Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 97
________________ हिषे दुर्विषहाँ पशुगर्भ इवामरी ॥ ४७९ ॥ आर्ये ! तिर्यक्त्वभावस्ते 'भवेत्रापि इहांभवत् । धिर धिर विधेर्नेटस्येव सत्पात्रेऽपि विडंबना ॥ ४८० ॥ प्राग्भवे कौतुकात्कस्याप्यकारि विरहस्त्वया । ध्रुवं 'मयोपेक्षितश्च'फलं' तस्य किमयदः ॥ ४८१ ॥ हा हन्त ! हततिर्यक्त्वं तव दुर्दैवसंभवम् । दूरीभावि कथक्कार दौर्भाग्यमिव' जङ्गमम् ।। ४८२ ॥ तस्यामेवं विलापिन्यां सुसखेव सखेदहत । चन्द्रचूडोऽम्बुना सिक्त्वा तां स्वशक्त्या कनी व्यधात् ।। ४८३ ॥ वाग्देवीव नवोत्पन्ना पद्मेवाब्धेर्विनिर्गता। कुमारादेर्मुदद्वैतहेतुः सा दिद्युते तदा ॥ ४८४ ॥ संरम्भात्परिरेभाते ' भगिन्यौ ते उभे ततः । पुलकच्छलमुत्पूराङ्करे प्रेम्ण इयं स्थितिः ॥ ४८५ ॥ कुमारः कौतुकात्योचे ततस्तिलकमञ्जरि !। पारितोषिकमस्माभिः सुभ्र ! लभ्यमिह ध्रुवम् ॥ ४८६ ।। वदेन्दुवदने ! तस्कि देयं देहि च तद द्रुतम् । औचित्यदाना_दाने 'धर्मे च चिरयेन्नु'कः? ॥४८७॥ लश्चौचित्यादिदानर्णहुड्डामुक्तभृतिग्रहे । धर्मे रोगरिपुच्छेदे कालक्षेपो न शस्यते ॥ ४८८ ॥ क्रोधावेशे नदीपरमवेशे पापकर्मणि । अजीर्णभक्ती भीस्थाने कालक्षेपः प्रशस्यते ।। ४८९ ॥ हीकम्पस्वेदरोमाश्चलीलाविच्छित्तिविभ्रमैः। विकारैर्बहधा विद्धाभ्यधान्मुग्धाय धैर्यभृत ॥४९० ॥ सर्वस्वमेव ते देयं सर्वाङ्गीणोपकारिणे । तदानसत्यङ्कारस्तु'स्वामिन्नेष' विभाव्यताम् ॥ ४९१ ॥ इत्युदित्वा प्रमुदिता स्वं चित्तमिव मूर्तिमत् । हृदि न्यास्थत्' कुमारस्य 'मुक्ताहारं मनोहरम् ॥ ४९२ ॥ अत्यादरानिरीहोऽपि कुमारः स्वीचकार तम् । इष्टप्रदत्तमादातुं प्रयोक्त्री प्रीतिरेव हि ।। ४९३ ॥ कीरोऽप्यंभोजराजीभिरभ्यर्च्यत तया रयात् । नान्यथा स्यादुत्तमाना वाङ्मात्रमपि कुत्रचित् ।। ४९४ ।। औचित्यकृत्यनिस्तन्द्रश्चन्द्रचूडस्तदावदत् । दत्ते 'तुभ्यमुभे कन्ये पार' दैवेन मयांधुना ॥४९५ ।। श्रेयांसि बहुविघ्नानि भवन्तीत्यविलंबितम् । एते गृहीते माकचित्तेऽधुना पाणौ गृहाण च ॥ ४९६॥ प्रोग्यैतचन्द्रचूडस्तं विवाहाथै वधूयुतम् । श्रियः पुढे तिलकद्रुनिकुञ्ज नीतवान्मुदा ॥४९७॥ रूपान्तरेण गत्वा घ द्रुतमामूलचूलतः। चक्रे' चक्रेश्वरीश्रोत्रवर्ति तद्वत्तमुत्तमम् ।। ४९८॥ अथो पृथुमणीघण्टाघटाटङ्कारराविणम् । सन्मणीकिङ्कणीकाणोद्यत्पताकाशताकुलम् ॥४९९।। चित्तचोरणमाणिक्यतोरणश्रेणिसुन्दरम् । वाचालीकृतपाञ्चालीकुलं तौर्यत्रिकस्वनैः ॥५०॥ अपारपारिजातादिमालामालाभिरर्चितम् । हाराहारश्रीसारमुच्चलच्चारुचामरम् ॥ ५०१॥ सर्वरत्नमयं साक्षादिव' मार्तण्डमण्डलम् । अपि चण्डतमस्काण्डं खण्डयन्तं स्वतेजसा ।। ५०२ ॥ निस्समानं महामानं विमानं निजवेगतः । पवमानं जयमानं निस्समानन्दतः श्रिता ॥ ५०३ ॥ नानाविमानासीनाभिः समानाभिः समन्ततः । प्राप्ता चक्रेश्वरी तत्र देवताभिनिषेविता॥ ५०४ ॥ लकम्॥ प्रणता गोत्रदेवी च सा वधूभ्यां वरेण च । पुरन्ध्रीकुलवृद्धव तेषामित्यांशिर्ष ददौ ॥५०५।। अवियुक्ताः प्रीतियुक्ताः सौख्यलक्ष्मीजुषश्चिरम् । पुत्रपौत्रादिसन्तत्या विजयध्वं वधूवराः ॥५०६ ॥ अयौचितीचतुरया रयाच्चतुरिकादिकाम् । कृत्वा समग्रसामग्रीमग्रणीभूतया तया ॥ ५०७ ॥ देवाङ्गनागीयमाननिस्तुलोलूलमङ्गलः । व्यधायि विधिना। तेषां पाणिग्रहमहो महान् ॥५०८|| युग्मम् ।।ताभिस्तदा वरेन्द्रस्य कीरेन्द्रोऽनुचरस्थितिः । स्फीतैर्गीतंर्गीयते स्माहो! महत्संनिधेः फलम् ॥५०९॥ अहो ! कन्याकुमाराणां निस्समः सुकृतक्रमः । सुरी चक्रेश्वरी' चक्रे येषांमुद्वाहमङ्गलम् ॥५१०॥ तत्र प्रधानविविधक्रीडास्थानमनोहरः। सप्तभूमतया सप्तद्वीपश्रीणामिवालयः ॥ ५११ ॥ गवाक्षरसक्षैश्च सहस्राक्षश्रियं श्रयन् । विन्ध्योर्वीध्रायमाणैश्व चित्तहन्मत्तवारणः ॥ ५१२ ॥ कापि । कर्केतनवातैः। पृथुत्रिपथगायितः । कुत्रचिद् वयंवैडूर्यैः कालिन्दीसलिलायितः ॥ ५१३ ॥ पद्मरागैः कचिद्भागे' सन्ध्यारागसजूरिव । कुत्रापि स्वर्णविन्यासात्। स्वर्णाद्रिप्रस्थवानिव ॥ ५१४ ॥ हरित्तृणानणीयः श्रीहरिन्माणगणैः । कचित् । आकाशस्फटिकन्यासैराकाशभ्रान्तिकृत् कचित् ॥ ५१५ ॥ कचिदऊपलैरालोकात्मज्वलितानलः । कचिच्चन्द्रोपलैश्चन्द्रातपात्पीयूषवषुकः ॥ ५१६ ॥ विधाय सौधः सौधर्मावतंसक इवतरः। सर्वरत्नमयस्तेषां मादायि स्थितये तया ॥ ५१७ ॥ सप्तमिः कुलकम् ॥ तस्मिन् विस्मेरपुण्यश्रीस्तया 'पूरितवाञ्छितः । ताभ्यां समं सदेवीभ्यामिव' दोगुंदुकः सुरः॥ ५१८ ॥ विक्रीयापि ' तपः स्वं यत्पार्थ्य कैश्चित्तपस्विभिः। तर्दशेष वैषयिकसुखसर्वस्वमन्वभूत् ॥ ५१९ ॥ युग्मम् ॥ तत्तीर्थभक्त्या ' दिव्यर्दिभुक्त्या युक्त्या च ' जाययोः । तस्मिन् भवेऽपीभ्यभुवा ' लेभे सर्वार्थसिद्धता ॥ ५२० ॥ शालिभद्रस्य । गोभद्रमुरः संबन्धतः पितुः । पूरयामास सर्वाङ्गान् भोगान् । किमिह 'कौतुकम् ? ॥ ५२१ ॥ अत्याश्चर्य त्वपूर्यन्त चक्रेश्वास्य' यत्तदा । पितृमात्राद्यसंबन्धेऽप्यभीष्टा भोगसंपदः ॥ ५२२ ॥ प्राचीनपीनपुण्यस्यभ्युिदये किमु वाद्भुतम् ? । गङ्गादेव्याऽभुक्तभोगान्नृत्वेऽपि' भरतश्विरम् ॥ ५२३ ॥ देव्यादिष्टश्चन्द्रचूडस्तद्वधूवरवृत्ततः । नृपं 'वर्धापयामास ' कनकध्वजमन्यदा ॥ ५२४ ॥ स्फीतप्रीतिः क्षितीशोऽपि दर्शनोत्कण्ठया रयात् । प्रेर्यमाणः परप्रेम्णा निर्ययौ निजसैन्ययुक् ॥ ५२५ ॥ शुद्धशुद्धान्तसामन्तमन्त्रिश्रेष्ठ्यादिभिर्वृतः । तत्रापैरव दिवसैः ससैन्यः स समागमत ॥ ५२६ ॥ कुमारकीरकन्याथैः सद्यः'संमुखमांगतैः। संभ्रमेण प्रणेमेऽसौ' गुरुः शिष्यवरैरिव ॥ ५२७ ॥ स्वजनन्या च ते कन्ये निःसामान्येन केनचित् । सञ्जग्मातेतमा प्रेम्णा' धेन्वा वत्से' इवोत्सुके ॥ ५२८ ।। विश्वसारं कुमारं तं दिव्यद्धिं च विलोक्य ताम् । नृपः सपरिवारस्तं परमहिममानयत् ॥ ५२९ ॥ अातिथ्यं' कामगव्या इव देव्याः प्रसादतः । ससैनस्य रसेनस्य'द्राक् 'चकार' कुमारराट् ॥५३० ॥ तद्भत्त्या रञ्जितो राजा नोत्सुकोऽप्योत्सुकायत । 96 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134