Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२८
महोपाध्यायमेघविजयगणिकृतं
[त्रयोदशः सर्ग:
15
सुमतिभगवाँस्तद्वच्छैले समेत्य समेतके
समगमदयं शैवं रूपं शिवाय स नः सना ॥ २६॥ दिशतु विशदां पद्मा प्रद्मप्रभः प्रभुराहती
गिरिशिरसि यः सिद्धावस्थाऽवलम्बितबिम्बभाक् । दधदिव दृढं मूतं मूत्तौं विमुक्तिनितम्बिनी
हृदयनिहितं रागं सद्योऽभ्युदितरविच्छविः ॥ २७ ॥ विपद्वनिजच्छेदः पार्श्वे सुपार्श्वजिनेश्वरः
खतनुमहसां भारैस्तारैर्जितोऽग्रदिनेश्वरः। जगति जयताद् यस्यावश्यं स्तुतीस्त्रिदशेश्वरः
प्रमुदितमना भत्तयाऽऽसक्तः करोति विकस्वरः ॥ २८ ॥ कुवलयमुदे चन्द्रश्चन्द्रप्रभः प्रभयाऽऽभयः
शशधरसुधासारस्फारप्रकाशियशोमयः। मनसि लसितं शुक्लध्यानं पहिः प्रथयन्निव
शिव इव सितः शैवं दैवं प्रकाशयतां मयि ॥ २९ ॥ सुविधिरधिकं श्रेयः पुष्णात्वनुष्णरुचिप्रभः
स भवनमुमाप्रज्ञादीनां विधेः सविधे स्थितेः। निरवधिसुखस्थानं दानं ददद् भुवि वार्षिकं
सपदि भगवान् यो दारिद्य जहार कृपादृशा॥३०॥ मनसि वचसि खाङ्गे शैत्यं परं कथयन्नथ
शिवपथरथः सेव्यो भव्यैः कृतार्थमनोरथः । दशमभगवान् गीतः प्रीतैः सुरैर्जिनशीतलः
सफलयतु मे वारं वारं मनीषितमञ्जसा ॥ ३१॥ उपशमवधूप्रेयान् श्रेयान् जिनोऽधनवर्जितः
शिवनवरमाऽऽश्लेषी मौलौ समेतमहागिरेः। दनुजमनुजैः पूज्यो नाम्ना ह्यनन्तचतुष्टयी
परिणतमयी भावं धेयान्मयीहितपूरणः ॥ ३२ ॥ वसुपरिवृतस्त्रेधा मेधा धातु मनखिनां
जिनपतिरतिप्रीत्या पूज्यः सुरैर्वसुपूज्यभूः । शिव इव जने नित्यं मृत्युं जयन् विजयप्रदः
शिवपरिणतेश्चम्पाऽकम्पापरैरपुनाद यकः ॥ ३३ ॥ विमलभगवान् पुष्यान्मुख्यां सुखश्रियमाश्रयः
प्रशमविनयादीनां दीनागिनां कमलाऽऽकरः। करणविजयी दाता भक्ताऽऽत्मनां नृपसंपदः पदसलिलजन्यासाच्छैलं समेतमिहोन्नयन् ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184