Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 110
________________ दिग्विजय महाकाव्यम् भगवान् समुदेत्य॑हर्पतिर्विषयांस्तद्विषयान् प्रकाशयन् । कचिदम्बुधरोपरोधने मधुरा वा विधुराऽऽतपक्रिया ॥ ३७ ॥ नयभावनयाऽनया भवेद् विभवस्तीर्थपमूर्त्तितेजसः । भुवनेष्वपि तारतम्य वाँस्तनु भाजां ननु दैवसङ्गतेः ॥ ३८ ॥ सुरसंनिधिरत्र सन् निधिर्महसामीहितपूरणं नृणाम् । त्रिजगज्जनपूजनं वपुः कमला कोमलतापि तादृशी ॥ ३९ ॥ विदितं तदितोऽदितेदिते स्तन यैस्स द्विनयैर्निषेवितम् । वरतीर्थमनन्तशदं भुवि शङ्केश्वरपार्श्वशर्मणा ॥ ४० ॥ अभिधामभिधारणं श्रियां शिवपु हृदि भावयन्निव । जननप्रणयादशिश्रियन्नगरीं तामुचितां जगद्गुरुः ॥ ४१ ॥ [ इति श्रीभगवत्प्रतिमावर्णनम् ] चलनद्वितयी भृशं बभौ दृढपद्मासननिश्चितप्रभोः । कमलोदयनित्यबोधनं निदिशन्तीव निजोपजीविनाम् ॥ ४२ ॥ गतिहेतुपदद्वयोन्मुखीभवनेऽवादि किमत्र लक्षणैः । भगवद्भजनेन चक्रिताद्युपलब्धिर्नियतोच्चगामिता ॥ ४३ ॥ चरणारुणिमानणुश्रिया नववैराग्यजितः सिसेविषुः । मुमुचें तिलं कदापि नो ननु रागः पराग सच्छिदे ॥ ४४ ॥ पुरतो मरुतां स्मिताननाः प्रभुसौभाग्यदिदृक्षया स्थिराः । अयमंहितलेऽनुबिम्बितः खलु तासामनुरागनिर्भरः ॥ ४५ ॥ अथ एव विधीयते द्विधा भवरागः प्रभुणा तथाप्यहो । उदयश्चरणेऽनुरागतः सुदृशामित्यवदत् तलं किमु ॥ ४३ ॥ भगवच्चरणद्वये ध्रुवं नवनालीकरुचिर्व्यजृम्भत । अत एव परागभागजा परमा रागदशा प्रसारिणी ॥ ४७ ॥ प्रभुणा जयता मैनोभुवं यदुपासङ्गयुगं बलाहृतम् । तदिदं पदसम्पदा बभौ स्फुटपञ्चाङ्गुलिमर्गणाङ्कितम् ॥ ४८ ॥ पद्य २७-४८ ] [४२] १ “लक्षणैः” चक्रादिभिः " । [ ४५ ] २ " भवरागः " भवस्य संसारस्येश्वरस्य वा रागः । [ ४८ ] ३ “उपासङ्गयुगम्” उपासङ्गं शराश्रयः - तूणीर [37]1 "अहर्पतिः” सूर्यः । ३ " तद्विषयान् " तत्पदार्थान् ॥ [38] 1 " नयभावनया" नैगमादि सप्तनयभावनया । [40] "अदितेः” पुनर्वसु नक्षत्राधिष्ठातृदेवस्य । 6 " दितेः" दैत्यमातुः । " " विषयान् ” देशान् । [41]7 "शिवपुर्या: ” आधुनिक सिरोही नगर्थ्याः । 8 "जगद्गुरुः " श्रीविजयप्रभसूरिः ॥ [41] “चलन द्वितयी" क्रमद्वयी । 10 ""बोधनम् " Jain Education International For Private ७१ युगलम् | "तूगो निपङ्गस्तूणीर उपासङ्गः शराश्रयः" इति हैमः [ अभि० चिं० कां० ३ श्लो० ४४५ ] विकासम् । 11 " निजोपजीविनाम्” खसेवकानाम् ॥ [ 42 ] 12 " चक्रिताद्युपलब्धिः" चक्रवर्तित्वादिप्राप्तिः । [43] 18 “अनणुश्रिया " महालक्ष्म्या | 14 " सिसेविषुः " सेवितुमिच्छुः । 15 " खपरागसच्छिदे” खपरपापनाशाय ॥ [44] 16 " मरुताम्” देवानाम् । 17 “स्मिताननाः " हसितवदनाः स्त्रियो देव्य इत्यर्थः । 18 " तासाम्” देवीनाम् । [48] 19 "मनोभुवम्” कामदेवम् । 20“ मार्गणाङ्कितम्” बाणैश्विहितम् ॥ Personal Use Only 5 10 15 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184