Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 140
________________ पद्य ९८- १३० ] दिग्विजय महाकाव्यम् सुन्दरं यदि पुरन्दरधाम स्यादितस्तदिह शून्यपदे किम् । तत्प्रजा अपि च मन्दरभूभृत् कन्दरेषु कृतमन्दिर रागाः ॥ ११५ ॥ विभ्रमादिव पुरेक्षणजन्यान्निश्चला हि सकलावयवेषु । पुत्रिकाकपटतोऽप्सरसस्तन्निर्निमेषनयना इह तस्थुः ॥ ११६ ॥ राजधानि भुवनेऽपि महत्त्वं तत्त्वतः प्रभवति स्म कुतस्त्यम् । शङ्कयेऽतिविगतं नगरेऽस्मिन् वीक्षणेन नृपवासवधाम्नाम् ॥ १०७ ॥ कौशिकः स खलु कौशिक एव यन्नृपस्य महसा सहसाऽऽसीत् । प्राप्य जीवति कथञ्चन भिक्षुर्दक्षिणां प्रतिदिनं यमराजः ॥ ११८ ॥ तन्निवासनगरस्य मयूखारोपमर्हति कदाऽपि न पूषा । स्पर्द्धते किमु सुराशनयूषा गोपयःप्रभृतिपेय विभूषा ॥ ११९ ॥ [ इति आगरानगरवर्णनम् ] दर्शयन्ति फलदा इह बीजं मार्गणानुपवने पुरबाह्याः । शिक्षिताः पुरजनादिव दानं गौरवाय सुलघोरपि वक्तुम् ॥ १२० ॥ द्महे लघुफलानि गुरुत्वे लाघवेऽपि भवतां गुरुदानम् । उन्नमय्य विनमन्ति तटस्थान् पादपा इति धिया किमु पौरान् ॥ १२१ ॥ वीरुधस्तनुतरा अपि दद्युः काञ्चनाप्यतिमहान्ति फलानि । तगुणेन शिरसाऽपि रसालास्ताः परं निदधते फलभाजः ॥ १२२ ॥ शिक्षिताः क्षितिरुहः पुरलोकाद् दानधर्ममिव बाह्यवनस्थाः । उच्चतां ययुरतः सुमनोभिः शोभिताः परिवृता गुरुपात्रैः ॥ १२३ ॥ दानशौण्डचरिते किल पत्रालम्बनं विदधते वनतालाः । सर्वतोऽप्युपवनं क्षितिजानां तन्महोच्चशिरसो रसपूर्णाः ॥ पक्षिणामिव रुतेन वनालीरक्षिणां सबहुमानमनूद्य । दक्षिणां प्रददते फलपुष्पैः पक्षिणां कृतमुदस्तरवस्ते ॥ १२५ ॥ उच्छ्रिता इव दिवस्तरुवर्गं जेतुमीहितफलार्पणशक्तया । शाखिनोऽर्थिनिवहे स्फुटरागाः पल्लवैरुपवनेषु विरेजुः ।। १२६ ।। ते द्रुमा अपि च विद्रुमभासः पल्लवैर्धृतविपल्लवभावाः । नीरसं पदमिताः सरसत्वान्मोदमादधुरतो मधुयोगे ॥ १२७ ॥ भोजनेषु सुहृदां विपिनान्तस्ते जनेषु मिलितेषु यथेच्छम् । मोदकार्पणकलामुपलभ्य शाखिनोऽपि ववृषुः फलराजिम् ॥ १२८ ॥ [ इति उपवनवर्णनम् ] १२४ ॥ भूरुहामुपवनेषु महत्त्वं पात्रसंगतिरसे बहुशाखाः । वीक्ष्य दानरुचिरुचतयैव स्पर्द्धयेव ववृधे धनभाजाम् ॥ १२९ ॥ यत्र सौधशिखरेषु खरांशोर्वाजिनः स्खलनशङ्कितयोच्चैः । उत्प्लुतिव्यसनिनः प्रशलान्तर्लङ्घयन्ति ससुखं शुचि मासे ॥ १३० ॥ Jain Education International For Private Personal Use Only १०१ 5 10 15 20 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184