Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
स्वद्रव्यप्रेषणाद्यपि युक्तमविश्वासस्यार्थमूलत्वाद्विश्वासस्य चनिर्थमूलत्वात् । यदाह-"न' विश्वसेदविश्वस्ते, विश्वस्तेपिन विश्वसेत् । विश्वासाद्भयमुत्पन, मूलादपि निकन्तति ॥ १॥" गुप्तमुक्तस्थापनिकया च को वा सुहृदपि न लोलुभ्यते । भण्यतेऽपि-"निक्षेपे पतिते हर्ये, श्रेष्ठी स्तौति स्वदेवताम् । यदीशो म्रियतामाशु, तुभ्यं दास्यामि याचितम् ॥१॥" अस्माभिरप्युक्तं-" अथ्यो नूणमणथ्यो, अग्गीव परं गिहीण तेण विणा । कहमवि न हु निन्वाहो, तातं जुत्तीइ रस्किज्जा ॥१॥" अत्र श्रेष्ठिधनेश्वरसम्बन्धः । यथा स स्वगृहसारमेकीकृत्य कोटि कोटि वर्णमूल्यान्यष्टौ रत्नानि स्वप्रियापुत्रादिभ्योऽपि प्रच्छन मित्रहस्ते न्यासीकृत्य धनार्जनार्थ विदेशे गतो, बहुकालं स्थितो, दुर्दैवादोकस्मिकमान्येनन्त्यिावस्था प्राप्तः । यतः-" अन्नह परिचिंतिज्जइ, सहरिस कुंदुजलेण हिअएण । परिणमइ तं तु अन्नह, कज्जारंभो विहिवसेणं ॥ १॥" तदा चासन्न सुजनैव्यादिस्वरूपं पृष्टः पाह, विदेशार्जितं मद्धनं भूयस्तरमपीतस्ततः स्थितं पुत्रादिभिर्दुग्रहं, परं मित्रहस्तन्यस्तं रत्नाष्टकं प्रियापुत्रादीनां दाप्यमित्युक्त्वा स मृतः । तैस्तत्स्वरूपे ज्ञापिते. 'पुत्रादिभिर्विनयस्नेहबहुमानदोदयाभयदर्शनाद्यनेकप्रकारैर्मागणेऽपि लुब्धेन मित्रेण तन्न मानितं नॉर्पितञ्च । व्यवहारकरणे साक्षिणो लिखिताद्यभिज्ञानस्य चाभावाद् भूपत्यमात्यादिभिरपि दापयितुं न शक्तं । यस्य तस्यापि साक्षिणः करणे चौरादिगृहीतमपि जातु पश्चादलते । यथा बहुवित्तवणिजा' धुर्तेन विदेशे मार्गे तस्करघाटीमिलने जोत्कारकरणे तैव्यं मार्गितं । तेनोक्तं, साक्षिणं कृत्वा सर्व गृह्णन्तु । पुनरवसरे भवद्भिर्ममार्ण्यमहं च न मार्यः । ततस्तैवैदेशिको मुग्धोऽयमिति मत्वाऽरण्यमार्जारं करं साक्षीकृत्य सर्वस्वं लात्वा मुक्तः । स परंपरया तत्स्थानाधवगत्य स्वग्रामं गतः । कियति काले तद्वासग्रामसत्काः सतस्कराः केऽपि बहु वस्तु लात्वा तत्रागताः। तेन स्वद्रव्यमार्गणे मिथ: कलहे न्यायकरादिभिः 'साक्षी कोऽप्यस्ति ? इति पृष्टे वणिजा कृष्णमार्जरमेकं सरडिमध्ये क्षिप्त्वोक्तं, 'एष साक्षी' तस्करैरुक्तं, 'विलोक्यते'। भोः कीदृशः साक्षी ? ततस्तेन स दर्शितः तैरुक्तं, ' एष स न कृष्णत्वात्, स तु कर्बुरोऽभूत् ' इति स्वमुखेनैव माननान्यायकरादिबलेन सर्व स्वद्रव्यं पश्चादगृहीतं तेनेति साक्षिकरणे कथानकम् । तस्मात्स्थापनिका गुप्तकृत्या न मोच्या न मासा वा, किन्तु कियत्स्वजनसमक्षम मोच्या ग्राह्या च । न च धनिकानुमतिं विना सा चालपितुमपि युज्यते, किं पुनर्वाणिज्यादौ व्यापारयितुं । जातु न्यासकृदन्यत्र मृतस्तदा तत्सुतादेः सार्पणीया । तत्सुताधभावे तु सर्वसमक्षं धर्मस्थाने व्ययितव्या । नाप्युद्धारनिक्षेपादि समग्रायव्ययटिप्पनादौ स्वल्पमप्यालस्यं कुर्यात् । यत उक्तं" ग्रन्थिबन्धे परीक्षायां, गणने गोपने व्यये । लेख्यके च कृतालस्यो, नरः शीघ्रं विनश्यति ॥१॥" भ्रान्तिबहुलो हि जन्तुष्टिप्पनादि विना भ्रान्तौ मुधा कर्मबन्धादि दोषोऽपि । योगक्षेमादिसिद्ध्यर्थ च रविरिवेन्दुना राजादिः कश्चिन्नायकोऽप्यनुसरणीयोन्यथा पदे पदे पराभवादिभावात् । उक्तश्च-" सुहृदामुपकारकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥१॥" मंत्रिवस्तुपालसाधुपेथडाद्यैरपि नृपाश्रयेणैव प्रासादाद्यनेकतत्तत्पुण्यकृत्यानि चक्रिरे । तथा युतधातुवादादि दूरतः परिवर्जयेत् । यतः-"जुधाउवाओ, अंजणसिद्धी रसायणे तण्डा । जस्किणि विवरपवेसो, दइवे रुटे । मई होई ॥१॥" यथा तथा शपथादिकं च न विदध्याद्विशिष्य च देवगुर्वादिविषयं । तदभिहितं-" अलिएणवि सच्चेणवि, चेइअसम्म करेइ 'जो मूढो । सो वमइ बोहिबीअं, अणंतसंसारिओ होइ ॥ १॥" नापि परमतिभूत्वादिसटे पविशेत् । यत्कासिक:-" अनीश्वरस्य द्वे भार्ये, पथि क्षेत्रं द्विधा कृषिः। प्रातिभाव्यं च साक्ष्यञ्च, पञ्चानाः स्वयं कृताः॥१॥" तथा मुख्यवृत्त्या निवासग्रामे एव वाणिज्यादि कार्य । तथा सति कुटुम्बावियोगगृहकार्यधर्मकार्याधसीदत्तादयो गुणाः । तथा निर्वाहाभावे निवासदेशान्तर्व्यवहरेदेवमपि शीघ्रं शीघ्र निजस्थानागमनसंभवादिना प्रायः पूर्वोक्ता गुणाः । को हि नाम पामरोऽपि निजस्थाने निर्वाहसंभवे देशान्तरक्लेशमाश्रयेत् । उक्तमपि–“जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत! दरिद्रो व्याधितो मूर्खः 'प्रवासी नित्यसेवकः ॥ १॥" अन्यथा च निर्वोहुमशक्तो यदि देशान्तरे व्यवहारं कुर्यात्तथापि न स्वयं नापि पुत्रादिभिः, किन्तु सुपरीक्षितवाणिपुत्रादिभिः । जातु स्वयमेव देशान्तरे यायात् तदापि सुमुहूर्तशकुननिमित्तदेवगुरुवन्दनादिमङ्गल्यविधिना बहुभाग्यवत्सार्थमध्यवर्ती निद्रादिप्रमादवर्जी कियाद्भिः स्वकीयज्ञातीयसुपरिचितादिभिः सहैव सुयत्नेनैव ब्रजेद व्यवहरेत्तिष्ठेच्च । भाग्यवता चैकेनापि सार्थस्य विघ्नं टलति । “ यथैकविंशतिः पुरुषाः वर्षासु ग्रामान्तरे यान्तः , सायं देवकुले स्थितास्तदा विद्युद् द्वारमागत्योगत्य याति, तैश्च भीत्योक्तं, 'कोऽप्यात्मसु निर्भाग्योऽस्ति इत्येकैको देवकुलात्परितो भ्रान्त्वा आयातु ' तथा कृत्वा विंशतिः प्रविष्टाः । एकविंशे बलादहिः कृष्टे विंशतेर्मूर्भि विद्युत्पपात । तेष्वेक एव भाग्यवांस्ततो भाग्यवत्सार्थो ग्राह्यः। लभ्यदेयनिध्यादि च सर्व पितृभ्रातृपुत्रादीनां च सर्वदापि ज्ञापयेत्, विशिष्य च प्रस्थानावसरे, अन्यथा दुर्दैवात्तस्यायुः समाप्तौ सत्यपि विभवे पित्रादीनां मुधा दारिद्यादिदुःखं कृतं स्यात्, स्वकीयांश्च सर्वानपि यथाईचिन्ताकरणशिक्षाप्रदानपूर्व सबहुमानं संभाष्यैव प्रतिष्ठते । उक्तश्च-" अवमन्य माननीयानिर्भ
य॑ स्त्री च कमपि संताड्य । बालमपि रोदयित्वा जिजीविषुर्नैव निर्गच्छेत् ॥ १॥" आसन्नं च विशेषपर्वोत्सवादि कृत्वा व्रजति । यतः-" उत्सवमशनं स्नानं प्रगुणं चोपेक्ष्य मङ्गलमशेषम् । असमापिते च सूतकयुगेऽङ्गानत्तौ च'नो यायात् ॥ १॥"
श्रीश्राद्धविधिप्रकरणम्
73

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134