Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 175
________________ महोपाध्यायमेघविजयगणिरचितम् मुपवासाऽऽचाम्ल-निर्विकृतिक-स्थानभक्तपानरूपनित्यतपःकरणात् तस्य च प्रभोर्विक्रमात् सं० १६३४ वर्षे ईडरदुर्गे वृद्धोपकेश-ओछतवालगोत्रभृत् सीन्धिरा तद्भार्या रूपा, तयोर्गृहे जन्म । सं० १६४३ वर्षे जनन्या सह दीक्षा । सं० १६५५ वर्षे पण्डितपदम् । सं० १६५६ वर्षे वैशाखशुक्लपष्ट्या उपाध्यायपदपूर्वमाचार्यपदम् । सं० १६७१ वर्षे भट्टारकपदम् । सं० १७१३ वर्षे श्रीऊनानगरे आषाढदेवशयनैकादश्यां प्रातःकालेऽष्टमभक्केन 5 स्वर्गप्राप्तिः । तत्र स्तूपं भणशाली-रायचन्द्रकारितं श्रीहीरगुरोर्मुख्यस्तूपपार्श्व समुद्रतीरेऽस्ति । तस्य भगवतो द्वितीयस्वर्गोत्तरदिशि देवत्वेनावतरणम् । इष्टदेवेन निजाराधकानामुक्तं श्रद्धेयमेव । यतो नाम्ना देवः सर्वत्र नरदेवमान्यः । प्रकृत्याऽपि देवपट्टादर्शादिषु देवाऽऽराधकः देवसांनिध्यवान् । अतस्तदुक्तस्य युक्तत्वात् । अत एव देवशयनैकादश्यां देववेलायां स्वर्गतिरिति । एतच्चरितं खरतरमतीय-श्रीवाचनाचार्य-श्रीवल्लभकृत-विजयदेवमाहात्म्यकाव्यात् तथा मत्कृतमाघसमस्यारूप10 देवानन्दकाव्याद् ज्ञेयम् । समासस्त्वेवम् श्रीमतामेतेषां गुरूणां सूरिपदोत्सवे स्तम्भतीर्थेऽनेकदेश-ग्राम-नगरसङ्घाऽऽह्वानेन सप्तशतीमुनिपरिवृतान् विजयसेनसूरीन् बहुधा विज्ञप्य स्ववेश्मनि द्विधाऽपि विमानश्रियं दधाने सुपर्वशोभाभासुरे प्रचण्डमण्डपाडम्बरेण विचित्रराजवादित्रनिर्घोषैर्नभसि गर्जति सति सर्वसङ्घभोजनपरिधापनादिभिः श्रीमल्लनामश्रेष्ठिना स्वभातृसोमा न्वितेन दशसहस्ररूप्यकव्ययेन महती प्रभावना चक्रे । सुमुहूर्ते श्रीगुरुभिः सूरिपदं प्रदाय श्रीविजयदेवसूरिरिति 15 नाम संदधे । तदा पुनस्तदुत्सवनिमित्तमेवाष्टसहस्ररूप्यकव्ययेन ठक्कर-कीकाऽऽख्येन प्रतिष्ठा कारिता पुनश्चैषां - सं० १६५८ वर्षे परीक्षकसहस्रवीरेण पञ्चसहस्रमहमुदिकाव्ययेन कृतोत्सवपत्तने गणानुज्ञानन्दिमहो महान् जज्ञे । तथा श्रीविजयदेवसूरिभिः प्रतिष्ठाद्वयं राजनगरे, प्रतिष्टाचतुष्टयं पत्तने, प्रतिष्ठात्रयं स्तम्भतीर्थे सातिशयमहोत्सवपूर्व चक्रे । इलादुर्गे च कल्याणमल्लराजप्रबोधनात् तत्सभास्थितान् भट्टान पं० श्रीपद्मसागरगणिनामाऽऽज्ञादानेन 20 जापयित्वा राजाऽऽग्रहात् तत्र चतुर्मासी चक्रे । तदा च तत्रत्यगिरिशिरसि प्रभूपदेशात् श्रीऋषभदेव बिम्ब नवीनचत्योद्धारपूर्वं श्राद्धर्नटीपद्रे महदाडम्बरेण प्रतिष्ठायां श्रीगुरुभ्य एव प्रतिष्ठाप्य स्थापयामास । अत्रान्तरे सं० १६७३ वर्षे कतिचिदुपाध्यायैः संभूय कतिचिल्लोकान् स्वायत्तीकृत्य आग्रहबुद्ध्या स्वकीयमतं प्रादुष्कृतम् । तन्मतवासिते च स्वकीये भार्ये द्वे सा० देवचन्द्रेण स्तम्भतीर्थवास्तव्येन मृत्वा देवीभूतेन तन्मतश्राद्धजेमनवारायां पाषाणवृत्त्या संतय॑ 'अहं भवत्योर्भ" देवचन्द्रः सप्तदशभिर्देवैः श्रीविजयदेवसूरीणां 25 सांनिध्यं कुर्वाणोऽस्मि, तद्भवतीभ्यामप्ययमेव पारम्पर्याऽऽगतः श्रीगुरुः सेव्यः' इत्युक्त्वा श्रीगुरुभक्ते कृते इत्यद्भतदेवसांनिध्यादनेकशो लोकाः कुमतानि परितत्यः । तथा घोघाऽऽख्यवन्दिरवास्तव्य-सा० सोमजीनाम्ना खकुटुम्बं पूर्व धर्माद् भ्रष्टं देवीभूय प्रागुक्तवत् प्रबोध्य श्रीगुरोर्भक्तं चक्रे । तदतिशयश्रवणान्महाराज-श्रीजहांगीरपातिसाहिः श्रीसूरीन सबहुमानमाकार्य श्रीमण्डपाचले श्रीगुरुभिः समं धर्मप्रश्नादिवार्ता विदथे । तदा सुधासमानर्देशनाश्रवणेन तपस्तेजोमयमूर्तिदर्शनेन भृशं तुष्टः 30 श्रीसाहिराजोऽयं गुरुर्महातपा इति बिरुदं दत्तवान् । तदनुलब्धयशोवादाः श्रीसूरिपादाः श्रीसाहिना स्वयमनु ज्ञापितस्वकीयदक्षिणीयमहावाद्यवादनादिभिः श्रीचन्द्रपालादिसमृद्धश्राद्धैः सोत्सवं प्रतिपदं सुवर्णमुद्राणां न्युञ्छनकेषु क्रियमाणेषु भट्ट-चारणादिमार्गणानां मार्गे यादृच्छिकदानेन सहर्षमुपाश्रये पादावधारणं चक्रुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184