Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
७०
15
20
महोपाध्यायमेघ विजयगणिकृतं
प्रतिबिम्ब यथास्थलस्थितैस्तदलङ्कार मणीगणैर्वधूः । अनलङ्कृतमङ्गमात्मनो बुबुधे न स्मरविस्मयाऽऽकुला ॥ २७ ॥ प्रतिवेश्म महोत्सवादहर्निश माहूत सगोत्र भुक्तिषु । सुहितो ह्येवनीवनीपकः पुरि यस्यामेवनीपति स्वतः ॥ २८ ॥ नवहर्म्यशिरस्सु काञ्चनैः कुसुमैर्नीलमणीदलस्थितैः । सुमनोभिरसौ हि वीरुधां हरिभिर्निखगृहे समाबभौ ॥ २९ ॥ सुदती तुदती नृणां मनः कैमनव्यासभृतां जलाशये । मुखमम्बुरुहां वनान्तरे नृपरूपं दधती मुदेऽभवत् ॥ ३० ॥ समवापि नवाऽपि वापिका चतुरैः कैरिह न स्मराऽऽतुरैः । सुदृशां जलमज्जने श्रिता कमलाssभां वदनैरर्तिवाम् ॥ ३१ ॥ [ इति नगरभवन-वन - वापी - सरोवर्णनम् ] अथ तत्र पुरे सुरेशितुर्महनीयः किरणैरैहर्मणिः । उदियाय जयाय तीर्थकृत् प्रभुपार्श्वः प्रतिमाखरूपतः ॥ ३२ ॥ विषयैर्विषयीकृते शुभैर्विषये निर्विषयीकृताशुभे । सुकृताभ्युदयाय भूस्पृशामुदियाय प्रतिमाऽश्वसेनभूः ॥ ३३ ॥ जनता बहुधेष्टपूरणात् स हि शङ्केश्वर एव शाश्वतः । कुरुते गुरुतेजसाऽऽत्मनां बहुशं खेश्वरदेव भाखतः ॥ ३४ ॥ भरतार्द्धपतिः पुरा हरिः पुरि शङ्खेश्वरनाश्यतिष्ठिपत् । ककुभां विजये जिनेश्वरं खरसात् पार्श्वमतीव भाखरम् ॥ ३५ ॥ अभिधानविधिस्ततोऽर्हतः स्मरणीयोऽस्य पुरा पुरानुगः । अथ तीर्थमिहापि पप्रथे प्रतिविम्बेऽतिशयप्रभावतः ॥ ३६ ॥
[ २८ ]१ " सुहितः " तृप्तः, "तृप्ते त्वाघातसुहिताऽऽशिताः " | अवनीप इवाऽऽचरतीत्यवनीपति किप् ॥ इति हैमः [ अभि० चिं० कां० ३ श्लो० ९० ] । २ “अवनीवनीपकः " पृथिव्या मार्गणः "याचकस्तु वनीपकः" इति हैमः [ अभि० चिं० कां० ३ श्लो० ५१ ] । ३ “अवनीपति”
अत्र "स्वस्थादिभिर्भ्रमात् कार्यप्रवृत्तिः परिकल्पते" इति काव्यकल्पलतावृत्तौ” [प्र० ४ स्त० ५ ] उक्तवात् नीलमणिषु भ्रमेण रात्रिं परिकल्प्य स्त्रियः वीतभया दृश्यन्ते ।
[29] 1 "नवहर्म्यशिरस्सु" नवीनप्रासादशिखरेषु । 2 "काञ्चनकुसुमैः " सुवर्णपुष्पैः । 3 "सुमनोभिः " पुष्पैः । 4 “वीरु धाम्" वल्लीनाम् । 5 “हरिभिः” पीतैः; सारस्यमत्र व्यङ्ग्यम् 6 " निखगृहे " सुवर्णपुष्पाभावेऽपि ।
।
[30]7 " तुदती" पीडयती । 8 " कमन त्र्यासभृताम् " मदनप्रपञ्चधृतानाम् ॥
Jain Education International
[ अष्टमः सर्गः
[ पाठान्तरम् ]
[३०] ४ “अम्बुरुहाम्” कमलानाम् । ५ " नृपरूपं दधती" राजवद् - मुखं प्रकाशयन्ती ॥
[31] 9 “स्मराऽऽतुरैः " कामपीडितैः । 10 " अनार्तवाम् " अपीडिताम् ॥
[32] 11 " महनीयः " तेजखी । 12 " अहर्मणिः " सूर्यः । [33] 13 "विषयीकृते" गोचरीकृते, “विषयोऽत्र यो ज्ञातस्तत्र गोचरदेशयोः शब्दादौ जनपदे च" इति हैमः [ अने० सं० कां० श्रो० ]। 14 “ भूस्पृशाम् ” मानवानाम् । 15 “अश्वसेनभूः” पार्श्वनाथः ॥
For Private Personal Use Only
[35] 16 “हरिः ” कृष्णः । 17 " ककुभाम्” दिशाम् ॥ [36] 18 “पुरानुगः” पूर्वानुगतः । 19 " पप्रथे ” वितस्तार ॥
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184