Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 63
________________ द्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ता करणेऽपि जातु चौराग्न्याद्युपद्रवादेवद्रव्यादि विनश्यति, तदा तु चिन्ताकर्ता निर्दोष एवावश्यंभाविभावस्याप्रतिकार्यत्वात् । तथा देवगुरुयात्रातीर्थसङ्घार्चासाधर्मिकवात्सल्यस्नात्रप्रभावनाज्ञानलेखनवाचनादौ यद्यन्यसत्कधनं व्ययार्थ गृह्यते तदा चतुष्पञ्चसमक्षमेव ग्राह्यं । व्ययसमये च गुरुसङ्काद्यग्रे सम्यक् स्फुटं स्वरूपं वाच्यमन्यथा दोषः । तीर्थादौ च पूजास्नात्रध्वजपरिधापनिकाद्यवश्यकृत्येष्वन्यधनं न क्षेप्यं । तानि यथाशक्ति स्वयं कृत्वान्यधनं महापूजाभोगाङ्गाद्यर्चनादिना सर्वसमक्षं पृथगेव व्यायितव्यं । यदा बहुभिः सम्भूय यात्रावात्सल्यसङ्घार्चादि क्रियते, तदा येषां यथाभागस्तथा सम्यग् वाच्यमन्यथा पुण्यव्ययचौर्याद्यापत्तेः । तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते, तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेवं वाच्यं । यद्भवन्निमित्तमियद्दिनमध्ये इयद् व्यययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि सद्यः सर्वज्ञातं व्ययितव्यं । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीन - ताहेतुः । यदार्पम् – “ तवतेणे वयतेणे, रूवतेणे य' जे नरे । आयारभावतेणे अ, कुव्वई 'देवकिव्विसं ॥ १ ॥ " धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते, यथा यथा विशेष विलोक्यमानं धर्मस्थाने तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । सीदन् श्राद्धोऽपि तदुपष्टम्भेन सघनीभूतः सप्तक्षेत्रीमपि पुष्णाति । लोकेऽप्युक्तं " दरिद्रं भर राजेन्द्र ! मा समृद्धं कदाचन । व्याधितस्योषधं पथ्यं नीरोगस्य किमौषधम् १ ॥। १ ।। " अत एव प्रभावनासङ्घपरिधापनिका सम्यक्त्वमोदकलम्भनादौ निःस्वसाधर्मिकाणां विशिष्टमेव वस्त्वर्पयितुं युक्तमन्यथा धर्मावज्ञादिदोषः । युक्तौ निःस्वानां सस्वेभ्योऽधिकं दीयते । तदयुक्तौ सर्वेषां समं । श्रूयते हि यमुनापुरे ठकुरजिनदासेन धनिनां दर्शनमोदके एकैकः सौवर्णः, क्षिप्तौ निःस्वानां तु द्वौ द्वौ । मुख्यवृत्त्या पित्रादेः पुत्रादेश्व मिथोव्ययादिमाननं प्रागेव कार्य, को वेद क कथं कस्य वा मृतिः स्यादिति । यच्च मानितं तत् पृथगेव व्ययितव्यं । स्वयं क्रियमाणभोजनदानादिरूपन्ययमध्ये न क्षेप्यं, मुधा धर्मस्थाने दोषापत्तेः । एवं सति ये यात्रादौ भोजनशकटसंप्रेषणादिव्ययं सर्व मानितव्ययमध्ये गणयन्ति तेषां मूढानां न ज्ञायते का गतिः १ यात्राद्यर्थं हि यावन्मानितं तावदेवादि द्रव्यं जातं, तस्यान्येन स्वभोजनादौ व्यये कथं न देवादिद्रव्योपभोगदोषः । । एवञ्चाज्ञानप्रज्ञापराधादिना यः कश्चित्कचिदेवादिद्रव्योपभोगो जातः स्यात्, तत्प्रायवित्तपदे उपभोगसंभवानुसारेण कियत् कियत् स्वद्रव्यं देवज्ञानसाधारण सम्बन्धि करोति । अन्त्यावस्थायां च विशिष्य । अन्यत्र हि धर्मपदादौ शक्त्याद्यभावे व्ययः स्वल्पोऽपि भवतु । 1 तु सर्वं सम्यक् संशोध्यं विशिष्य च देवादिविषयं । यदवादिष्म—“ ऋणं ह्येकक्षणं नैव धार्यमाणेन कुत्रचित् । देवादिविषयं तत्तु कः कुर्यादतिदुस्सहम् ।। १ ।। " तस्मात् सर्वत्र वैव कार्य सुधिया । आह च - " प्रतिपच्चन्द्रं सुरभी, नकुलीं नकुलः पयश्च कलहंसः । चित्रकवल्लीं पक्षी सूक्ष्मं धर्म सुधीर्वेत्ति ।। १ ।। " इत्यलं प्रसङ्गेन अथ गाथोत्तरार्द्धव्याख्या - एवं जिनाच विधाय, दृढा नतु शिथिलाः पञ्च ज्ञानादय आचाराः, “ काले विणए बहुमाणे " इत्याद्यागमोक्ता यस्य सः । तथा आचारपञ्चकव्याख्यात्वस्मदुपज्ञादाचारमदीपग्रन्थाद् ज्ञेया । एवं विधस्य गुरोराचार्यादेः पार्श्वे प्रत्याख्यानं स्वयं यत्माक्कृतं तदेव विशिष्टं वा विधिनोच्चारयति, गुरुमुखेन प्रतिपद्यते इत्यर्थः । त्रिविधं हि प्रत्याख्यानविधानं आत्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च । तद्विधिश्वायं, चैत्ये देववन्दनार्थमागतानां स्ना· दिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितानां वसतौ वा चैत्यवन्नैषेधिकीत्रयाभिगमपञ्चकादियथार्हविधिना गत्वा सद्गुरूणां धर्मदेशनायाः प्राक् पश्चाद्वा यथाविधि पञ्चविंशत्यावश्यकविशुद्धं द्वादशावर्त्तवन्दनं दत्ते । महाफलं चेदम् यतः - “ नीआगोअं खवे कम्मं, उच्चागोअं निबंधए । सिढिलं कम्मगंटिं तु, वंदणेणं नरो करे ।। १ ।। तित्थयरत्तं सम्मत्तखाइअं सत्तमी तइआए । आउं वंदणएणं, बद्धं च दसारसीहेण || २ || ” शीतलाचार्यस्य वन्दनार्थागतविकालबहिःस्थितरात्रिजात केवलचतुभगिनेयानां प्राक्रुधा द्रव्यवन्दनं, तद्गिरा भाववन्दने तु केवलं । गुरुवन्दनं च त्रिधा । यद् भाष्यं, – “गुरुवंदणमह तिविहं, तं फिट्टा - थोभ-बारसावत्तं । सिरनमणाइसु, पढमं, पुन्नखमासमणदुगि बीअं ॥ १ ॥ तइअं तु छेदणदुर्गे, तत्थमिहो आइमं सयलसंघे । बीअं तु दंसणीण य, पयद्विआणं च तइअं तु ||२| " येन च प्रतिक्रमणं कृतं न स्यात्तेन विधिना वन्दनं दातव्यं । यद्भाष्ये“इरिआ कुसुमिणुसग्गो, चिइवंदणपुत्तिवंदणालोअं । वंदणखामणवंदण, संवरचउथोभदुसज्झाओ ॥ १ ॥ इरिआचिइवंदणपुत्तिवंदणं चरिमवंदणालोअं । वंदण खामणचउथो भदिवसुसग्गो दुसज्झाओ ||२||” अनयोर्व्याख्या - “ ईर्यापथिकी प्रथमं प्रतिक्रम्यते, तदनु ‘“ कुसुमिणेत्यादि ” कायोत्सर्गः शतोच्छ्रासमानः, कुस्वमाद्युपलम्भे त्वष्टोत्तरशतोच्छ्रासमानस्ततश्चैत्यवन्दना, ततः पुत्तित्ति' मुखवस्त्रिकाक्षमाश्रमणपूर्व प्रतिलेख्या, ततो वन्दनकद्वयमालोचनं च पुनर्वन्दनकद्वयं क्षामणकं च, पुनर्वन्दनकद्वयं 'संवरत्ति' प्रत्याख्यानं च, ' चउथोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि ततः सज्झायसं दिसावडं सज्झायकरजं " इति क्षमाश्रमणद्वयं दत्वा स्वाध्यायः कार्यः । इति प्रातस्त्यवन्दनकविधिः । प्रथममीर्यापथिकी प्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्व मुखवस्त्रिका प्रतिलेखनं, वन्दनकद्वयं, “ दिवसचरिमं " इति प्रत्याख्यानं च, ततो वन्दनकद्वयमालोचनं च, वन्दनकद्वयं क्षामणं च, ' भगवन् ' इत्यादि थोभवन्दनानि चत्वारि, ततो “ देवसि अपायच्छित्तेत्ति” कायोत्सर्गः, ततः प्राग्वत् " 62 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134