Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
च ॥ ३६ ॥ द्धो ज्ञातिस्तथा मित्रं 'दरिद्रो यो भवेदिह । गृहे वासयितव्यास्ते' गृहवृद्धिमभीप्सता ॥ ३७॥, अपमानं पुरस्कृत्य मानं कृत्वा च ' पृष्ठतः । स्वार्थमभ्युद्धरेत्माज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ ३८॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव च पाण्डित्यं । यत्स्वल्पाद भूरिरक्षणम् ॥ ९॥ आदौनस्य। प्रदानस्य कर्त्तव्यस्य च कर्मणः । क्षिप्रेमक्रियमाणस्य' कालः पिबति तद्रसम् ॥ ४०॥ नाभ्युत्थानक्रिया' यत्र 'नालापो मधुराक्षरः । गुणदोषकथा नैव तस्य हर्ये' न गम्यते ॥४१॥ अनाहूतः प्रविशति 'अपृष्टो बहु भाषते । अदत्तमोसनं भुते स पार्थ ! पुरुषाधमः ।। ४२ ॥ अशक्तः कुरुते कोपं निर्धनो मानमिच्छति | अगुणी च गुणद्वेषी पृथिव्यां लकुटत्रयम् ॥ ४३ ॥ मातापित्रोरभरकः क्रियामुद्दिश्य याचकः । मृतशय्यापतिग्राही न भूयः पुरुषो भवेत् ॥ ४४ ॥ बलीयसा समाक्रान्तो वैतसी वृत्तिमश्रियेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी नाभौजङ्गीं । कथञ्चन ॥४५॥ क्रमाद्वेतसवृत्तिस्तु प्राप्नोति महतीं श्रियम् । भुजङ्गत्तिापन्नो' वधमहति केवलम् ॥ ४६॥ कूर्मः सडोचमोसाद्य प्रहारानपि मर्षयेत् । काले काले च'मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥४७॥ बलिनापि न बाध्यन्ते लघवोऽप्येंकसंश्रयाः । विपक्षेणापि मरुता यथैकस्था न वीरुधः ।। ४८ ।। उच्छेदयन्ति विद्वांसो वर्द्धयित्वारिमेकदा । गुडेन 'वर्द्धितः श्लेष्मा' यतो निःशेपतां व्रजेत ॥४९॥ सर्वस्वहरणे शक्तं 'शद्वं' बुद्धियुता नराः। तोषयन्र्त्यल्पदानेन । वाडवं'सागरो यथा ॥ ५० ॥ शत्रमुत्पाटयेत्माजस्तीक्ष्णं तीक्ष्णेन शत्रुणा । पादलग्नं करस्थेन' कण्टकेनेव · कण्टकम् ॥ ५१ ॥ अविमृश्य स्वपरयोः ' शक्तिमुत्तिष्ठते तु' यः। सोऽद्धशद्धे शरभवत् । प्रोल्ललनङ्गभङ्गभाक् ।। ५२ ॥ उपायेन हि तन्कुर्याद्यन्न शक्य पराक्रमैः । काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ ५३ ॥ नखिनां च 'नदीनां च शृहिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः। स्त्रीषु'राजकुलेषु 'च' ॥ ५४॥ सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुर्कुटात् । वायसात्पश्च शिक्षेत षद् शुनस्त्रीणि गदेभात् ॥ ५५ ॥ प्रभूतकायमल्पं वा यो नरः कर्तुमिच्छति । सर्वारम्भेण'तत्कुर्यात् सिंहस्यैकं पदं यथा ॥५६। वकवच्चिन्तयेदान् सिंहवच्च पराक्रमम् । तृकंचर्चावलुपेत शशवच पलायनम् ।। ५७ ।। प्रागुत्थानं च' युदं च संविभागं च बन्धुषु । स्त्रियमीक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुर्कुटात ॥ ५८ ॥ गूढं च मैथुनं धार्य ' काले चालयसङ्ग्रहः । अप्रमादमविश्वासं पञ्च शिक्षेत वायसात् ।। ५९ ।। बहाशी चाल्पसन्तुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते। श्वानतो। गुणाः ॥६०॥ आरूढं तु वहेद्भारं 'शीतोष्णं न च विन्दते । सन्तुष्टश्च भवन्नित्यं त्रीणि शिक्षेत गर्दभात ॥ ६१॥" इत्याद्यन्यदपि नीतिशास्त्रायुक्तं सर्वमौचित्यं सुश्रावकेण सम्यक् चिन्त्यं । यतः-" हितमहितमुचितमनुचितमवस्तु वस्तु स्वयं न'यो वेत्ति । स पशुः शृङ्गविहीनः । संसारवने परिभ्रमति ॥१॥ नो वक्तुं'न विलोकितुं न हसितुं न क्रीडितुं'नेरितुं, न स्थातुं न परीक्षितुं न पणितुं नो राजितुं नार्जितुम् । नो दातुं न विचेष्टितुंन पठितुं नानन्दितुं नैधितुं, यो 'जानाति जनः स जीवति कथं निर्लज्जचूडामणिः ॥२॥ भोक्तुं परिधातुं प्रजल्पितम् । वेचियः स्वपरस्थाने । विदुषां स नरोऽग्रणी ॥३॥" इत्यलं प्रसङ्गेन ॥
व्यवहारशुक्ष्यादित्रयेणार्थचिन्तायां ज्ञातं । यथा-"विनयपुरे इभ्यवसुभद्रापुत्रो धनमित्रो बाल्ये पित्रोद्भृत्या धनहान्या नि:स्वो दुःखी यौवने कन्याया अप्राप्तौ हिया धनार्जनार्थ गतः । खन्यवादधातुवादरसमन्त्रजलस्थलयात्राविविधवाणिज्यनृपादिसेवादावपि धनामाप्याऽत्युद्विग्नो गजपुरे केवलिनं माग्भवं पप्रच्छ । सोऽप्यूचे विजयपुरे गङ्गदत्तो गृहपतिः, कृपणो मत्सरी दानलाभादावन्येषामपि विघ्नकृत, सुन्दरश्राद्धे न मुनिपाचे नीतः। किश्चिद्भावाद्'दाक्षिण्याच'प्रत्यहं चैत्यवन्दना-पूजादि धर्मकरणं स्वीचक्रे । कार्पण्यादिना च पूजादौ शिथिलश्चैत्यवन्दनाभिग्रहं पालितवान् । तत्पुण्येनेभ्यपुत्रस्त्वं जातोऽस्माकं मिलितश्च । प्राग्दुष्कृतच्चिातिनिःस्वो दुःखी च-" यद्यथा क्रियते कर्म तत्तथैवोपभुज्यते । सहस्रगुणमप्येवं ज्ञात्वा कुर्याद्यथोचितम् ॥ १॥" ततः स प्रबुद्धो गृहिधर्म प्रपेदे, दिननिशाद्ययामयोधर्म एव कार्य इत्यभिग्रहं च। ततः श्राद्धगृहे उत्तीर्णः । पातौलिकेन सह पुष्पाणि भागेनावचित्य गृहे चैत्ये चाहन्तं भक्त्यार्चति, द्वितीययामादौ तस्य व्यवहारशुद्धिदशादिविरुद्धत्यागौचित्याचरणादिविधिना व्यवहरतोऽकृच्छेण भोजनादि स्यात् । एवं यथा यथा धर्मे स्थैर्य तथा तथाधिकाधिकधनमर्जयति धर्मे च व्ययति । क्रमात् पृथग् गृहे स्थितो'धर्मिष्ठतया महेभ्यदत्ता कन्यां परिणिन्ये । अन्यदोच्चलति गोकुले गुडतैलादि विक्रेतुं गतो गोकुलाधिपमैङ्गारधिया त्यक्तनिधिस्वर्ण दृष्ट्वा ‘स्वर्णमिदं' कस्मात् त्यज्यते ' ? इत्यूचे । तेनोक्तं-'माग् वयं पित्रा स्वर्णोक्त्या वञ्चितास्त्वमपि वश्चयसे' १ तेनोक्तं अहं कूटं न ब्रुवे'। सोऽप्याह,-' तर्हि गुडादि दत्वा त्वमेव गृहाण'। ततस्तेन तथा कृतं । त्रिंशत्सहस्रमानेन तेनन्येिनापि वहर्जितेन'स महेभ्यो जज्ञे । अहो तद्भवेऽपि 'धर्ममाहात्म्यं । अन्येाः सुमित्रमहेभ्यगृहे कर्मवशादेकाकी स गतः। तदा कोटिमूल्यरत्नैः कृतं हारं 'बहिमुक्त्वा किश्चित् कार्येण सुमित्रो मध्ये गत्वा पश्चादागतो हारमदृष्ट्वान्यिाभावात्त्वयैवात्त इत्युक्त्वा तं राजकुले निन्ये । तेन जिनार्चासदृष्टिसुरकायोत्सर्गपूर्व दिव्यप्रारंभे 'तु रत्नावली सुमित्रस्य ओटितः पतिता । सर्वेषां विस्मयः । ज्ञानी पृष्टः प्राह-“ गङ्गदत्तो गृहपतिस्तद्भार्या मगधा 'श्रेष्ठिपन्याः प्रच्छन्न'लक्षमूल्यं रत्नं जगृहे । तया बहु बहु मार्गणे भार्यामोहाद्गङ्गदत्तः 'तव स्वैरेवात्तं ' इत्योलं ददौ । ततः सा खिन्ना तापसीभूय व्यन्तरो जज्ञे । मगधा तु मृत्वा सुमित्रः, गङ्गदत्तस्तु धनमित्रः । तेन व्यन्तरेण क्रुधा सुमित्रस्याष्टौ पुत्रा निहताः।
श्रीश्राद्धविधिप्रकरणम्
85

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134