Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 100
________________ प्यरेगौरवं विदधते महाधियः । मीनमात्मसदनं समेयुषे भार्गवाय गुरुरुच्चा ददौ ॥ ६३५ ॥ तद्यावदेष जागर्ति तावद भूतवजं निजम् । आकारयामि पश्चात्तु करिष्यामि यथोचितम् ॥ ६३६ ।। ध्यात्वेति । गत्वा भूतानां प्रभूतानां स संहनीः । समाहृय समायासीत्पत्तीनामिव पार्थिवः ॥ ६३७ ॥ उवाहितकनीतातमिव निश्चिन्तचेतसम । तथैव तं च निद्राणं प्रेक्ष्यांचिक्षेप राक्षसः ॥ ६३८ ॥ रे निर्मर्याद ! निर्बुद्धे ! रे रे निर्लज्ज ! निर्भय ! । निर्याहि मंक्षु मे हान्नोचेद्युध्यस्व रे मया ।। ६३९ ।। तस्येत्युक्तेस्तथाभूतोद्भूतात्किलिकिलिध्वनेः । त्यक्तनिद्रः कुमारेन्द्रस्तन्द्रालुरिदमब्रवीत् ॥ ६४०॥ रे राक्षसेन्द्र ! चक्र विनं वैदेशिकस्य किम् ? । निद्रालोर्मम निद्रायां 'बुभुक्षोरिव भोजने ॥६४१॥ धर्मनिन्दी पंक्तिभेदी निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापाकी पञ्चैतेऽत्यन्तपापिनः॥६४२॥ तन्नव्यसर्पिःसंपृक्तजलेन तल ! घट्टय । शीतलेन तलांघी मे द्राग निद्रेति यथा पुनः॥६४३॥ रक्षोऽध्यासीत् किमप्यस्य चरितं जगदद्भुतम् । शक्रस्यापि हृदाकम्पि किं पुनः प्राकृतात्मनाम् ॥६४४।। अहो ! स्वांघ्रितलामर्श मयाप्येषोऽभिलाषुकः। सिंहयानेन चलनमिवांहो निर्भयात्मता ॥६४५॥ अहो महासाहसिक्यमहो ! विक्रमशक्रता!। अहो अस्य महाधार्यमहो निःशङ्कचित्तता!॥६४६।। यद्वा किंबहुना विश्वविश्वोत्तमशिरोमणेः। सकृदुक्तं करोम्यस्य कृतिनोऽतिथिताभृतः ॥६४७॥ ध्यात्वेति राक्षसस्तस्य म्रक्षयामासिवान् क्षणम् । तलपादौ मृदुकरः ससर्पिःशीतलभिसा।।६४८॥ नेक्ष्येत न निशम्येत न संभाव्येत यत् कचित् । सतां तदपि सुप्रापमहो! सुकृतवलितम् ॥६४९॥ तं भृत्यमिव वीक्ष्यांघ्रितलामर्शिनमश्रमम् । रत्नसारः प्रीतिसारः समुत्थाय समालपत् ।।६५०॥ अविज्ञेन तवावज्ञा नृमात्रेणापि यन्मया । व्यधायि यातुधानेन्द्र ! तत् क्षमस्वाखिलक्षम! ॥६५१ ।। भक्त्या ते तुष्टचित्तोऽहं नक्तंचर वरं वर । दुःसाधमपि साध्यं ते साधयामि ध्रुवं जवात् ॥ ६५२ ॥ विम्मितः स ततचित्ते चिन्तयाश्चकृवानहो ! । विपरीतमिदं जज्ञे नरस्तुष्टः 'सुराय मे ॥६५३॥ इच्छेत्साधयितुं चैप मम दुःसाध्यमप्यहो!। अहो ! निपानपानीयं कूपान्तः प्रविविक्षति ॥ ६५४ ॥ कल्पद्र्रद्य सेवाकृत्पार्थेऽभीप्सितमीप्स्यति । अर्कोऽप्यद्य प्रकाशार्थ किश्चित्मार्थयिता परम् ।। ६५५ ।। किश्च किन्नाम 'दायिं नरः सुरवराय मे | किश्च(श्चा)मार्थ्यममर्त्यस्य ममास्ते मर्त्यसन्निधौ ॥६५६ ॥ तथापि किञ्चिधाचिष्ये चिन्तयित्वेति चेतसि । उवाच'वाचमित्युच्चैर्व्यक्तं नक्तश्चराग्रणीः ।। ६५७ ॥ यः परप्रार्थितं दत्ते त्रैलोक्येऽपि स दुर्लभः । तत्मार्थयितुकामोऽपि कुमार ! प्रार्थये कथम् ? ॥६५८ ॥ याचेऽहमिति चिन्तायां चेतःस्थाः सद्गुणाः क्षणात् । वचने तु तनुस्था अप्युवजन्ति भयादिव ॥ ६५९ ॥ द्वैधोऽपि मार्गणगणः परपीडाकरः परम् । चित्रमेकः पविष्टोऽन्तर्दृष्टोऽपि च परः पुनः ।। ६६० ।। लघुधुली तृणं तस्यास्तृणात्तूलं ततोनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ॥६६१॥ तदुक्तं-“परपत्थणापवनं मा जणणि जणेसु एरिसं पुत्तं । मा उअरेवि धरिज्जमु पस्थिअभंगो कओ जण ॥६६२।। तदुदारजनाधार ! रत्नसारकुमार! ते । प्रार्थये'प्रार्थनां व्यर्थीकुर्याश्चन कथञ्चन ॥६६३॥ सोऽयंभ्यधत्त भा : वित्तचित्तवाविक्रमोद्यमैः। यद्देहजीविताद्यैश्च(श्चा) साध्यं साध्यं हि तन्मया॥६६४॥ तदा जगाद क्रव्यादःसादरं हे महेभ्यभूः । यद्येवं तन्महाभाग! पुरेऽस्मिन् 'भूपतिर्भव ॥६६५|| सर्वाङ्गीणगुणोत्कर्ष'सहर्ष तव वीक्ष्य भोः।दीयमानमिदं राज्यं प्राज्यं भुझ्व यदृच्छया ॥६६६॥ दिव्यर्दिभोगसैन्याधमन्यद्वापि तवेप्सितम् । वशोऽवश्यं विधास्येऽहं नित्यभृत्य इवांनिशम् ॥ ६६७॥ निःशेपिनेषु विद्वेषिक्ष्माकान्तेषु मया रयात् । वर्द्धतां त्वत्प्रतापानिस्तत्मियाश्रुजलैर्नवः ॥ ६६८ ॥ मदादिसुरसाहाय्याद्। भूतले सकलेपिते । एकातपत्रसाम्राज्यमस्तु क्षमाशक्र! शक्रवत् ।। ६६९॥ अत्र' साम्राज्यसजुषः शक्रसख्यपुपः श्रिया । स्वर्गेऽप्यनगेलं स्वोङ्गना गायन्तु ते यशः ॥ ६७०॥ अथ चिन्ता स्वचित्तान्तश्वकार वसुसारसूः। अहो! पचेलिमैः पुण्यमचं राज्यं ददात्ययम् ॥ ६७१ ।। मया तु प्राग यतीन्द्राणां संनिधौ धर्मसंनिधौ । पञ्चमाणुव्रतादाने राज्यांदानं न्ययम्यत ।। ६७२॥ संप्रति प्रतिपन्नं च पुरतोऽस्य स्वयं मया । यद्वक्ष्यसि करिष्ये तदित्यहो! विषमं महत् ॥ ६७३ ॥ इतोऽवट इतो धाटी इतो व्याघ्र इतस्तटी । इतो व्याध इतः पाशो ममाप्योपतितं ह्यदः ॥ ६७४ ॥ एकतः प्रार्थनाभङ्गः परतः स्वव्रतक्षतिः । हाहा कुमारः किं कुर्यात्पतितोऽत्यन्तसङ्कटे ॥ ६७५ ॥ यद्वाप्यन्यमार्थनायामार्यः कुर्यात्तदेव हि । न यतः स्वव्रतभ्रंशस्तभ्रंशे किं नु तिष्ठति ॥ ६७६ ॥ दाक्षिण्येनापि किं तेन येन धर्मोऽपि बाध्यते । काश्चनेनापि किं तेन येन स्यात्कणेयोस्त्रुटिः ॥ ६७७ ॥ तावदेव हि कपरं'भक्षणीयं विचक्षणैः। यावता हन्त'नो दन्तपतनोदन्तसंभवः॥ ६७८ ॥ दाक्षिण्यळजालोभादि देहतद्वाद्यमेव हि । खजीवितं तु मन्तव्यं कृतिभिः स्वीकृतं व्रतम् ॥ ६७९ ॥ तुंबे विनष्टे किमरैः? राशि नष्टे च किं भटैः । मूले दग्धे प्रतानैः किं ? पुण्ये क्षीणे किमौषधैः ॥ ६८० ॥ शून्ये चिचे च किं शास्त्रैः? किमस्खुटिते करे ? । खण्डिते स्वव्रते कि वा दिव्यैश्वर्यसखादिभिः॥ ६८१ ॥ इति चिन्तितपूवीं तं कुमारः स्फारसारगीः। जगौ सगौरवं युक्तं युक्तं नक्तश्चर त्वया ॥ ६८२ ॥ परं पुराप्युपगुरु प्रपेदे नियमो मया । परित्याज्यस्य राज्यस्य प्राज्यपाप्ममयवतः ॥ ६८३ ।। यमश्च नियमश्च दौ विरादौ तीव्रदुःखदौ । किन्त्वायुःमांत एवैकः परस्त्वांजन्मतोऽनिशम् ।। ६८४ ॥ तद्येन नैव' नियमः कचिद् भज्येत 'भो ! मम । तदोदिशापि दुःसाधं द्राक्'साधो! साधये यथा ॥ ६८५ ॥ यातुधानोऽभ्यधात् क्रोधाद्रे सुधांभिदधासि किम् । माक् मार्थनां व्यर्थयसेऽन्यां च कारयसे मया ॥ ६८६ ॥रे तद्राज्यं परित्याज्यं यत्र 'युद्धादिपातकम् । राज्ये त्रि श्रीश्राद्धविधिप्रकरणम् 99

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134