Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
द्य ११८-१३९]
दिग्विजयमहाकाव्यम् अयि ! पल्लवितं सुरदुमं जलधिं वोत्तरलं परिस्तुमः। अभिधारयते फणान्वितप्रतिबिम्बस्य जिंनस्य यः स्मृतिम् ॥ १२८॥ भगवद्वदनामृतातेः किरणानामिव चारुमण्डलम् । परितः प्रसरत्फणामिषान्नभसः कार्यपाचिकीर्षति ॥ १२९ ॥ ललितोदयमाप्य वेलया विशदध्यानमहोदधौ दधौ । अमृतद्रव एष पिण्डतां सुदृशां मोदयिता फणातनुः ॥ १३० ॥ नवशारदवादलैः समं कृतसौहार्दमिवोदयियासति । स्फुटकैतवतः स्फुटं प्रभोरभिषेकोचितगाङ्गशम्बरम् ॥ १३१॥ भगवयशसां नु डम्बरं हृदि विद्मः क्षितियोषिदम्बरम् । परिभावयितुं दिगम्बरं समुदीतं विलसत्फणोपधेः ॥ १३२ ॥ वरदुग्धपयोनिधेर्लसल्लहरी कीहगिति भ्रमं नृणाम् । अपनेतुमिवोत्थिताऽङ्गजा फटका पटपटुर्विभोर्विभा ॥ १३३ ॥ भगवद्वचनामृतं द्रुतं फणिराडुन्नमयन् पिपासति । समुपेत्य सभासु भासुरद्युतिरुत्सृष्टविषोऽनुपृष्ठतः ॥ १३४॥ "दिविषन्निवहं वहंस्तुलां भगवत्सेवनयोत्फणीभवन् । प्रभया किमधश्चिकीर्षति मणिरोचिःखचितः फैणीशिता ॥ १३५ ॥ भगवच्छिरसि स्फटावलेः पटुलालित्यमुपेत्य राजते। धवलः खलु तेजसा तनोः स तमस्कायभरो लघूभवन् ॥ १३३ ॥ सुभगं भगवन्तमन्तरं जगतः पूरयितुं प्रभाभरैः। भृशमुद्यतमङ्गसङ्गतैर्भजते को न सुरासुराधिपः॥ १३७ ॥ सुमनोमणिरामणीयकं घुमणेर्वा किरणाङ्गणं वपुः । रुचिरागरुचिः सुरेशितोऽतिशयं नो लभते जिनद्युतेः ॥ १३८ ॥ तिलकाङ्गदमौलिमौक्तिकाऽऽवलिकण्ठाभरणादिभूषणैः। भगवत्तनुतेजसोऽञ्जसा पुनरुक्तिः क्रियतेऽपदूषणैः ॥ १३९ ॥
[१३६] १ "तमस्कायभरः” तमस्काय एव भरः समूहः।। [१३८] २ "सुमनोमणि." चिन्तारनम् ।
[128 ] 1 "सुर द्वमम्" पारिजातम् । 2 "जिनस्य" पार्श्व- [134] 8 “उत्सृष्टविषः” त्यक्तविषः। नाथस्य ।
[135]9 "दिविषन्निवहम्" देवसमूहम् । 10 "अधश्चिकी[129 ] 3 "भगवद्वदनामृतद्युतेः" भगवतो मुखचन्द्रमसः । पति" तिरस्करोति । 11 "मणिरोचिःखचितः" मणिदीप्ति. 4 "अपाचिकीर्षति" अपाकर्तुमिच्छतीति दुरीकरोति ।
| युक्तः । 12 "फणीशिता" भुजङ्गाधिपतिः। [131] 5 "नवशारदवादलैः" नवीनशरदर्तुसम्भवमेघैः । 6 "स्फटकैतवतः" फणाव्याजात् । 7 "शम्बरम्” वारि, [137 ] 13 "अन्तरम्" हृदयम् । "नीरक्षीराम्बु शम्बरम्" इत्यमरः [अमर• कां० १ श्लो०२३८]।। [138] 14 "धुमणिः" सूर्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184