Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१०४
महोपाध्यायमेघविजयगणिकृतं
[एकादशः सर्गः
एकादशः सर्गः।
अथ जिनपथं तथ्यैः पथ्यैर्वचोभिरिहोन्नयन् ___ कथमपि नृणां मिथ्यामोहं विमथ्य समर्थधीः। सपदि सुदृशां द्वेधा चक्रे महोदयसाधन
मयमतिशये सौरस्फारप्रभावविभावसोः॥१॥ असमतमसां नाशादाशाम्बरस्थितिरुज्झिता __ ग्रहकरगणैः पद्मिन्योऽपि प्रबोधसुधामधुः। सदसि रसिकश्चक्रे वक्रेतरः समयक्रियां
रुचितमुचितं विश्वस्यान्तःसितच्छदमण्डलम् ॥२॥ भणितमभवद् व्याहारस्य प्रियं त्रिजगत्प्रभोः
सहृदयजनोन्निद्रीभावः सुमागधभाषया । भवपरिणतान्नाट्यप्राकट्यतः स्वत एव सा
जगति जनता वृत्तिं मत्वा विरागदशामगात् ॥ ३ ॥ ललितगतयो मुक्ता स्थाणुं घना भवनाङ्गणे
प्रययुरमलां पातुं तीर्धेश्वरेरितगोसुधाम् । प्रकटितमहाकर्षात् तर्षाद् युता वरसौर भै
स्तपसि महिषीरूपा नार्यः प्रपीनपयोधराः॥४॥ ध्रवमुपनते श्रित्वा मार्ग कलाधरमण्डले
दिशमवसरज्ञानां मुख्ये परं जनवल्लभाम् । अनियततमां मत्वा तत्त्वाद् वसुप्रभुतां जना
इह सुमनसः सर्वे दानोद्यता द्यतिमूहिरे ॥५॥ उदयिनि गवां भारे स्फारे प्रभाकरसूचिते
भुवनवलये मार्गामार्गप्रकाशमुपेयुषि । सुकृतपटुतां सभ्या लभ्यां गुरोः परिचर्यया
समयनिपुणाः कारंकारं गुणाऽऽश्रयतां ययुः ॥ ६ ॥ मनसिजरसं सर्व मत्याऽधमत्य दृढव्रता
मनसिजरसं भव्या विश्वेऽनुभाव्य सदाऽनुगाम् । कमलसदृशां चेतोवृत्तिं विधाय विबोधिनीम्
कमलसदृशां सङ्गं मुक्त्वा न धर्ममशिश्रियन् ॥ ७॥ धरणिवलये सौरज्योतिर्भरैदृढरागता
भृशमुदयिनी जज्ञे प्राज्ञे ततो जिनपूजने । विषममगमच्छोषं दोषाकरस्य विजृम्भितं निबिडजडताहेतुर्मारिप्रचारनिवारणात् ॥ ८॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184