Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 178
________________ 15 दिग्विजयमहाकाव्यम् - परिशिष्टम् । १३९ श्रीविजयसिंहसूरीणां सं० १६४४ वर्षे जन्म, सं० १६५४ व्रतम् , सं० १६७२ वाचकपदम् , सं० १६८१ सूरिपदम् । ते सूरयः परमक्षमापात्रं यावज्जीवं गुर्वाज्ञाराधका विवेकाधनेकगुणोदधयोऽष्टाविंशतिवर्षाणि सूरिपदं प्रपाल्य, सर्वातिचारालोचनपूर्वमनशनेन सं० १७०८ वर्षे अहम्मदावादपार्श्वस्थनवीनपुरे आषाढसितद्वितीयायां श्रीविजयसिंहसूरयः स्वर्जग्मुः । तत्श्रवणाद् भृशं दुःखार्ताः परमगुरवोऽपि संसारानित्यतां विमृश्य क्रमाद् विगतशोका बभूवुः। 5 एषां च श्रीगुरूणां तपस्तेजसा देवकृतसांनिध्येन च निरन्तरायतया भूयांसस्तीर्थयात्रासङ्घाः साडम्बराः श्रीशत्रुञ्जयादितीर्थेषु जीर्णोद्धाराश्च जाताः । देवसांनिध्यं चैषां स्फुटमेव मण्डपाचलप्रस्थाने कमाऽऽख्यपरमारस्य भूतार्तस्य लोकानां मारणात् पित्रा निगडितस्य श्रीगुरुवासक्षेपेण सजीभवनात्, एवं राजनगरवास्तव्यवणिक्पुत्रोऽपि सप्तवर्षाणि प्रागमथिलः सोऽपि, तथा मेडतानगरे सा०धानाऽऽख्यक्षेत्रपालाधिष्ठितश्च वासक्षेपात् प्रादुर्बभूव । एवं चैते भगवन्तः स्वविहारेण गूर्जरात्रा-सुराष्ट्रा-हल्लार-मरु-मेदपाट-लाट-दक्षिणदेशेषु धर्मवीजानि 10 वपन्तः तद्देशसुभिक्षादिभवनेन स्फुटतरयुगप्रधानातिशयाः शुद्धाशयाश्चिरं भरतभुवि प्रवचनं प्रभावयामासुः । समये च निजायुःशेषं वर्षचतुष्टयं ज्ञात्वा सं० १७१० वर्षे स्वपट्टे श्रीवैशाखसितदशम्यां श्रीविजयप्रभसूरीन् स्थापयामासुः । तदुव्यतिकरस्त्वनन्तरमेव वक्ष्यते "सिरिविजयदेवपट्टे पढमं जाओ गुरू विजयसीहो। सग्गगए तम्मि गुरू पट्टे विजयप्पहो सूरी” ॥ १ ॥ इति गाथार्थः । तप्पटुंबुजपहकरसरिसो हरिसेण दरिसणिजमुहो । इगसट्ठियमोऽणुवमो विजयप्पहणाम गच्छगुरू ॥ ३ ॥ व्याख्या-तप्पटुंबुज इति - तस्य श्रीविजयदेवगुरोः पट्टलक्षणेऽम्बुजे प्रकाशकत्वात् प्रभाकरः सूर्यः, तत्सदृशस्तुल्यः । एकोत्तरषष्टितमः श्रीविजयप्रभनामा गच्छगुरुभगवान् सूरिविजयवान् । किंविशिष्टः ? हरिसेण-हर्षेण दर्शनीयमुखः । इत्यनेनास्य नित्यप्रसन्नता ख्यापिता । तया चास्य भगवतो भाग्यविस्फूर्जितस्य 20 नित्योदयत्वं प्रशान्तत्वं च ध्वन्यते । कुपाक्षिकानां प्रत्यर्थिनां मनसाऽप्येतस्य गुरोरहितचिन्तकानां स्वत एव नाशात् ; घनस्याभ्युदये शरभानामिव । यद्वा हरिः कृष्णः सेनायां यस्य स हरिसेनो देवानामिन्द्रः। "सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभी रणश्रीः" इति नैषधीयकाव्यवचनात् । एवं हरिशब्दस्य तुरग-गजाद्यर्थ हरिसेना नृपाः । अहीनामर्थे धरणेन्द्राद्या नागकुमारा ग्राह्याः । तेषामपि दर्शनीय मुखं यस्य स तथा । इत्यत्रार्थे त्रिजगद्वन्द्यत्वं भगवतो दर्शितम् । पुनः किंविशिष्टम् ? अनुपमोऽतुल्यः ।25 एतेनास्य सूरेः सर्वसूरिभ्यो धैौदार्य-गाम्भीर्य-सौभाग्यता-निस्तन्द्रता-पाण्डित्य-क्षमादिगुणानामधिकता ज्ञाप्यते । अस्य च प्रभोः सं० १६७७ वर्षे माघसित-एकादश्यां श्रीकच्छदेशे श्रीमनोहरपुरे वृद्धोपकेशवंश-घोषा. गोत्रभृत् सा० सिवगण-भार्याभानुमतीगृहे जन्म । सं० १६८६ वर्षे दीक्षा । सं० १७०१ वर्षे पंन्यासपदम् । सं० १७१० वर्षे आचार्यपदम् । सं० १७१३ वर्षे भट्टारकपदम् । ते चामी श्रीगुरुपादाः साम्प्रतमपि प्रत्यक्षलक्ष्यलक्षप्रभावा नितरां ज्ञानाभ्यास-पुस्तकशोधन-अनेकभव्यजनविबोधनविविधक्रियामग्नमनसो दुस्तपतपन-39 निजीर्यमाणतमसो गच्छस्य स्मारण-वारणादि विधाभिरधिकश्रियं पुष्णन्तः सत्यसन्धाः कल्पान्तेऽप्यविचलवाचः स्वप्रतिपन्नगच्छगीतार्थसङ्घाभ्युदयदायिनो विजयन्ते । एतेषां महिमाऽतिमहान् , न कायेन वर्णयितुं शक्यः । तथाऽपि किञ्चिदुच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184