Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 73
________________ पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥" एवं चासत्यमयगोप्यपापरूपस्य परवचनस्य वर्जने सर्वश हे परमार्थतोऽर्थोपार्जनोपायोपनिषद । दृश्यते हि संप्रत्यपि न्यायानुसारिणां स्व ऽपि धर्मस्थानादौ प्रत्यहं तदव्ययेऽपि च कूपादीनामिवाक्षयद्रव्यत्वादि । परेषां तु पापपराणां बहुबहुद्रव्यलाभेऽपि तादृग्व्ययाभावेऽपि च मरुसरोवरादीनामिव द्रागेव क्षीणद्रव्यत्वादि । आह च-"आत्मनाशाय नोन्नत्यै, छिद्रेण परिपूर्णता । भूयो भूयो घटीयन्त्रं, निमज्जत किं न पश्यसि ॥१॥ ननु न्यायधर्मेकनिष्ठा अपि केचिद दौस्थ्यादिना नित्यं दु:खिता एव दृश्यन्तेऽन्ये त्वन्यायाधर्मैकनिष्ठा अप्यैश्वर्यादिना सुखिताश्च तत्कथं न्यायस्यैव पाधान्यं ? उच्यते-अयं पाकर्मकृतो विपाकविशेषो नत्वेतद्भव कर्मकृतः । कर्म च चतुर्दा । यदाहुः श्रीधर्मघोपमूरिपादाः-"पुण्णाणुबंधि पुण्णं, तहेव पावाणुबांध पुण्णं च । पुण्णानुबधि पावं, पावं पावाणुबंधि तहा ॥१॥ अविराहिय जिणधम्मा, निरवायं निरुवमं च भवसायं । भरहुन्न लहति ' जओ, पुणं ' पुण्णानुबंधि तयं ।। २ ।। नीरोगाइगुणजुआ, महिद्विआ को. णिउव्व पावरया । पावाणुबंधिपुण्णा, हवंति ' अनाणकटेण ॥३॥ जं पुण पावस्सुदया, दरिद्दिणो दुखिआवि पावंति । जिणधम्मं तं पुण्णाणुबंधिपावं दयाइलवा ॥ ४॥" द्रमकमहर्षिवत् । “पावापयंडकम्मा, निद्धम्मा निग्धिणा निरणुतावा । दहिआदि । पावनिरया, पावं । पावाणुबंधितयं ॥५॥ " कालशौकरिकादिवत् । “बहिरंतरंगरिद्धी, जायइ पुण्णाणुबंधिपुन्नणं । इक्काविन जेसिं पुणो, घिद्धी मणुअत्तणं तेसिं ॥६॥जे खंडभावणा पुण, करिति न जिआ अखंडिअं पुण्णं । ते अन्नभवे पावंति, संपया आवयाहिं जुआ ॥७॥" एवं च यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकीविपन्न दृश्यते, तथाप्यांयत्यामवश्यं भाविन्येव । यतः-“पापेनैवार्थरागान्धः, फलमाप्नोति यत्कचित् । बडिशामिषवत्तत्तमंविनाश्य न जीर्यति ॥ १॥" अतः स्वामिद्रोहहेतुं शुल्कभङ्गार्यप्यत्रांमुत्राय॑नर्थकृत्सर्वथा परिहरेत् । यत्र च स्वल्पोऽपि परोपतापस्तं व्यवहारं गृहाट्टकारणग्रहणस्थित्यादि च सर्व वर्जयेत् । न हि परनिःश्वासैः समृद्धिसुखादिवृद्धिः । यतः-" साठ्येन मित्रं 'कपटेन धर्म, परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ १॥" यथा च जनानुरागः स्यात्तथैव यतितव्यं । यतः-"जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनरज्यते, जनानुरागप्रभवा हि संपदः ॥२॥" न च धनहानिवृद्धिसङ्ग्रहादि गुह्यं परेभ्यः प्रकाशयेत । यतः-"स्वकीयं दारमाहारं, सुकृतं द्रविणं गुणम् । दुष्कर्म मर्म मन्त्रश्च, परेषां न प्रकाशयेत् ॥१॥" नापि तत्स्वरूपं केनापि पृष्टः कूटं वदेत, किन्तु किमनेन प्रश्नेनेत्यादिभाषासमित्या प्रत्युत्तरयेत् । नृपगुर्वादिप्रश्ने तु यथास्थितमेव वाच्यं । यतः-"सत्यं मित्रः मिय स्त्रीभिरलीकमधुरं द्विषा । अनुकूलं च सत्यञ्च, वक्तव्यं स्वामिना सह ॥१॥" सत्यवादो हि पुंसः परा काष्टा, तत एव विश्वासाद्युत्पत्तेः । “श्रूयते हि ढिल्यां साधुमहणसिंहः सत्यवादीति ख्याति श्रुत्वा परीक्षार्थ सुरत्राणेन तव कियत्सङ्ख्य धनमस्तीति ? पृष्टो लेख्यकं विलोक्य विज्ञपयिष्यामीत्युक्त्वा सर्व लेख्यकं सम्यक् कृत्वा राज्ञोऽग्रे चतुरशीतिटङ्कलक्षा( सहस्रा) मदगृहे संभविनोऽनुमानेनेत्यूचे । 'मया स्तोकं श्रुतमनेन बहूक्तं' इति सत्योक्तिहृष्टो नृपस्तं कोशाध्यक्ष चक्रे । तथा स्तंभतीर्थे विषमेऽपि सत्यवादी सौवर्णिकभीमस्तपाश्रीजगच्चन्द्रमरिभक्तः श्रीमल्लिचैत्यान्तः शस्त्रीकरैर्बाहुं जैबन्दीकृतः । तत्सुतैः पितृमोचनार्थ चतुःसहस्रीकूटटङ्कानयने बाहुजैः परीक्षाकारणे यथास्थितोक्त्या तुष्टैमुक्तः । विषमे साहाय्यार्थ च समानधर्मधनप्रतिष्ठादिगुणं सुबुद्धिमनिर्लोभं च मित्रमेकं कुर्यात् । यदुक्तं रघुकाव्ये -" हीनान्यनुपकर्तृणि, विद्धानि विकुर्वते । राज्ञा मध्यमशक्तीनि, मित्राणि स्थापितान्यतः॥१॥" अन्यत्रापि-" तत्र तिष्ठति 'न'भ्राता, न पितान्योऽपि वा जनः । पुंसामापत्पतीकारं, सन्मित्रं यत्र तिष्ठति ॥१॥ईश्वरेण समं प्रीतिन मे लक्ष्मण! रोचते । गते च गौरवं नास्ति, आगते च धनक्षयः॥२॥" इति युक्तोक्तिसद्भावेऽपि यदि महता सह कथमपि प्रीतिः स्यात्तदा दुःसाधकार्यसिद्ध्यादयोऽनेके गुणाः । यतः-"आपण पई प्रभु होई, इकि प्रभु किज्जइहत्थि । कज्जकरे वा माणुसह, अवर उमग्ग न अत्थि ॥ १ ॥ लघुरपि च मित्रीकृतो महतोऽप्यवसरे महते गुणाय स्यात् । उक्तं च पञ्चाख्याने-“कर्त्तव्यान्येव मित्राणि, सबलान्यंबलान्यपि । हस्तियूथं वने बद्धं, मूषकेण विमोचितम् ॥१॥" नहि लघुसाध्यानि कार्याणि महद्भिः समुदितैरपि साधयितुं शक्यानि । सूचीकार्य हि मूच्यैव सिध्यति न तु खड्गादिभिः । तृणकार्य तृणेनैव न तु गजादिभिः । तदवादिष्म-" तृणकणलवर्णानलजलकज्जलगोमयमृर्दश्मभस्मायः। सूचीचूर्णौषधकुञ्चिकादि चनिन्यसमकार्यम् ॥१॥" मुखदाक्षिण्यादि तु दुर्जनादिभिरपि न 'जह्यात् । यतः-"सद्भावेन हरेन्मित्रं, सन्मानेन च बान्धवान् । स्त्रीभृत्यान्मदानाभ्यां, दाक्षिण्येनेतरं जनम् ॥१॥ कचिच्च स्वकार्यसिध्यै खलानपि पुरस्कुर्यात् । यदभ्यधिष्म-" खलान् कापि पुरकृत्य, स्वकृत्यं ' साधयेद्बुधः । रसभुक् ' क्लेशरसिकान् , रसना 'दशनानिव ॥ १॥ प्रायः कण्टकसण्टइं, विना निर्वाह एव 'न । क्षेत्रग्रामगृहाराममुख्यरक्षा हि तदशा ॥२॥" प्रीतिपदे च • सर्वथासम्बन्धादि वर्जयेत् । यतः-"कुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च, प्रतिष्ठाभ्रंशभीरुकः ॥ १॥" सोमनीतावपि-" अर्थसम्बन्धः सहवासश्च नो अकलहः ।" न च साक्षिणं विना मित्रगृहेऽपि स्थापनिकास्थापनं मित्रादिहस्ते न 72 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134