Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
दिग्विजयमहाकाव्यम्-परिशिष्टम् ।
१४१ तदा सा० श्रीधनजीनाम्नाऽष्टसहस्रमहमूदिकानां यशोबीजानामिव प्रभावना चक्रे, सर्वसङ्घपरिधापनिका च । ततश्चैकं चतुर्मासकं अहम्मदपुरे विधाय श्रीपरमगुरुभिः सहैव श्रीविजयप्रभसूरि .................. युगादिदेवयात्रायां द्वीपवास्तव्यभणसालीयसा० रायचन्द्रप्रमुखसङ्घन सह....................... नालोच्य सुराष्ट्रासङ्घाग्रहेण श्रीउन्नतपुरमलश्चक्रे ।
क्रमेण देवशयनैकादश्या......... श्रीविजयप्रभसूरिभिः कृतनिर्यामनाविधयः श्रीविजयदेवसूरयः 5 स्वर्जग्मुः । ततः श्रीवीरनिर्वृते श्रीगौतमस्वामीव श्रीपरमगुरौ स्वर्गतेऽत्यन्तदुःखाऽऽवेशात् श्रीविजयप्रभप्रभुरपि कतिचिद् दिनानि विमनस्कतया निन्ये ।
तदनु चतुर्विधसङ्घाग्रहेण संसारस्वभावमनुभाव्य विगतशोकाः सुमुहूर्ते श्रीविजयप्रभसूरिपादाः भट्टारकपदोद्भूतशोभाप्राग्भारभासुराः श्रीगुरुपर्ट विभूषयामासुः । तदिन एव शिवपुरीदेशे यतीनां विहारस्य प्राग् ? वर्षद्वयं यावन्निषेधस्य मुत्कलता जाता, तद्वर्धनिका आगता । तद्वर्षे च श्रीद्वीपवास्तव्यसा० नेमिदासनाम्नाऽष्ट- 10 सहस्रमहमूदिकाव्ययेन श्रीगुरून् सार्धमादाय श्रीशत्रुञ्जयतीर्थयात्रासङ्घो महान चक्रे ।
एवं श्रीगुरुभिः सुराष्ट्रायां चतुर्मासदशकं चक्रे । तत्प्रभावात् सं० १७१५, सं० १७१७, सं० १७२० वर्षसत्कास्त्रयोऽपि दुष्कालाः सुराष्ट्रादेशे न प्रसारमापुः । तच्चिद्रं तु जीर्णदुर्गादिभ्यो गूर्जरात्रायां धान्यागमनं प्रतीतमेव । सं० १७२३ वर्षे घोघाबन्दिरे श्रीजसूनाम्न्या कारिताऽनेक जिनप्रतिमानां श्रीसूरिभिः प्रतिष्ठा चक्रे ।
एषु च गुरुपु विपक्षभावमावहन्तः केचिद् बालिशाः स्वत एव लोकापवादविडम्बिता अधुना दृश्यन्ते । 15 ततः श्रीअहम्मदावादनगरसङ्घाग्रहेण श्रीगुरवो गूर्जरात्रायामाजग्मुः । तत्प्रभावाल्लोकानां सुभिक्षेण महान् हर्षों बभूव । इत्यादि परमर्षीणामेषां महिमा प्रकट एव । तेन निश्चीयते, एतदाज्ञावर्तित्वमेव उभयथाऽपि शिवाय ।
सिरिविजयरयणसूरिपमुहेहिं णेगसाहुवग्गेहिं ।
परिकलिआ पुहविअले सूरिवरा दिन्तु मे भदं ॥ ४ ॥ श्रीगूर्जर-मरु-मालव-मेदपाट-मेवात-कच्छ-हल्लार-सुराष्ट्रा-दक्षिणादिदेशेषु श्रीगुरुतपस्तेजसा साम्प्रतं 20 धर्मकर्माणि निरन्तरं जायन्त इति ।
सोऽयं वीरपरम्पराप्रणयिनीप्राणप्रियः सक्रियः, जीयात् श्रीतपगच्छयः सुरवरैः संसेव्यमानक्रमः । नाम्ना वीर इति क्षमाधरवरप्रोन्नीतनृत्यक्रियः, प्रत्यक्षं विजयप्रभो गणपतिः श्रीवर्द्धमानप्रभः ॥ १॥
श्रीवीरतीर्थान्तिकलब्धराज्यः श्रीवर्द्धमानेन कृतोत्सवश्रीः ।
देवाभियुक्तोऽभिधयाऽपि वीरः श्रीवीरतीर्थे गुरुरेष जीयात् ॥ २ ॥ श्रीविजयप्रभसूरेरुपासकः श्रीकृपादिविजयानाम् । विदुषां शिष्यो मेघः सम्बन्धमिमं लि लेख मुदा ॥३॥
॥ इति श्रीपट्टावलिसूत्रोपरिक्षिप्तगाथात्रयविवरणं सम्पूर्णम् ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 178 179 180 181 182 183 184