Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
पारीणामिष नारीणां मायेण विषमा गतिः ॥ १०२ ॥ त्वां विरकमिव त्यक्तराज्यं दूरगतं कचित् । विचित्य लन्धछलया शाकिन्येव तया' रयात् ॥ १०३ ॥ अशाप्यत निजभ्रातुस्त्वद्राज्यग्रहणक्षणः । अबलानां स्वेष्टसिध्ध्ये छलमेवातुलं बलम् ॥१०४॥ युग्मम् । चतुरंगबलोपेतस्ततो द्राक् 'चंद्रशेखरः । त्वद्राज्यग्रहणायांगात्कस्त्यजेद्राज्यमांगतम् ॥१०५॥ मध्यस्यैः सुभटैस्तूर्ण त्वत्पुरं'दत्तगोपुरम् । भोगेनेव निधि भोगी' चम्बासौ पर्यवेष्टयत् ॥१०६।। तवोद्भटाश्च सुभटाः पुरांतः परितः स्थिताः । युध्यमानाः स्फुरदीराभिमानाः संति संप्रति ॥१०७।। प्रत्यर्थिविजयस्तैस्तु' कथं निर्नाथमानिभिः । लौकिकैरप्यभिहितं हतं सैन्यमनायफम् ॥ १०८॥ हंत गंतव्यमावाभ्यामेवं सति कथं पुरे । इति हेतोरई राजमिह तस्थौ सुदुःस्थहद् ॥१०९॥ इति व्यतिफरात्कीरोदितादंतर्भिदः श्रुतात् । जातमार्ग'इव माप संतापःक्ष्मापतेर्मनः ॥ ११०॥ ततः' लिविपतिथिचे चिंतयांचकवानिति । धिगहो दुश्चरित्रायाः स्त्रिया हृदयदुष्टताम् ॥ १११ ॥ तस्यापि साहसमहो अहो निश्शंकचिचता । स्वामिराज्येऽपि तृष्णाहो' अहो दुर्नयनिष्ठता ॥ ११२॥दोषः को वा तस्य शून्यं राज्यं को न जिघृक्षति । अरक्षक क्षेत्रमपि ग्रस्यते शूकरैर्न किम् ॥ ११३ ॥ धिग् धिग्'मामेव राभस्यकारिणं पारवश्यतः । अविवेकः' कार्यविधावुद्रेक सकलापदाम् ॥११४ ॥ अविमृश्यकृतं स्तं विश्वस्तं दत्चमाइतम् । उक्तं मुक्तं च भुक्तं च 'प्रायोऽनुशयकृन्नृणाम् ॥११५|| उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पंडितेन । अतिरभसकृतानां ' कर्मणामोविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। ११६ ।। इत्यं नृपं सानुशयं भ्रष्टराज्याभयं शुकः । सस्मयं माह नृश्रेष्ठांनुशयिष्ठाः म मा मुभा ॥१७॥ मदुक्ते विहिते हंत भवेत्कथमिवांशुभम् । प्रयोगे विझवैधोके व्याधिः किं बापते कचित् ? ॥ ११८॥ मा'शासिष्ठा गतं राज्यं मुधा मे वसुधापते ।। त्वमद्यापि चिरं राज्यं माज्यं भोक्ष्यसि सौख्यभाक् ॥११९॥ तस्य नैमित्तिकम्यैव तेन वाक्येन भपतिः। स्वराज्यप्राप्तये जातमत्याशो यावताभवतु ॥१२०॥ तावद् दावमिवांद्राक्षीदातुरं चातरंगिफम । सैन्यं सबदमागच्छदध्यासीच सभीनृपः ॥१२१॥ येनाहमपि हा निन्ये दैन्यं सैन्यं रिपोरिदम् । ध्रुवं वधायाधाविष्ट विज्ञाया'यातमत्र माम् ॥ १२२ ॥ रक्षामि' कथमेकाकी कांतामेतामयो कयम् । युध्ये चेत्यादि किंकृत्यजतो यावद्भवेन्नृपः ॥ १२३ ॥ तावज्जीव जय स्वामिनादिश स्वकसेवकान् । दिष्ट्याद्य देव दृष्टोऽसि हस्तभ्रष्टो निधिर्यया ॥ १२४ ॥ संभावय स्निग्धाशा सेवकान्' बालकानिव । इत्यादिवादिनी सेना खामेवैक्ष्य विसिमिये ॥ १२५ ॥ हृष्टश्च पृष्टवान् सैन्यान् कथमत्रांगताः स्थ भोः । तेऽप्यूचुः'स्वमिहायातमेव वैक्षिष्महि प्रभो! ॥१२६ ॥ न विग्रस्तु' कथं केनाप्योनायिष्महि रंहसा । देव ! दिव्यानुभावोऽयं कोऽप्यभूत् 'भाग्ययोगतः ॥ १२७॥ एतद् व्यतिकरादुच्चैर्विश्वविस्मयदायिनः । चमचेक्रियमाणः माशक्रस्तर्कमिति व्यधात ॥१२८ ॥ देवस्येवांविसंवादा कापि कीरस्य गीरहो । संमान्यस्तदयं नैकमकारैरुपकारकृत् ॥ १२९ ॥ कथं प्रत्युपकुर्वेऽस्मै स्पृहयालुरयं तु किम् । न चानृणी स्यां मागस्योपकृतोऽपि । बहूपकृत् ।। १३०॥ यदुक्तम्-"प्रत्युपकुर्वन् परवपि न भवति' पूर्वोपकारिणस्तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः ॥१३१॥” इति मीत्या शुकं प्रत्यालोकते यावता नृपः । तावद् बुधमिव प्रातर्नष्टं नैक्षिष्ट तं कचित् ॥ १३२ ॥ अचिंतयञ्च नियतं दतः काप्ययं ययौ । भीत्यैव मत्युपकतेरुपकृत्येव सत्तमः ॥ १३३ ॥ यतः-"इयमुच्चधियामलौकिकी महती कापि कठोरचिसता । उपकत्य भवंति 'दूरतः परतः प्रत्युपकारभीरवः ।। १३४ ॥" ईडगङ्गाननिधिनित्यं यदि स्यात्संनिधिस्थितः । तर्हि किं विपमं मानं पशेषं सुमतिक्रियम् ॥ १३५॥ ई सहाययोगो वान प्रायः पाप्यते कचित् । जातु प्राप्तोऽपि न चिरं । स्थिरः स्याभिःस्ववित्तबत् ।। १३६॥ किं च कोऽयं शुको ज्ञानी कथं मे वत्सलः कुतः । कुत आगादगात् कास्या वृक्षाष्याचंभूत्कयम् ।।१३७ ।। वरूयिनी कथं चैषांत्रायातेत्यादिसंशयः । गुहांतर्धातवद्ध्वंस्यः' केन' तं. दीपकं विना ॥१३८ । क्षोणीभृदग्रणीरेवं व्यग्रः सेवाविधायिनाम् । धुर्यैः पर्यनुयुक्तः सन्नुक्तवान् व्यक्तमेव तत् ॥ १३९ ।। आदितः कीरचरितं त्वरितं तदुदीरितम् । श्रुत्वा सर्वेऽपि तेऽप्युश्चर्विस्मयस्मयमैयरुः ॥ १४० ॥ अचिरे चांचिरेणापि स ते संगस्यते कचित् । हिताकांक्षी हि यो यस्याऽनपेक्षी नैव तस्य सः ॥१४१॥ संशयोऽप्येष निःशेषः सुपेषः शुष्कपर्णवत् । शानिपृच्छाप्रयोगेण ज्ञानिनां किमगोचरः ॥१४२ ॥ एतां चिंता ततस्त्यक्त्वा पवित्रय निजं पुरम् । मोरवत्पौरलोकोऽपि मोदता देवदर्शनात् ।। १४३॥ तेषामुक्तमिदं युक्तममन्यत 'महीपतिः । उक्तं कृतं च नो कस्य संमतं समयोचितम् ॥ १४४ ॥ प्रस्फुर्जत्तूर्यनिर्घोषैदिक्षुसां राविगं क्षणम् । प्रथयमय पृथ्वीशः प्रतस्थे स्वपुरं प्रति ॥ १४५॥ आयांतं तं तथोदीक्ष्य सपक्षमिव तक्षकम् । विलाद् द्रस्थोंदुरवद्'व्यद्रवचंद्रशेखरः ॥ १४६ । प्रत्युत्पत्रमतिः सोऽय तदात्वोत्पनया धिया । भट्ट किंचिभिसृष्टार्थ व्यसृष्ट नृपतिं प्रति ॥ १४७ ।। आगत्याचष्ट भट्टोऽपि हे भट्टारक नः प्रभुः । देवपादान् । प्रसादार्थ विज्ञान् । विज्ञपयत्यदः ॥ १४८ ।। त्वांधूळच्छलितमिव त्यक्त्वा राज्यं कचिद्गतम् । ज्ञात्वा त्वत्पुररक्षार्थमुपतस्येऽस्मि (उपस्थितोऽस्मि) सौस्थ्यकृत् ॥ १४९ ॥
१ क्यनाथ.
श्रीश्राद्धविधिप्रकरणम्

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134