________________
२२४
टिप्पनक-परागविवृतिसंवलिता नृपतिभिः समं समकालमेव नीत्वा वश्यतामिहानीतोऽसि, स तु प्रभावोऽन्यस्य कस्यचित् , अथवा किमनेन दूरस्थोऽपि दृष्टमात्रेण येन प्रनष्टसकलचेष्टस्तदा समिति संजातोऽसि तदेव ते प्रकटमुपदर्शयामि' इत्युदीर्य तत्कालमादिष्टनिकटराजलोकढौकितमनेकमहाप्रभावमाणिक्यखचितमुद्रमङ्गुलीयकरत्नमप्रतो दर्शयन् 'कुतः प्राप्तमेतत्' इति पृष्टश्च देवस्य शक्रावतारगमनात् प्रभृति पूर्ववृत्तं ज्वलनप्रभदेववृत्तान्तमखिलमपि राजलक्ष्मीस्वस्थानगमनपर्यवसानं यथाश्रुतमकथयत् [ज्ञ] । - सोऽपि तच्छ्रुत्वा किंचिदुपशान्तचिन्तासंज्वरः शत्रुभुजयलोत्कर्षसंभावनाकृतामवज्ञाबुद्धिमात्मनि श्लथामकरोत् । अब्रवीच-'दण्डाधिप ! बाढमावर्जितोऽहममुना दूरविनिवारिताहङ्कारप्रवेशपेशलेन त्वदीयसौजन्येन । सदृशनिन्दाप्रशंसो मुनिरपि क ईदृशमात्मगुणापलापबद्धकक्षमरातिपक्षोत्कर्षवर्णनामुखरमखिलराजलोकसमक्षमुल्लपति, यादृक् त्वया सकलदिगन्तविश्रुतपराक्रमेण दक्षिणापथचक्रवर्तिना गदितम् । न केवलमव्याहतप्रसरया बाणसंहत्या महत्तयापि ते तिरस्कृतं भुवनमेतत् । कथमिव न प्रशस्यते स राजा देवराज
अस्ति किम् ? नास्ति कोऽपीत्यर्थः, यः समरकर्मणा संग्रामक्रियया, धृताधिज्यधन्वानं धृताकृष्टधन्वानम् , त्वां विमुखं परावृत्तम् , करोति कुर्यात् । यत् तु यत् पुनः, मुख्यैः प्रधानः, नृपतिभिः राजभिः, समं सह, समकालमेव एककालमेव, इह अत्र, वश्यतां पराधीनताम् , आनीतोऽसि प्रापितोऽसि, स तु अन्यस्य मदतिरिक्तस्य, कस्यचित वस्तुनः, प्रभावः महिमा । अथवा अनेन केवलतत्प्रभावप्रतिपादनेन, किम् अलम् , दूरस्थोऽपि दूरे विद्यमानोऽपि, त्वमिति शेषः, दृष्टमात्रेण केवलमवलोकनेन, येन वस्तुना, तदा तस्मिन् काले, समिति युद्धे, प्रनष्टसकलचेष्टः विलीनाखिलचेष्टाशक्तिकः, मूछित इत्यर्थः, सातोऽसि संवृत्तोऽसि, तदेव वस्तु, ते तुभ्यम् , प्रकटं स्फुटम् , उपदर्शयामि दृष्टिगोचरतामापादयामि । इत्युदीर्य इत्युक्त्वा, तत्कालं तत्क्षणम् , आदिष्टनिकटराजलोकढौकितम् आदिष्टेन-आज्ञप्तेन, निकटराजलोकेन-पार्श्ववर्तिनृपजनेन, ढौकितम्-आनीतम् , अनेकमहाप्रभावमाणिक्यखचितमुद्रम् अनेकानि यानि महाप्रभावाणि-परमप्रभावशालीनि, माणिक्यानि-रत्नविशेषाः, तैः खचिता-व्याप्ता, मुद्रा-आकृतिविशेषो यस्य तादृशम् , अङ्कलीयकरत्नम् अकुल्यलकरणरत्नम्, अग्रतः अग्रे, अदर्शयत् दर्शितवान् । च पुनः, एतत् पुरोवर्ति अङ्गुलीयकरत्नम् , कुतः कस्मात् , प्राप्तं लब्धमिति पृष्टः जिज्ञासा ज्ञापितः, देवस्य भवतः, शक्रावतार. गमनातू प्रभृति तदाख्यतीर्थगमनादारभ्य, राजलक्ष्मीस्वस्थानगमनपर्यवसानं राजलक्ष्म्या यत् खस्थानगमन तत्पर्यन्तम् , पूर्ववृत्तं पूर्वनिष्पन्नम् , अखिलमपि अशेषमपि, ज्वलनप्रभदेववृत्तान्तं ज्वलनप्रभसंज्ञकदेवसमाचारम् , यथाश्रुतं श्रुतमनतिक्रम्य, अकथयत् कथितवान् [श]। सोऽपि नृपकुमारोऽपि, तद् उक्तवृत्तम् , श्रुत्वा, किञ्चिदुपशान्तचिन्तासंज्वरः किञ्चिदुपशान्तः-किश्चिन्निवृत्तः, चिन्तारूपः संज्वरः-सन्तापो यस्य तादृशः, शत्रुभुजबलोत्कर्षसम्भावनाकृतां शत्रूणां-वैरिणाम् , भुजबलस्य-बाहुविक्रमस्य, य उत्कर्षः-प्रकर्षः, तत्सम्भावनाजनिताम् , आत्मनि खविषये, अघझाबुद्धिम् तिरस्कारदृष्टिम् , श्लथां शिथिलाम् , अकरोत् कृतवान् । च पुनः, अब्रवीत् उक्तवान् , किमित्याह-दण्डाधिप ! चतुरङ्गसेनाध्यक्ष ! अहम् , दूरनिवारिताहङ्कारप्रवेशपेशलेन दूरनिवारितेन, अहङ्कारप्रवेशेन-अभिमानोदयेन, यत् पेशलं-मनोहर तादृशेन, अमुना, त्वदीयसौजन्येन त्वत्सुजनतया, बाढम् अत्यन्तम् , आवर्जितः आनमितः । सदृश निन्दाप्रशंसः सदृश्यौ-तुल्ये, निन्दा-प्रशंसे यस्य तादृशः, मुनिरपि कः, ईदृशम् एवंविधम् , आत्मगुणापलापबद्धकक्षम् आत्मगुणानां-खगुणानाम् , अपलापे-अपहवे, बद्धा-कक्षा अन्तरीयपश्चादञ्चलो यस्मिंस्तादृशम् , पुनः अरातिपक्षोत्कर्षवर्णनामुखरम् अरातिपक्षस्य-शत्रुपक्षस्य, य उत्कर्षः-प्रकर्षः, तद्वर्णनया, मुखरं-वाचालं यथा स्यात् तथेति सर्व क्रियाविशेषणम् , अखिलराजलोकसमक्षं सकलनृपजनसमक्षम् , उल्लपति
लपति, न कोऽपीत्यर्थः, यादृक् यथा, सकलदिगन्तविश्रुतपराक्रमेण अखिलदिगन्तप्रसिद्धपराक्रमशालिना, पुनः दक्षिणापथचक्रवर्तिना दक्षिणदेशसम्राजा, त्वया, गदितम् उक्तम् । एतद् इदम् , भुवनं जगत् , केवलम् , अव्याइतप्रसरया अप्रतिहतप्रचारया, ते तव, वाणसंहत्या बाणसमूहेन, न तिस्कृतम् अभिभूतम् , किन्तु तादृश्या महत्त