Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 84
________________ मुचितं । दुःखितानां दीननार्थान्धबधिरव्याधितादीनां दया यथाशक्ति तत्प्रतीकारश्च । ये किलानन्तरोक्ते लौकिकेऽप्युचिताचरणमात्रे कर्मणि 'न कर्मठास्ते' कथं 'लोकोत्तरे 'लोकोत्तरनर सूक्ष्ममतिग्राह्ये च 'जैने धर्मे प्रवीणाः स्युस्तस्मादवश्यं धर्मार्थिभिरुचितचरणनिपुणैर्भाव्यं । अन्यत्राप्यूचे – “ सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मदिट्ठिस्स लिंगाई ॥ १ ॥” “मुंचति न मज्जायं, जलनिहिणो नाँचला वि हु चलति । न कयावि उत्तमनरा, उचिआ - चरणं विलंघंति ।। ४५ ।। तेणं चिअ जयगुरुणो, तित्थ्यरा वि हु गिहत्थभावंमि । अम्मापिऊणमुचिअं, अनुट्ठाणाइ कुव्वंति ॥ ४६ ॥ इति नवधौचित्यं । अवसरे चोचितं वचनमपि महते गुणाय । यथा मल्लिकार्जुनं जित्वा चतुर्दशरैकोटिमुक्ताषण्मूढकचतुदर्श भारमित-द्वात्रिंशद्वैकुम्भशृङ्गार कोटीशाटीमाणिक्यपट-विषापहशुक्त्यादितत्कोशढौकनतुष्टः कुमारनृपो मन्त्रि - आंबडाय राजपितामह - बिरुदकोटीद्रव्यचतुर्विंशतिजात्याश्वादि ददे । स तु तत्सर्वं गृहादर्वार्थिभ्यो ददौ । पैशुन्याद्राज्ञः कोपे किं मत्तोऽप्यधिकं दत्से १ इत्युक्तौ तव पिता द्वादशग्रामस्वामी मम त्वष्टादशदेशस्वामीत्युचितोत्या तुष्टो नृपः पुत्रपदं द्विगुणं च प्रसादं तस्मै ददौ । तदवादिष्म - “ दाने याने माने, शयनासनपानभोजने वचने । सर्वत्रन्यत्रापि हि भवति महारसमयः समयः ।। १ ।। ” अतः समयक्षता सर्वत्रौचित्यबीजं - “ औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः ।। १ ।।” इत्युक्तेः । सर्वमनौचित्यं च त्याज्यं । येन च कृतेन मूर्खत्वव्यपदेशस्तदप्यनुचितमिति परिहार्य । तदपि लौकिकशास्त्रोक्तं बहूपकारित्वात् प्रदर्श्यते । यथा— 44 शृणु मूर्खशतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके ' दोषहीनो मणिर्यथा ॥ १ ॥ सामर्थ्य विगतोद्योगः स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी प्रत्ययी दम्भडम्बरे ॥ २ ॥ द्यूतादिवित्तबद्धाशः कृष्याधायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी विविक्तरसिको वणिक् ॥ ३ ॥ ऋणेन स्थावरक्रेता ! स्थविरः कन्यकावरः। व्याख्याता चांश्रुते ग्रन्थे प्रत्यक्षार्थेऽप्यपह्नवी ॥ ४ ॥ चपलापतिरीर्ष्यालुः शक्तशत्रुर्रशङ्कितः । दत्वा धनान्यनुशयी ' कविना हठपाठकः ।। ५ ।। अप्रस्तावे पटुर्वक्ता प्रस्तावे मौनकारकः । लाभकाले कलहकृन्मन्युमान् भोजनक्षणे ॥ ६ ॥ कीर्णा - र्थः स्थूललाभेन लोकोक्तौ क्लिष्टसंस्कृतः । पुत्राधीने घने दीनः पत्नीपक्षार्थयाचकः ॥ ७ ॥ भार्याखेदात्कृतोद्वाहुः पुत्रको पात दन्तकः । कामुकस्पर्धया' दाता' गर्ववान्मार्गणोक्तिभिः ॥ ८ ॥ धीदर्पान हितश्रोता ' कुलोत्सेकादैसेवकः । दत्वार्थान् दुर्लभान् कामी दत्वा शुल्कर्ममार्गगः ॥ ९ ॥ लुब्धे भूजि लाभार्थी न्यायार्थी दृष्टशास्तरि । कायस्थे स्नेहबद्धाशः क्रूरे मन्त्रिणि निर्भयः ॥ १० ॥ कृतघ्ने प्रतिकार्यार्थी नीरसे गुणविक्रयी । स्वास्थ्ये वैद्यक्रियाशोषी रोगी पथ्यपराङ्मुखः ॥ ११ ॥ लोभेन स्वजनत्यागी 'बाचा मित्रविरागकृत् । लाभकाले कृतालस्यो महर्द्धिः कलहप्रियः ।। १२ ।। राज्यार्थी गणकस्योच्या मूर्खमन्त्रे कृतादरः । शूरो दुर्बलबाधायां दृष्टदोषाङ्गनारतिः ॥ १३ ॥ क्षणरागी गुणाभ्यासे सञ्चयेऽन्यैः कृतव्ययः । नृपानुकारी मौनेन 'जने राजादिनिन्दकः ॥ १४ ॥ दुःखे दर्शितदैन्यार्त्तिः सुखे विस्मृतदुर्गतिः । बहुव्ययोऽल्परक्षायै परीक्षायै विषाशनः ॥१५॥ दग्धार्यो धातुवादेन रसायनरसः क्षयी । आत्मसंभावनास्तब्धः क्रोधादात्मवधोद्यतः ॥ १६ ॥ नित्यं निष्फलसञ्चारी युद्धक्षी शराहतः । क्षयी शक्तविरोधेन स्वल्पार्थः स्फीतडम्बरः ।। १७ ।। पण्डितोऽस्मीति वाचालः ' सुभटोऽस्मीति निर्भयः । उद्वेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः ॥ १८ ॥ दरिद्रहस्तन्यस्तार्थः सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये ' लेख्यकोद्वेगी दैवांशा त्यक्तपौरुषः ।। १९ ।। गोष्ठीर तिर्दरिद्रश्च क्षैन्यविस्मृतभोजनः । गुणहीनः कुलश्लाघी गीतगायी खरस्वरः || २० || भार्याभयानिषिद्धार्थी कार्पण्येनांप्तदुर्दशः । व्यक्तदोषजनश्लाघी सभामध्यार्द्धनिर्गतः ॥ २१ ॥ दूतो विस्मृतसन्देशः कासर्वांश्चौरिकारतः । भूरिभोज्यव्ययः कीर्तेः श्लाघायै स्वल्पभोजनः ।। २२ ।। स्वल्पभोज्येऽतिरसिको विक्षिप्तश्छद्मचादुभिः । वेश्यासपत्नकलही द्वयोर्मन्त्रे तृतीयकः ॥ २३ ॥ राजप्रसादे स्थिरधरन्यायेन विवर्द्धिषुः । अर्थहीनोऽर्थकार्यार्थी जने गुह्यप्रकाशकः ॥ २४ ॥ अज्ञातमतिभूः कीर्त्यै हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना 'न' लोकव्यवहारवितु ॥ २५ ॥ भिक्षुकोष्णभोजी च गुरुव शिलिक्रियः । कुकर्मण्यपि निर्लज्जः स्यान्मूर्खश्च सहासगीः ॥ २६ ॥” इति मूर्खशतम् । अन्यदप्येवंविधं कुशोभाकृत्याज्यं । उक्तं च विवेकविलासादौ । 66 “ विजृम्भणक्षुतोद्गारहास्यादीन् पिहिताननः । कुर्यात्सभासु नो नासाशोधनं हस्तमोटनम् ॥ १ ॥ कुर्यात्पर्यस्तिकां' नैव' न च पादप्रसारणम् । न निद्रां विकथां नापि सभायां कुक्रियां न च ॥ २ ॥ प्रस्तावेऽपि कुलीनानां हसनं स्फुरदोष्टकम् । अट्टहासोऽतिहासश्च सर्वथनुचितौ पुनः ॥ ३ ॥ स्वाङ्गवाद्यं तृणच्छेदं व्यर्थे भूमेर्विलेखनम् । नैव कुर्यान्नखैर्दन्तनखानामपि घर्षणम् ॥ ४ ॥ न गर्वः सर्वथा कार्यो भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कार्य: स्वगुणानां तु' निश्चयः ॥ ५ ॥ अवधार्या विशेषोक्तिः परवाक्येषु 'कोविदैः । नीचेन स्वं प्रति प्रोक्तं यत्तना॑नु॒वदेत्सुधीः ॥ ६ ॥ कालत्रयेऽपि यत्किश्चिदात्मप्रत्ययवर्जितम् । एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥ ७ ॥ प्रारभ्यते ' नरैर्यच्च 1 श्रीश्राद्धविधिप्रकरणम् 83

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134