Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 137
________________ महोपाध्यायमेघविजयगणिकृतं [ दशमः सर्गः 5 15 उच्चतां नरपतेनिलयास्ते शूरराजवसुसंपदमभ्रे । संग्रहीतुमिव केतुकरैः स्वैर्भेजिरेऽजिरमणीरमणीयाः ॥ ६६ ॥ पातिसाहिसदनेष्वनुरूपं रूपमद्भुततयाऽप्रतिरूपम् । किं विमृश्य रविजातिगभीरा वीक्षते शफरिकापरिवत्तैः ॥ ६७ ॥ राजराजधृतराजतपट्टवेश्मविस्मयकरद्युतिपुरैः।। तर्जितो हिमगिरिगलतीव पूज्यतामुपगतोऽपि पुरारेः ॥ ६८ ॥ भूपसद्मनिवहः खसुरूपं न न्यरूपयदयं भुवनेऽपि । तद्दिदृक्षुरिव मस कलिन्दकन्यकापयसि बिम्बमधत्त ॥ ६९॥ सार्वभौमरविमुख्यगृहस्य छत्रतां कलयतेऽम्बुजवन्धुः। पूर्णिमा हिमकरद्युतिसाधुमाधुरी भजति चामरवृत्तिम् ॥ ७० ॥ पूर्वयोदयगिरिः परयाऽऽस्तभूभृदुत्तरदिशाहिमशैलः। आदधे मलय एवमपाच्या राजसौधमिति मध्यभुवाऽपि ॥७१॥ आगमेऽभ्युदयभूधरशृङ्गे ज्योतिषामहिमगुप्रभृतीनाम् । मङ्गलं भवति दर्पणरूपे पातिसाहिसदने खविलोकात् ॥ ७२॥ विस्तृतत्रिभुवनक्षितिभर्तुर्यद् यशः सुरतरुगरिमादयः । तस्य मूलमनुकूलतयैतद् भासतां सदनमप्यलघीयः ॥ ७३ ॥ [इति श्रीपातिसाहिगृहवर्णनम् ] श्रेष्टिनां सदनसंततिरस्यां भूपसौधपरिवारतयैव । रामणीयकमधादू बहुधा तु धातुमुख्यमणिजन्ममयूखैः॥ ७४ ॥ अस्ति यत्र विबुधः सकलोऽपि दिव्यरूपवसनाभरणेन । नेह गेहरचनासु विमानशोभया भजति कश्चन चित्रम् ॥७५ ॥ पर्वतैः किमिव पर्वतभेत्तुः सर्वतः सपदि शङ्कितचित्तैः। स्थापितानि शिखराणि विमृश्य निर्भयस्थलमिदं गृहरूपात् ॥ ७३ ॥ तुगतामधिगताः स्वविभूनां जाति-धर्म-धन-भाग्यमहत्त्वैः । उज्ज्वला इव तदध्यवसायै रेजिरेऽत्र निलयाध्यवसायैः ॥ ७७॥ कामकेलिललितेष्वबलानां साहसाद्भुतरसेन निवासाः। स्थैर्यमभ्युपगता इव गुञ्जन्मइँलध्वनिभिरेव विनेदुः ॥ ७८ ॥ दह्यमानबहलागरुधूपादुद्भवदलयसत्कलयेव । छत्रिणः स्फुटचलाचलकेतुचामरैर्वभुरमी नृपतुल्याः ॥ ७९ ॥ चान्द्रसान्द्रजलनिर्झरणेन क्षीरसागरतरङ्गनिषताः। आलयाः कमलया सहयोगस्तेषु युक्ततर एव नरस्य ॥ ८०॥ कामरागवशतः सुमनोभिः कामरा विदधुरालयलीलाम् । पामरा इव तदीक्षणलुब्धा नामरा विदधते दिवि वासम् ॥ ८१ ॥ 20 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184