टेष्टबाधान् मतयो यगाधाः प्राधान्यतो मोहमहीश्वरस्य । 'सोमागमादेव महो वितेनुर्भवस्य वश्या जनताः समस्ताः ॥ १८ ॥ निशम्य सूरिश्वरितं सचारैराचारचारुश्चरणप्रचारे । नियोगसेनान्यमुपादिदेश तद्देशतीर्थेश निदेशसिद्ध्यै ॥ १९ ॥ सेनान्यमाश्रित्य समुन्नतश्रीर्वर्षन् परं गी मधुराः सुसीमाः । दागमोल्लासविधासु मेघः सज्जत्वमाधात् समुमुक्षुसङ्घः ॥ २० ॥ मिश्रस्तिमिस्राशनशासनेन जनार्नेधः पातयतो विजेतुम् । श्री वीरचर्याधिक धैर्य भाजः " शिष्यान् विशिष्यानुदिदेश सूरिः ॥ २१ ॥ नियोगराजः श्रमणाधिराजः प्रसादमत्यादरतः प्रपद्य । अहो महोत्साह इव प्रशस्तः समस्तमामंस्त शुभं शुभंयुः ॥ २२ ॥ सेनान्ययं धैर्यधनेषु धुर्यः कचिन्न वैधुर्यधियं दधानः । प्रधानलोकं प्रतिभानिधानं स्वसंनिधानं विनयान्निनाय ॥ २३ ॥ [१६] १ " जाब्येऽपि” कपिलमते बुद्धिर्जडरूपा । | काशिस्थजने न पाण्डित्यव्यञ्जनमेतत् २ " महातपः " धूम्रपानादि । ३ “वियोगभाजः” विशेषेण योगवतः । ४ "विधौ” आचारे निर्मलेऽपि । ५ "विधौ तत्विषि" विधिर्ब्रह्मविधानयोः, "विधिवाक्ये च दैवे च प्रकारे कालकल्पयो : " इति हैमः [ अने० सं० क० २ ० २५२५३ ] । ६ " कापिलीया प्रवृत्तिः " पृथिव्यां हर्षाणां प्रकाशे कपिलस्यैव ऋषेः प्रवृत्तिः; "प्रवृत्तिवृत्तौ वार्त्तायां प्रवाहे प्रार्थिते हते । याचिते शत्रुसंरुद्धे” [ इत्यनेकार्थः ] । ७ “कुमुदां विबोधे" उत्पल विकासे परागैः कपिलत्वमासीत् । । [ १७ ] ८ " महेश्वरस्यापि " शिवस्य धनिनोऽपि वा । ९ " दिगम्बरत्वम्" नद्मत्वम् । १० "विधोस्तदाऽधो भवनात् कलायाः” चन्द्रकलाया अधो नीचैर्भावात्; "नीचे चन्द्रे दरिद्र एव, " पक्षे भवनाद् इहकू कलाया अधोsर्वागेव; यावचन्द्रकला ज्योत्स्नान गृहं प्राप ततः पुरोऽपि धनिनः पशुक्रियाभिर्दिगम्बरस्वं सुरतायेति शेषः “ विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च" इति हैमः [ अने० सं० कां० २ लो० २५३ ]; "कला स्यादंशशिल्पयोः कलने मूलरैवृद्धौ षोडशांशे विधोरपि" इति हैमः [ अने० सं० कां० २ श्लो० ४८८-८९ ] । ११ "शिवाऽऽश्रितस्य " शिवया भवन्याssश्रितस्य; पक्षे शिवं मोक्षमर्थात् तन्मार्गमाश्रितस्य योगिनोऽपि । १२ “अतिपशुक्रियाभिः" पशुपतिस्वात् बहुलं तद्विषयक्रियाभिः । १३ “प्राकाशि" प्रकटीकृतम् । १४ " काशिस्थजने न वन्द्यम्" Jain Education International ८३. काशिस्थजनेऽनवद्यं निष्पापं स हि मैथुने न दोषमाह "न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानाम्” इति स्मृतेर्वाक्यात्; वन्द्यं स्तवनीयं नमस्करणीयं वा ॥ [१८] १५ " दृष्टेष्टबाधात्" दृष्टं प्रत्यक्षमिष्टमनुमानादि तद्वाधात् । १६ " सोमागमाद्” सोमागमः कापालिक मतं चन्द्रोदयो वा । १७ “भवस्य" संसारस्य रुद्रस्य वा स्वधर्मस्य वा; “भवः सत्ताप्तिजन्मसु रुद्रे श्रेयसि संसारे" इति हैमः . [ अने० सं० कां० २ श्लो० ५४५ ] - इति चन्द्रोदयवर्णनेन नानामतवर्णनम् ॥ | [२०] १८ " गाः" वचांसि जलानि वा । १९ “सुसीमा: " शीता समर्यादाः; "सुषीमः शिशिरे रम्ये" इति हैमः [ अने.. सं० कां० ३ श्लो० ५०५ ] । २० "सदागमो ०" भागमाः सिद्धान्ता वृक्षाश्व; “आगमस्वागतौ शाखे" इति हैमः [ अने० सं० क० ३ श्लो० ४९१ ] । २१ “समुमुक्षुसङ्घः " सप्रतीतो यतिमण्डलः पक्षे यतिमण्डलयुक्तः ॥ 5 For Private Personal Use Only 10 S [२१] २२ “मिश्रान्” मिश्रा जातिविशिष्टास्तान्; उभयपक्षाश्रयान् वा । २३ " तमिस्राशनशासनेन” रात्रिभोजनाssज्ञया । २४ " अधः " नरके नीचेर्वा । २५ " श्रीवीरचर्याऽधिकवीर्य भाजः” श्रीमहावीरचरित्रेष्वधिकपाण्डित्यवतः शूरचरित्रेषु शमनशीला वा ॥ [२२] २६ "अहः " दिनम् । २७"शुभंयुः " शुभसंयुक्तः ॥ 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184