Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 17
________________ ॥ २४७ ॥ सख्या प्रख्याप्यमानेषु नामग्राहं नृपेष्विति । वत्रे जितारिरेताभ्यामिदुमत्याऽजराजवत् ॥ २४८ ॥ - लकस् । स्पृहोत्सुकत्वसंदेहदर्पानंदविषादिताः । त्रपानुतापासूयाश्च तदन्येऽन्वभवन्नृपाः ॥ २४९ ॥ स्वयंवरे नृपाः sपि केsपि स्वागमने परे । स्वकदैवे भवेऽप्येके तदा निर्वेदमासदन् ॥ २५० ॥ उपायंस्त मशस्तेऽह्नि महेशस्ते महामहैः । धनसैन्यप्रदानाद्यैर्बहुसन्मानमाप च ।। २५१ ।। पुण्यैर्विना मनोऽभीष्ट प्राप्तिर्नेति सुनिश्चितम् । महतोऽपि हताशा यत्तत्रान्ये भूभुजोऽभवन् ।। २५२ ।। ईष्यत्कर्षात् द्विषंतोऽपि तं भूयांसोऽपि तेऽद्भुतम् । न किंचिद्विमचकुः क जितारेर्वा पराभवः || २५३ ॥ सरतिप्रीतिकंदर्प दर्प चपरभूचजाम् । विडंनयभयं ताभ्यां भ्राजिष्णुः स्वपुरं ययौ ॥ २५४ ॥ ततः कृताभिषेके ते देव्यौ दिव्याविर्वापरे । राशोऽतिमान्ये जज्ञाते तुल्यमेव दृशाविव ।। २५५ ॥ किंचित्तथापि सापत्न्यात्ताभ्यां मेनेऽधिकोनता । एकद्रव्याभिलाषो हि प्रेमस्थेमानमानयेत् ॥ २५६ ॥ हंसी च सरला नित्यं प्रकृत्या सारसी पुनः । किंचिन्मायाविनी मायां निर्माति स्मांतरांतरा ॥ २५७ ॥ राजानं रंजयंत्येवं दृढं स्वीकर्म निर्ममे । हंसी तु शिथिलीचक्रे राशो मान्यैव चजिनि || २५८ || अहो महीयसी मूढात्मता कापीह देहिनाम् । यन्मायया मुधात्मानमधः कुर्वत्यमुत्र ते ॥ २५९ ॥ नृपोऽन्यदान्वितस्ताभ्यां वीक्षते स्म गवाक्षगः । नृसंघमनघं मार्गे संचरंतं पुराद्बहिः || २६० ।। अमाक्षीच्च नरं 'सोप्याख्यत् देव ! यात्ययम् । विमलाद्विमहातीर्थ संघः शंखपुरोगतः ॥ २६१ ॥ ततः कौतुकतः संघमध्ये भूप उपेयिवान् । श्रुतसागरसूरींश्च तत्र दृष्ट्वाभ्यवंदत ।। २६२ ।। तान् पृष्टवांश्च शिष्टात्मा विमलाद्रिरिहास्ति क: ? । कं कवा १ प्रेमास्विरसम् " हेतुं तीर्थता तस्य माहात्म्यं किं नु तस्य च ।। २६३ ॥ क्षीराश्रवमहालब्धिपात्रं तेऽप्यदिशभिदम् । धर्मादेवेष्टसिद्धिः स्याद्विश्वे सारं स एव तत् ।। २६४ ॥ धर्मेष्वप्याईतो धर्मस्तस्मिन्नपि सुदर्शनम् । यद्विना' व्रतकष्टाद्यमेवकोशतरूयते ।। २६५ ।। तच्च तत्त्वत्रयीरूपं' तस्यां मुख्यः पुनर्जिनः । जिनेष्वादिर्युगादीशस्तीर्थेऽतिमहिमास्य च ॥ २६६ ॥ विमलाद्रिश्व तीर्थानां प्रथमं तीर्थमीरितम् । तस्य नानाभिधानानि भिन्नभिन्नावदाततः ।। २६७ ॥ यदाहुः - “ सिद्धक्षेत्रं तीर्थराजो मरुदेवो भगीरथः । विमलाद्रिर्बाहुबली सहस्रकमलस्तथा ।। २६८ ॥ तालध्वजः कदंबश्च शतपत्रो नगाधिराट् । अष्टोत्तरशतकूटः सहस्त्रपत्र इत्यपि ।। २६९ ।। ढंको लौहित्यः कपर्दिनिवासः सिद्धिशेखरः । पुंडरीकस्तथा मुक्तिनिलयः सिद्धिपर्वतः ।। २७० ।। शत्रुंजयश्चेति' नामधेयानामेकविंशतिः । गीयते तस्य तीर्थस्य कृता सुरनरर्षिभिः ।। २७१ ।। " चतुर्भिः कलापकम् ॥ इत्यस्यामंत्रसर्पिण्या॑ नामा॒न्य॑स्यैकविंशतिः । कानिचित्तेषु भूतानि भावीन्यथ च कानिचित् ।। २७२ ।। एषु शत्रुंजयेत्यख्या भata भवांतरे । निर्मास्यते ऽनुभूतार्थेत्यं श्रौष्म ज्ञानिसंनिधौ ॥ २७३ ॥ महाकल्पे श्रीसुधर्मस्वाम्युपज्ञे पुनः स्मृतम् । शतमष्टोत्तरं ' नाम्नामस्य तीर्थस्य तद्यथा || २७४ || विमलाद्रिः सुरशैलः सिद्धिक्षेत्रं महाचलः । शत्रुंजयः पुंडरीकः पुण्यराशिः श्रियः पदम् ॥ २७५॥ सुभद्रः पर्वतेंद्रच दृढशक्तिरकर्मकः । महापद्मः पुष्पदंतः शाश्वतः सर्वकामदः ।। २७६ ।। मुक्तिगेहं महातीर्थं पृथ्वीपीठं प्रभोः पदम् । पातालमूलः कैलाशः क्षितिमंडलमंडनम् ॥ २७७ ।। इत्यादि । अस्यामेवावसर्पिण्यां ' चतुर्णामादितोऽर्हताम् । जाताऽत्र समवसृतिरद्याप्येकोनविंशतेः || २७८ || भाविनी नेमिवर्णानामनंतानां च सिद्धयः । भूता अपि भवित्र्यश्व सिद्ध १ ध्यायते । क्षेत्रमिदं ततः ।। २७९ ॥ युग्मम् || अस्य सिद्धगिरेः श्लाघां विश्वश्लाघ्या जिना अपि । कुर्युर्महाविदेहस्था भव्याः शश्वत्स्मरंति च ।। २८० ।। तीर्थेऽत्र शाश्वतमाये यात्रा स्नात्रार्चना तपः । दानादि चानंतफलं सुस्थाने बीजवद्भवेत् ।। २८१ ।। उक्तंच–“ पल्योपमसहस्रं च' ध्यानांल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसंमितम् || २८२ ।। शत्रुंजये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः ।। २८३ ।। एकैकस्मिन्पदे दत्ते पुंडरीकगिरिं प्रति । भवकोटिकतेभ्योऽपि पातकेभ्यः प्रमुच्यते ॥ २८४ ॥ अन्यत्र पूर्वकोटया यत् शुभध्यानेन शुद्धधीः । प्राणी बध्नाति सत्कर्म' मुहूर्त्तादिह तद् ध्रुवम् ।। " २८५ ।। " जं कोडीए पुण्णं कामिअआहारभोइआए उ । तं लहइ तिथ्थपुण्णं एगोवासेण सेतुंजे ।। २८६ ।। जं किंचि नामतिथ्यं सग्गे पायालि माणुसे लोए । तं सव्वमेव दिठं पुंडरिए वंदिएसंते ।। २८७ ।। पडिलंभंते संघ दिदिट्ठे असाहु सित्तुंजे । कोटिगुणं च अदिट्ठे दिट्ठे अनंतमं होइ || २८८ || नवकारपोरिसीए पुरिमट्टेगासणं च आयामं । पुंडरिअं च सरंतो फलकंखी कुणइ अभत्त ।। २८९ ।। छठ्ठठ्ठमदसमदुवालसाणमास मासखमणाणं । तिगरणसुद्धो' लहई सित्तुंज्जं संभरंतो अ ।। २९० ॥ नवितं सुवण्णभूमी' भूसणदाणेण अन्नतिथ्येसु । जं पावइ पुण्णफलं पूआतवणेण सित्तुंजे ॥ २९१ ॥ धूवे पस्तुवनासो मासरकवणं कपूरधूवंमि । कत्तिअमासरकवणं साहू पडिलाभिए लहइ ।। २९२ ।। इत्यादि । " सर्वाण्यन्यानि तीर्थानि महातीर्थमिदं पुनः । पराणि स्युरपां स्थानान्यब्धिरेव त्वपानिधिः ॥ २९३ ॥ किं तस्य जन्मना जीवितव्येन च धनेन च । कुटुंबेन च तत्तीर्थयात्रातः स्वार्यकृन्न यः ॥ २९४ ॥ जातोऽप्यजातः स पुमान् जीवनपि न जीवति । अतिविशोऽप्यविशश्च तत्तीर्थ नतवान' यः ।। २९५ ।। दानशीलतपस्तीत्रक्रियादि यदि दुःशकम् । सुशकं श्रीश्राद्धविधिप्रकरणम 16

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134