Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
४८
10
15
20.
25
30
महोपाध्यायमेघविजयगणिकृतं
हिमकणल सन्मुक्तायुक्ता इतो वरपद्मिनीः परिघृत नवज्योतिर्वस्त्राऽऽदिदृक्षुतयोद्यताः । हसितवदनाम्भोजाः सौराऽऽगमे सरसीतटे मिलितललिताssलीनां गानैः प्रपश्य नृपोज्वलाः ॥ ६९ ॥ उडुसुमनसः प्रस्तीर्णाया निःशेषनिशः कृते antara निर्माल्यं तद्वयपाक्रियतेऽधुना । पवनपुरुषैर्भूमीभागे तथैव महोत्सवे
विजयिनि कृते पौरैः सौराऽऽगमस्य विसृत्वरे ॥ ५० ॥ नदति मधुरं बाह्याऽऽरामः खरैः प्रविकखरैनृपसवयसां लोकानां द्राग विबोधविलासिनाम् । तदनु तदनु प्रौढिं कर्त्तुं स्मरध्वजमण्डलं
ध्वनति मुखरीकुर्वत् सर्वं दिशामपि मण्डलम् ॥ ७१ ॥ अमरसरिति प्रोत्फुलं यद् ग्रहोत्पलकाननं
वियति तदलं सौरी दीप्तिः शुशोष सरोषणम् । द्विजपतिरुचेर्नाशादेवं क्षितावपि वीक्ष्यतां
Jain Education International
विषयवशतः सर्वान्नीनग्रहोत्पलकाननम् ॥ ७२ ॥ गगनसुभगाssरामे रात्रावुप्रसवावली
विकसिततरा सौरी पूजां तयेव विधित्सुना । विनिवहे नेदानीं द्रागचीयत सर्वतः
भवतु भवस्तत्साहाय्यं विधातुमनातुरः ॥ ७३ ॥ इति नरपतिः सुतस्तत्रार्थिकैः प्रतिबोधितो
व्यधित सहसाऽऽदेशं देशे प्रवेश महामहे । कुरुत सकलां सज्जां सद्योऽनवद्यपताकिनी
भिजिगमिषुः सुरेरेवं कृताभ्युदयक्रियः ॥ ७४ ॥ तृणमिव दिवमेवं भावयन् भावशुद्ध्या उदयनगरदेशाधीश्वरः स्वीयऋद्धया । सुरपतिरिव सूरेः सम्मुखीनश्चचालाचलमपि बलभाराचालयन्नुज्वलश्रीः ॥ ७५ ॥ इति श्री दिग्विजयनानि महाकाव्ये महोपाध्याय श्री मेघ विजयगणिविरचिते कथानायकस्य उत्तराशाविजयवर्णनो नाम पञ्चमः सर्गः ॥ ५ ॥
--
[ 69 ] 1 'मिलितललिताऽऽलीनाम्' मिलिताश्च ते ललिताश्चेति मिलितललितास्तासामाल्यः सख्यस्तासाम् ।
[70] 2 'उडुसुमनसः' नक्षत्र देवाः । 3 'विसृत्वरे' प्रसारिणि । [71] 4 'बाह्याssरामः' बाह्योद्यानम् । 5 'स्मरध्वज मण्डलम्' वादित्रसमूहम् 6 'मुखरीकुर्वत्' वाचालीकुर्वत् ।
[72]7 'अमरसरिति' स्वर्गज्ञायाम् । ग्रह एवोत्पलानि कमलानि तेषां काननं वनम् ।
[ पञ्चमः सर्गः
For Private Personal Use Only
S 'महोत्पलकाननम्' 9 'द्विजपतिरुने : '
चन्द्रकान्त्याः ।
[73] 10 'विबुधनिवहे' पण्डितसमूहे । [7]11 'अनवद्यपताकिनी' निर्दोषसैन्यम् ।
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184