Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
शमार्गासन्नान्यान्यचैत्या पूजने मुख्यचैत्यगमनमपि प्रांत प्रसन्यते,। न चैवं युज्यते, उपाश्रमप्रवेशे आसनसाधूनामापि गुरुवंदनात्पूर्व वंदनप्रसंगात् । प्रणाममात्रंत्वासन्नार्चादीनां पूर्वमपियुक्तं । तृतीयोपांगाविसंवादिन्यां सघाचारोक्तविजयदेववक्तव्यतायामपि द्वारसमवसरणबिंबपूजा पश्चादुक्ता । यथा-" तो गंतु सुहम्मसहं, जिणसकहा दंसणंमि पणमित्ता। उग्घाडित्तु समुग्गे, पमज्जए लोमहत्येणं ।। १ ।। सुरहिजलेणिगवीसं, वारापरकालिआणुलिंपित्ता । गोसीसचंदणेणं, तो कुसुमाईहिं अच्चेइ ॥२॥ तो दारपडिमपू, सहास पंचसुवि करइ पुव्वं व । दारचणाइ सेसं, तइअ उवंगाउ नायव्वं ।। ३॥" तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा च कार्या । उक्तमपि-" उचिअतं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढम, जणस्स दिट्ठी सहमणेणं ॥१॥" शिष्यः-"पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो. होइ को लोगनाहाणं ॥ २॥ एगस्सायरसारा, कीरइ पूआवरेसि थोवयरी । एसावि महावना, लखि जइ निउणबुद्धीहि ॥ ३ ॥" आचार्य:-" नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई॥४॥ ववहारो पुण पढम, पइटिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेण ॥ ५॥ वंदणपूअगबलिढोअणेसु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचितपवित्तस्स पुरिसस्स ।। ६॥ जद मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ। कणगाइ निम्मिआणं, उचिअतमा मज्जणाई वि ।। ७॥ कल्लाणगाइकज्जा, एगस्स विसेसपूअकरणे वि । नावना परिणामो, जह धम्मिजणस्स सेसेसु ॥८॥ उचिअपवित्तिं एवं, जहा कुगंतस्स होइ नावन्ना । तह मूलविआ, विसेसकरणे वि तं नत्थि ॥ ९॥ जिणभवणबिंबपूआ, कीरति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं ॥ १० ॥ चेहरेण केई, पसंतरूवेण केइ विबेण । पूआइसया अन्ने, अमे बुज्झति उवएसा ॥११॥" अत एव चैत्यं गृहचैत्यं च तथा तयोबिबानि विशिष्य च मुख्यबिंब यथा स्वसामर्थ्य देशकालाद्यपेक्षमतिविशिष्ठानि कारयति । गृहचैत्यं हि पित्तलताम्रादिधातुमयं संप्रत्यपि कारयितुं शक्यते । तदशक्तौ दंतादिमयं दंतभ्रमर्यादिरचनापित्तलहिंगुलशोभाप्रवरकोरणीविशिष्ठकाष्ठादिमयं वा कार्यते । तथा चैत्ये गृहचैत्ये च प्रत्यहं सर्वतः प्रमार्जनं यथाविलोक्यमानतैलाभ्यंजनं सुधाधवलनं जिनचरित्रादिविचित्रचित्ररचनं समग्रपूजोपकरणसमारचनं परिधापनिकाचंद्रोदयपदानादि च तथा करोति यथा सश्रीकतातिरेकः स्यात् । गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत्तत्रापि चतुरशीत्याशातनानां वर्जनीयत्वात् , पित्तलशैलादिमय्योऽर्चाश्च स्नपनानंतरमकेनांगरूक्षणेन सर्वतो निर्जलीकृत्य प्रत्यहं द्वितीयेन मृदूज्जवलांगरूक्षणेन मुहुर्मुहुः सर्वतः स्पृशेत् , एवमर्चानामौज्जवल्यं स्यात् । यत्र यत्र स्वल्पोऽपि जलक्लेदस्तिष्ठति तत्र तत्र श्यामिका स्यादिति, स सर्वथा व्यपास्यते, केसरबहुलचंदनविलेपनेनाप्यधिकाधिकमौज्ज्वल्यं तासां स्यात् । न च पंचतीर्थीचतुर्विंशतिपट्टादौ मिथः स्नात्रजलस्पर्शादिना दोष आशंक्यः, यदाहुः-"रायप्पसेणइज्जे, सोहम्मे सूरियाभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥ १॥ भिंगारलोमहत्थयलूहणया धृवदहणमाईअं। पडिमाणं सकहाणय पूआए इक्कयं भणियं ।।२।। निव्वुअजिणिंदसकहा सग्गसमुग्गेमु तिसु वि लोएसु । अन्नोन्नं संलग्गा, ण्डवणजलाईहिं संपुट्ठा।।३।। पुव्वधरकालविहिआ, पडिमाई संति केसु वि पुरेसु। वत्तरका खेत्तरका, महकया गंथदिवाय॥४॥" एकस्याईतः प्रतिमा व्यत्क्याख्या १, एकत्र पट्टादौ चतुर्विंशतिप्रतिमा क्षेत्राख्या २, एवं सप्ततिशतप्रतिमा महाख्या ३, -" मालाधराइआण वि, धुवणजलाई फुसेइ जिणबिंबं । पुत्थय पत्ताईण वि, उवरुवरि फरिसणाईअं ॥५॥ ता नजइ नो दोसो, करणे चउवीसवट्टयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाण ति॥६॥" वृहद्भाष्येऽप्युक्तं—“जिणरिदिदंसणत्यं, एगं कारेइ कोइ भत्तिजुओ । पायडिअपाडिहेरं, देवागमसोहिअं चेव ॥ १॥ दंसणनाणचरित्ताराहणकज्जे जिणात्तिअं कोइ । परमिढिनमोकारं, उज्जमिउं कोइ पंचजिणे ॥ २॥ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाउ, केई कारंति चउव्वीसं ।। ३ ।। उक्कोस(सं)सत्तरिसयं, नरलोए विहरइत्ति भत्तीए । सत्तरिसयंपि कोई, बिंबाणं कारइ धणहो ॥ ४ ॥" तस्मात् त्रितीर्थीपंचतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते । इत्यंगपूजा १ । रौप्यसौवर्णशालिसिद्धार्थाद्यक्षतैरष्टमगलालेखनं । यथा श्रेणिकनृपस्य प्रत्यहमष्टोत्तरशतसौवर्णयवैः । अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं दृष्ट्या पुंजत्रयेण पट्टादौ विशिष्टाक्षतढौकनं, तथा विविधानां कूराद्यशन१शर्करागुडादिपानरपकानफलादिखाद्य३ तांबूलादिस्वाद्यानां ४ ढौकनं । गोशीर्षचंदनरसेन पंचाङ्गलितलैमंडलालेखनादि पुष्पप्रकरारात्रिकादि च सर्वमग्रपूजायामतर्भवति । यद् भाष्यं-" गंधवनट्टवाइअ, लवणजलारत्तिआइ दीवाई । जं किच्चं तं सव्वंपि ओअरइ अग्गपूआए ॥१॥" नैवेद्यप्रजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य विशिष्य च राद्धस्य जगज्जीवनतया सर्वोत्कृष्टरत्नत्वात् , तत एव वनवासागतश्रीरामेण महाजनोऽन्त्रस्य कुशलं पृष्टः । कलहनिवृत्तिप्रीत्याद्यपि मिथोऽन्नभोजनेनैव सुदृढं । देवा अपि नैवेद्येन प्रायः प्रीयंते । श्रूयते ह्यग्निवेतालः शतमृढकनैवेद्यादिना विक्रमादित्यस्य वशीभूतः। भूतप्रेतादयोऽपि झरेयीक्षिपवटकाद्यन्नमेवोत्तारणादौ याचंते । तथा दिक्पालादीनां बलिः तीर्थकृद्देशनानंतरबलिश्चान्नेनैव क्रियते । निःस्वो इली साधृक्त्यासनचैत्ये नित्यं नैवेद्यं ददानोऽन्यदोत्सूरे सिंहरूपभिक्षुत्रयदर्शनपरीक्षातुष्टयक्षगिरा सप्तमेऽति स्वयंवरे कन्यां नृपजयं राज्यं च
श्रीश्राद्धविधिप्रकरणम
45

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134