Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 22
________________ प्रीणयामास सा सर्वांगीण नैपुणात् । तथा यथामुना सैव चक्रे चामर हारिणी ॥ ४८८ ॥ सेयं तव सवित्री भो भवांतरगतेव तु । रूपस्वरूपादिभिदा 'प्रत्यभ्यज्ञायि' न' त्वया ।। ४८९ ।। त्वां तु' प्रत्यभिजज्ञौ सा हिया लोभाश्च नभ्यधात् । अहो लोभस्य साम्राज्यं सर्वागीणर्मभंगुरम् ॥ ४९० ॥ धिग् धिक् पण्यांगना पापकर्म दुष्कर्मसीमगम् । मात्रा यत्रार्थमात्रार्थ पुत्रो ज्ञात्वापि काम्यते ॥ ४९१ ॥ निंद्या निद्यादपि त्याज्यास्त्याज्यादपि पण स्त्रियः । स्थाने विज्ञैर्विनिर्दिष्टा यासां दुःशीलतेदृशी ॥ ४९२ ॥ विषादविस्मया॑यत्तचित्तस्तमवदत्ततः । श्रीदत्तस्त्रिर्जगद्वेत्तरेतद्वेत्ति कथं कपिः ॥ ४९३ ।। साधो ! साधुरिवोद्ध कूपे ततः स मे । कथं च मानुषीं भाषां भाषतेऽथाभ्यधादृषिः ॥ ४९४ || यस्तदा ते पिता सोमश्रियं ध्यायन् पुरं विशन् । अकांडकांडघातेन मृतः स व्यंतरोऽभवत् ।। ४९५ ।। वनाद्वनं परिभ्राम्यन् भृंगवच्चित्तरंगवान् । दैवादत्रागतो' मात्रा - सक्तं स त्वामवैक्षत ।। ४९६ ॥ सोऽवतीर्य लवंगांगे' त्वां तथा प्रत्यबूबुधत् । सूनोः 'पिता' हिताकांक्षी भवांतरगतोऽपि हि ॥ ४९७ ॥ स चैनां प्राग्भवप्रेम्णा कपिरूपेण सांप्रतम् । यास्यत्यारोप्य पृष्ठे द्राक् तव पश्यत एव भोः ॥ ४९८ ॥ वदत्येवं देव ताम् । सिंहोंsबिकामिवारोप्य पृष्ठे स्वेष्टं कपिर्ययौ ॥। ४९९ ।। मोहविस्फूर्जितमहो अहो भवविडंबना | ब्रुवन्नेवं शिरो धुन्वन् सोऽगानीत्वा 'गृहेऽगजाम् ॥ ५०० ॥ तावत्सुवर्णरेखा केयंकिया प्रनिता जगुः । दास्योऽनुमत्य लक्षार्द्ध' श्रीदत्तस्तां वनेऽनयत् ॥ ५०१ ॥ आहातुं तां तया दास्यः महिताः कापि हट्टके । दृष्ट्वोपविष्टं श्रीदत्तं पृष्टवत्यः' ससंभ्रमम् ॥ ५०२ ।। सुवर्णरेखा कुत्रेति' श्रीदत्तोऽप्यवदत्तदा । को वेत्ति कुत्र यातेति तस्या अनुचरोऽस्मि किम् ॥ ५०३ ॥ १ सर्वच || गवाय 'दौष्पपेटीभिश्रेटीभिः कथिते तथा । रोषेण राक्षसीदेश्या सा वेश्यांग्रे नृपं ययौ ॥ ५०४ ॥ मुषिता सुषितास्मीत्युचैः चक्रुषी च सा । किमेतदिति राज्ञाय पृष्टां भाषिष्ट कष्टभृत् ॥ ५०५ ॥ सुवर्णरेखां' साक्षान्मे' सुवर्णपुरुषं 'प्रभो! । श्रीदत्तः काप्यपाहार्षित् पश्यनोहरशेखरः ॥ ५०६ ॥ तस्याश्वोरिकेयमुष्ट्रस्येवातर्येति विस्मितः । ततः श्रीदत्तमाहाय पृष्टव्यं पृष्टवान्नृपः ॥ ५०७ ॥ व्यक्तं तदानीं नांदत्त श्रीदत्तः किंचिदुत्तरम् । न कश्चित्सत्यमप्युक्तमिदंमंतेति चिंतयन् ॥ ५०८ ॥ यतः–“असंभाव्यं न वक्तव्यं प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं यथा तरति सा शिला ॥ ५०९ ।। " दुष्कर्मणैव नरके' कारायां' चिक्षिपेऽय सः । राज्ञा रुष्टेन तद्भांडशाले मुद्राप्यदाप्यत ॥ ५१० ॥ अक्षिप्यत च चेटीषु' तत्पुत्री निजमंदिरे । विधात्रेवॉवनीभर्त्रा' सत्रा 'मित्रात्मता कुतः ॥ ५११ ॥ अनुक्त्या वात्ययेर्वाभूद्भूपकोपाग्निदीपना । यथार्थमेव तद् वच्मि ' जातु ' भद्रं भवेत्ततः ॥ ५१२ ॥ ध्यात्वेत्यरक्षकैर्विज्ञापित॑स्तेन तथा नृपः । चारात्कृष्ट्वा तममाक्षीत् ' सोऽप्याख्यत्तां कपिर्ललौ ॥५१३॥ ततः' सर्वे' हसंतिस्म'शंसंतिस्म च विस्मिताः । सत्यं कीदृगहो प्रोक्तमहो दुष्टस्य धृष्टता ।। ५३४ ।। कोपकमेण च क्षिप्रं राशादिष्टो' वधाय सः । रोषस्तोषश्च महतां तत्कालं हि फलेग्रहिः ॥ ५१५ ॥ सौनिकैरिव गौर्भूभृद्भटैरत्युद्भटैः स्फुटम् । बधस्थानं नीयमानः स चेत्यंतरंचिंतयत् ।। ५१६ ।। पुत्रीसेवित्रीभोगेच्छामित्रद्रोहादि पातकम् । ध्रुवं मेऽत्रैव फलितं धिग् दुर्दैवदुरंतताम् ।। ५१७ ।। किमिदं सत्यवादेऽपि निःसमं त्वसमंजसम् । विधिं विरुद्धं रोद्धुं वा कः क्षमः क्षुभितब्धिवत् ॥ ५१८ ।। यतः–“ धारिज्जइ इंतो जलणिही वि' कल्लोलभिन्नकुलसेलो । गहु' अण्णजम्माणम्मिअ, सुहासुहो' दिव्वपरिणा १ राक्षसदृशी । २ पुस्कारं कृतवत्री 3 चोरचूडामणिः । ४ फलेग्रहिः सफलः । ५ सवित्री माता | · मो ।। ५१९ ।। " तस्य पुण्यैरिवकृष्टो' राष्ट्रांतर्विहरंस्तदा । केवली' मुनिचंद्राहः पुनीतेस्म वनांतरम् ॥ ५२० ॥ उद्यानपालविज्ञप्तः क्ष्मापालः सपरिच्छदः । गत्वा नत्वा ययाचे' तं देशनां प्रातराशवत् ॥ ५२१ ॥ गुरुर्ज जगद्वंधुर्नधर्मो यस्य नो नयः । तस्य का देशना देश्या मणिमाला' करिव ॥ ५२२ ॥ संभ्रांतः क्षोणिकांतस्तं माहिर्मनयी कुतः । तेनोक्तं सत्यवक्तुः श्रीदत्तस्य कुरुषे नु किम् ॥ ५२३ ।। ततः श्रीदत्तमीहाय्य हीणः क्षोणीदुरीदरात् । निवेश्य 'स्वांतिके यावत्मोचेऽसौ सत्यवाकथम् | ॥ ५२४ ॥ वहन् सुवर्णरेखां स तावदीगात् एवंगमः । तामुत्तार्य' निविष्टश्च सर्वैर्दृष्टश्च कौतुकात् ।। ५२५ ॥ श्रीदत्तः सत्यवादीति नृपाद्यैः श्लाघितस्ततः । पृष्टश्वाशेषवृत्तांतः प्रभुणा प्रत्यपाद्यत ॥ ५२६ ॥ श्रीदत्तश्च ततः पृच्छां चक्रे वक्रेतराशयः । कुतः पुत्र्यां सवित्र्यां चानुरागोऽजनि में प्रभो ! ॥ ५२७ ॥ गुरुः प्रोचे प्राच्यजन्मसंबंधात्तं पुनः शृणु । आसीत्पंचालदेशांतः कांपिल्यपुरपत्तनम् ।। ५२८ ॥ अग्निशर्मा द्विजस्तत्र तत्पुत्रचैत्रनामभृत् | गौरीगंगाइये ' तस्य महेशस्येव वल्लभे ।। ५२९ ॥ नाम्ना मैत्रेण मित्रेण संत्रा चैत्रोऽन्यदा ययौ । याश्चार्थं कुंक देशे ' भिक्षेष्टा ' हि' द्विजन्मनाम् ।। ५३० ॥ बंभ्रम्यंतौ बहु द्रव्यमर्जयामासतुश्च तौ । चैत्रे सुप्तेऽन्यदा मैत्रो व्यततर्क कुतर्कहत् ॥ ५३१ ॥ सर्व द्रव्यं निहत्यैनं गृहामीति क्षणादयम् । उत्तस्थौ हंतुमप्येनं हा धिगर्थमनर्थदम् ॥ ५३२ ।। विवेकसत्यसंतोषत्रपाप्रेमकृपादिकान् । विध्वंसतेऽर्थलुब्धो द्राग् दुर्वायुरिव वारिदान ।। ५३३ ।। तत्रैव देवयोगाश्च विवेकादयादयम् । विध्वस्तयुक्तलोभांधतमसः समचितयत् ।। ५३४ ॥ विश्वस्तमित्रघातार्थं ' धिग् धिग् मामाततायिनम् । निंद्यं निंद्यतमेभ्योऽपि ध्या १ प्रभातभोजनवत् । श्रीश्राद्धविधिप्रकरणम 21

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134