Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १००-१२५ ]
दिग्विजय महाकाव्यम्
5
घनतरतरुशाखाच्छादनात् काननेषु न तरणिकिरणानां कापि संक्लेशलेशः । घन इव वनभूमौ संनिविष्टस्तदीयप्रकटकपटवृत्त्या विश्वविभ्रान्तिखिन्नः ॥ ११६ ॥ प्रमदवन विशोकाशोकवृक्षेष्वधस्तान्मधुरमधुप देन्नोद्भिन्नकन्दर्पसेना । जगति विजयलब्ध्या गीयमानाऽलिवृन्दैर्युवतिजनमनःस्थं मानभारं जहार ॥ ११७ ॥ भवति परसूर्यपश्यता राजदारेष्विति चतुरवचोभिः पूर्वभूचञ्चलाक्षी । गुरुतरतरुराज्या संवृणोतीव सर्वां तनुमनुपदगङ्गासङ्गमादेव साध्वी ॥ ११८ ॥ त्रिकरणदृढशक्त्या मातुरापन्निवार्या तनयविनयवृत्तिः सद्भिरेवं प्रधार्या । व्यपहृत इति भूमेर्भूमिजैः पूर्वगोत्राचरणचणमनोभिः सूर्यजन्योऽभितापः ॥ ११९ ॥ वनमिह बहुरम्भाssरम्भसम्भावनीयं द्विजनिवह परीताशोक लोकार्चनीयम् । भवनमपि च तादृक् पूर्वदेशे निवेशे
भवति विभवसाम्ये प्रायशः संनियोगः ॥ १२० ॥ बहुसुमनसां स्मेरीभावः पुरेषु यथोत्सवे प्रभवति वयोयोग्यस्तालाकरः सुधियां मुदे । भजति सरसामालीं प्राप्याङ्गनारमणाऽऽदरं
पथि विचरता तेनोद्याने तथा ददृशे स्थितिः ॥ १२१ ॥ ललितमसकृत् क्रीडाssरामे कपेर्न वृषाकपेः
कचिदपि न वै तालस्तालः परं धृतगौरवः । शुकपरिचयः पाठे नॄणां नवांशुकसंचयः
प्रमुदिततयाऽऽदेशेशेन व्यलोकि महौजसा ॥ १२२ ॥ सुरतरुचिता वाटीपाटी स्त्रियाः कचपद्धतेः
सुरतरुचिताऽऽदेशे तस्याद्भुतं समजीजनत् । नवकुलरुचिप्रीत्येभ्यानां मिथो जनभोजनं
नवकुलरुचिप्रौढोद्याने पुनर्न महोत्सवम् ॥ १२३ ॥ पुरि भजनः सर्वो गर्वोद्धुरो धृतकशुक
स्तत इव वधूवर्गः पौरः पराकृतकञ्चुकः । उपवनगतौ तेनापायि स्फुरत् कलिका लता
कचिदुपनता देवान्नैवावनेः कलिकालता ॥ १२४ ॥ (दृढतरकुचप्रौढत्वेनावरीतुमशक्यतां
प्रथयितुमिव स्पष्टीकुर्वन्न तद्गुणसंगतिम् ॥ १२४ ॥ ) [ इति वा उत्तरार्द्धपाठः । ]
स वनविषयं स्थाने स्थित्या यया वसुपायिनां सवनविषयं स्थाने गृह्णन् मनो वसुपायिनाम् । प्रसवकलिकालाssस्यं पश्यन् कचिद् भ्रमरोचितं
पथि न कलिकालाऽऽस्यं कञ्चिन्नरं भ्रमरोचितम् ॥ १२५ ॥
Jain Education International
For Private
Personal Use Only
११५
10
115
20
25
30
35
www.jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184