Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 147
________________ 5 १०८ 10 15 29 25 30 35 Jain Education International महोपाध्याय मेघविजयगणिकृतं दृढतरगुणग्राहेऽन्योऽन्यं जने विषमेषु भूसमरसहिते विद्धे सिद्धे ततस्त्रिजगज्जये । प्रतिगृहमधुपाद् दीपाधिपोत्सव संभवतिलकललितं तारास्ताराक्षनाचरणं दिवि ॥ ३३ ॥ जगति स गुणग्रामा रामा प्रसाधितकुन्तला _सजलजलरुपमालाधाना समाश्रितकौशला । रुचितविषया मध्ये क्षामा लसन्मधुराधरा सहृदयजनद्वन्द्वक्रीडारसै रुरुचे तदा ॥ ३४ ॥ रहसि हसितां सद्यो ब्राह्मीं प्रपद्य तया सह प्रणयनिपुणः स्मारं स्मारं प्रयाणमनारतम् । विविधकरणाभोगाल्लभ्यं सभासुरताश्रमः समयविधिनाऽऽदेशखामी भजन् बुबुधे सुखम् ॥ ३५ ॥ प्रवचनमहामातृस्थानानुजीविनि वल्लभा नवरतसुखैर्दिग्यात्रायै जने विहिताऽऽदरः । कतिपयदिनान्यस्मिन् नीत्वा पुरे स पुरोऽचलद् बलमविरलं पुष्णन् मोहप्रहारविहारधीः ॥ ३६ ॥ [ इति संप्रयोगमात्रवर्णनम् ] परिणतगजः साक्षादुच्चैः सुमेरुरहर्निशमतिबलवतां नैवोल्लङ्घयः समाहितलक्षणः । गणपतिमनोऽभीष्टस्तस्य प्रयाणपुरस्सरः समभवदलं गर्जन् मेघानुगामिरुचिस्ततः ॥ ३७ ॥ भुवि निहितदृग् जीवाघाताद् दिगम्बरमण्डले ध्वनिजनितभी दुर्वादानामयं युवराजधीः । रविवि पुरः पूर्वाचारप्रवृत्तिधरो भ बलभरसहः संख्योऽसंख्योपदेशविधौ पटुः ॥ ३८ ॥ कचन विषमस्थानं मत्वाऽत्यजद् बहुधा वनं कचन समतारागं नॄणां विचार्य बहुस्थितिः । कचन वचनादेशाद् देशाधिपानपि मोदयन् विदितसमयो धैर्यान्मेरुर्जगाम पुरःस्फुरन् ॥ ३९ ॥ करपरिगता सौरीयस्य प्रभा विशदस्थिते रुपनतगणोत्पत्ति भूयः कलाविकलाऽऽशयः । स दिनविषयां शुद्धिं राज्ञो गमागमसंमतां मनसि विमृशन् स्पष्टीचक्रे समाननसाधनम् ॥ ४० ॥ चरणपटुतायोगाद् देशांस्तदेवमनेकशो विषयविजयी न्यस्यंस्तत्रं वशीकुरुते स्म सः । For Private Personal Use Only [ एकादशः सर्गः www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184