Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 71
________________ स्वभाग्यदशाया हीनत्वमेवानुभवति, तदा कस्यचिद्भाग्यवतः सुयुक्त्या कथमप्याधारं गृह्णीयात् । काष्ठाधारेण हि लोहपाषाणाद्यपि तरति । श्रूयते हि भाग्यवानेकः श्रेष्ठी, तस्य वणिक्पुत्रो दक्षः । श्रेष्ठिसान्निध्याद्धनी क्रमान्निर्धनः । श्रेष्ठिनि मृते तत्पुत्रेभ्यः सान्निध्यमीहते । ते तु तं निर्धनत्वादालापयन्त्यपि न । ततस्तेन द्वित्राप्तसमक्षं श्रेष्ठिजीर्णवाहिकायां सहस्रटकद्वयं श्रेष्ठिनो मया देयमिति रहः कथमपि स्वहस्तेन लिलिखे । अन्यदा तद् दृष्ट्वा तैस्तन्मार्गणे तेनोक्तं, – “ व्यवसायार्थं कियद्धनमर्प्यतां, यथा शीघ्रं युष्मदीयं देयं दीयते । ” ततस्तैः स्वद्रव्येण वाणिज्यमकार्यत । बहुधनार्जने तैः स्वलभ्यमार्गणे तेन साक्षिपूर्वं सम्यक्स्वरूपं प्रारूपि । एवं तदाधारेण स महर्द्धिर्जज्ञे । “ निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रमित्वं च पञ्च श्रीसहचारिणः ॥ १ ॥ " इत्युक्तिर्ह्यसत्प्रकृत्यपेक्षा तेन भूरिद्रव्यलाभेऽपि न गर्वादि कुर्वीत । यतः - “ विपदि न दीनं संपदि न गर्वितं सव्यथं परव्यसने । हृष्यति चात्मव्यसने येषां चेतो नमस्तेभ्यः ॥ १ ॥ जं जं खमइ समथ्यो, धणवंतो जं न गव्विओ होइ । जं च सविज्जो नमिओ, तिहिं तेहिं अलंकिआ पुहवी || २ || " न च केनापि सह स्वल्पमपि कलहायेत, विशिष्य च महद्भिः । यतः – “ वर्जयेत्कासवांचौर्य, निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं, धनवानन्यतः कलिम् || १ || अध्थवइणा' निवड़णा, परकवया बलवया पयंडेण । गुरुणा नीएण तवस्सिणा य सह वज्जए वायं ॥ २ ॥ " जातु महता सहार्थादिसम्बन्धः स्यात्तदा प्रणिपातादिनैव स्वकार्यसिद्धिर्नतु बलकलहादिना । पञ्चाख्यानेऽप्याख्यातं, – “ उतमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, स्वतुल्यं तु पराक्रमैः ॥ १॥" धनार्थी धनवांश्च विशिष्य क्षमामाद्रियेत् । क्षमा हि श्रीवृद्धिक्षयोः क्षमा । तदाह – “ होममन्त्रबलं विमे, नीतिशास्त्रबलं नृपे । राजा बलमनाथानां वणिक्पुत्रे क्षमा बलम् ॥१॥ अर्थस्य मूलं प्रियवाक् क्षमा च, कामस्य वित्तं च वपूर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ||२||" दन्तकलहस्तु सर्वत्र सर्वथा परिहार्यो, यदुक्तं श्रीदारिद्र्यसंवादे – “गुरवो यत्र पूज्यन्ते, वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ॥ १ ॥ द्युतपोषी 'निजद्वेषी धातुवादी सदालसः । आयव्ययस्यानालोची' तत्र तिष्ठाम्यहं सदा || २ || " लभ्यमार्गणाद्यप्यकठिनानिन्दितवृत्त्यैव युक्तमन्यथाऽधमर्णदाक्षिण्यलज्जादिलोपेन धनधर्मप्रतिष्ठाहान्याद्यापत्तेः । अतः स्वयं लङ्घनेऽपि परलङ्घनादि वर्ज्यं । स्वयं भुक्त्वा परळङ्घनं तु सर्वधानई । भोजनाद्यन्तरायस्य ढण्ढणकुमारादिवद्भृशं दुस्सहत्वात् । यावत्कार्यं साम्ना सिद्ध्यति न तावदसाम्ना, विशिष्य च वणिगादीनां । वदन्त्यपि - " यद्यप्युपायाश्चत्वारः, प्रथिताः साध्यसाधने । संज्ञामात्रं फलं तेषां सिद्धिः साम्नि प्रतिष्ठिता || १ || मार्दवेनैव वश्याः स्युर्येऽपि तीक्ष्णाः सुनिष्ठुरा: । जिह्वामुपासते पश्य दन्ताः कर्मकरा इव || २ || ' लभ्यदेयादिसम्बन्धे भ्रान्तिविस्मृत्यादिवैमत्योत्पत्तावपि मिथः सर्वथा विवादं न कुर्यात्, किन्तु न्यायकरचतुरचतुष्पश्चाप्तप्रतिष्ठामाप्तपुरुषा यथा कथयन्ति तथा मान्यमन्यथा विवादभङ्गाभावात् । यतः - "परैरेव निवर्त्येत, विवादः सोदरेष्वपि । विरळात्कङ्कतः कुर्यात्, अन्योऽन्यं गूढमूर्द्धजान् ||१|| ” तैरप्यपक्षपातेन मध्यस्थतयैव न्यायः कार्यः । सर्व सम्यक् परीक्ष्य 'स्वजनसाधार्मिकादिकार्ये न तु सर्वत्र । यतो निर्लोभतयैव सम्यक् न्यायकरणेऽपि यथा विवादभङ्गमहत्त्वादिर्गुणस्तथा दोषोऽपि महान् । विवादापनोदाय कस्याप्यसदपि देयं क्रियते, अन्यस्य च सदपि भज्यते सम्यगपरिज्ञानादिना | श्रूयते कोऽपि महर्द्धिः प्रसिद्धश्रेष्ठी महत्त्वबहुमानार्थी विझविधवमान्यपुत्र्या निवार्यमाणोऽपि सर्वत्र न्यायकरणार्थं व्रजति । अन्यदा पुत्र्या पितुर्बोधाय कूटं झटकं मण्डितं । “ प्राग् न्यासीकृते स्वर्णसहस्रे मदीयेदत्तेऽहं भोक्ष्ये" इत्युक्त्वा लङ्गयन्ती कथमपि न पर्यवस्यति । ' तातपादा वृद्धा अपि मदने लुब्धा ' इत्यादि यत्तद्वदति च । ततो हीणेन पित्रा न्यायकरा आकारितास्तैर्विमृश्य स्वर्णसहस्रं श्रेष्ठिसकाशात्तस्यै दापितं पुत्रीत्वाद् विशिष्य बालविधवत्वादिना च । ततः श्रेष्ठी कथं मुधैव धनमनया गृहीतं ? जनेऽपवादादि च दुःसहं जातमिति खिन्नः । क्षणान्तरे पुत्र्या सम्यगुक्त्वा स्वर्ण पश्चादर्पितं । ततः श्रेष्ठी हृष्टः प्रबुद्ध । प्रायो न्यायकरत्वं तत्याज । तस्मान्न्यायकरैरपि न्यायो यत्र तत्र यथा तथा न कार्यः । इति न्यायकरज्ञातम् । यथा परमत्सरं कापि न कुर्यात् । कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण भवद्वयेऽपि दुःखाकरेण ? | आचक्ष्महि च—“ यादृशं चिन्त्यतेऽन्यस्य तादृशं स्वयमाप्यते । इति जानन् कथं कुर्यात् परवृद्धिषु मत्सरम् ? ॥ १ ॥ तथा धान्यौषधवस्त्रादि वस्तुविक्रयार्त्तावपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत्सर्वथा नाभिलषेत् ' नापि दैवाज्जातमनुमादेत, सुधा मनोमालिन्याद्यांपत्तेः । “ यथा द्वौ सुहृदौ घृतचर्मादित्सया यान्तौ दृद्धया रन्धन्या तादृग् मनो ज्ञात्वा घृतार्थी गृहेऽन्तश्वर्मार्थी तु बहिभर्जितौ । वलने व्यत्ययः कृतः । ताभ्यां प्रश्ने मनः शुद्धिमालिन्ये हेतू उक्तौ । तदाहु:“ उचिअं मुत्तूण कलं, दव्वाइकमागयं च उकरिसं । निवडिअमवि जाणंतो, परस्स संतं न गिहिज्जा ॥ १ ॥ " अस्या व्याख्या—उचितकला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा । 'व्याजे स्याद् द्विगुणं वित्तं' इत्युक्तेर्द्विगुणद्रव्यत्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि, आदिशद्वात्तत्तद्गतानेकभेदग्रहः, तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः संपन्नो य उत्कर्षोऽर्थदृद्धिरूपः, तं मुक्त्वा शेषं न गृह्णीयात् । कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति । नत्वेवं चिन्तयेत्सुन्दरं जातं यत्पूगफलादीनां क्षयोऽभूदिति । तथा निप 70 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134