Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
णतादर्शनाद घृतपात्रस्याधः कृष्णचित्रककुण्डलिकां निश्चित्य केनापि च्छद्मना तां गृहीतवान् । एवं कपटकूटतुलामानव्यवहारादिभिः पापानुबन्धिपुण्यबलेन व्यवसायपरस्य रङ्कष्ठिनो मिलितं बहु द्रव्यं । एकदा कश्चित्स्वर्णसिद्धिकर्ता मिलितः। सोऽपि कपटवृत्त्या वञ्चितो गृहीता सुवर्णसिद्धिः । एवं त्रिविधसिद्ध्यानेककोटिधनेश्वरो जातः । परमन्यायार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चादनसंपच्युत्सेकतया च' कापि तीर्थे। सत्पात्रेऽनुकंपास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटननवनवकरवर्द्धनांहङ्कारपोषाऽन्यधनिस्पर्धामत्सरादिभिस्ता रमां कालरात्रिरूपां लोकायादर्शयत् । अथान्यदा स्वसुतारत्नखचितककृतिकायां राज्ञा स्वपुत्रीकृत मार्गितायां पश्चात्मसभमपहृतायां तद्विरोधात्स्वयं म्लेच्छमण्डले गत्वा कनककोटीर्दत्वा मुद्गलान् समानयत् । तैर्देशभङ्गे कृते रकेन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षकान् रहोदानविभेद्य कूटप्रपञ्चः कारितः। पुरा हि राजा सूर्यवरमाप्तं दिव्यतुरगमारोहति तदनु सङ्केतितपुरुषैः पञ्चशब्दवादनं क्रियते । तुरगो व्योम्नि याति । तमारूढो नृपो वैरिणो हन्ति । सङ्ग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रभेदितपश्चशब्दवादकै राज्ञस्तुरगारोहणात्पूर्वमेव पञ्चशब्दनादः कृतः । तुरगः समुड्डीय गतः । शिलादित्यनृपः किङ्कर्त्तव्यतामूढस्तैर्निजघ्ने । तदनु सुखेन वलभीभङ्गः सूत्रितः । उक्तञ्च-" पणसयरीवासाई, तिमिसयाई अइक्कमेऊणं । विक्कमकालाउ तओ, वलहीभंगो समुप्पन्नो ॥१॥" मुद्गला अपि निर्जले पातयित्वा मारिताः । इति रङ्गश्रेष्ठिसंबन्धः । एवमन्यायवित्तविलासितं ज्ञात्वा न्यायेनार्थार्जने यतनीयं । यतः -" विहाराहारव्याहारव्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार, एव शुद्धो विलोक्यते ॥ १॥" व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सफलः । यद्दिनकृत्यकृत्-" ववहारसुद्धि धम्मस्स, मूलं सव्वनुभासए । ववहारेणं तु सुदेणं, अत्यसुद्धी जओ भवे ॥१॥ सुद्धणं चेव अत्येणमाहारो होइ सुद्धओ। आहारेणं तु सुद्धणं, देहसुद्धी जो भवे ॥२॥ सुद्धणं चेव देहेणं, धम्मजुग्गो अ जायई । जं जं कुणइ किच्चं तु, तं तं से सफलं भवे ।। ३ ।। अन्नहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ अ, धम्मं खिसावए जओ ॥४॥ धम्मखिंसं कुणंताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासि ॥५॥ तम्हा सव्वपयत्तेणं, तं तं कुज्जा विअरुणो । जेण धम्मस्स खिसं तु, न करे अबुहो जणो॥६॥" लोकेऽप्याहारानुसारेण पिण्डप्रकृतिबन्धो दृश्यते । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति । गवां पीतदुग्धाः पानीयात् दूर एव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्थाभुक्ताहारानुसारिप्रकृतिर्जायते । अतो व्यवहारशुख्यै सम्यगुपक्रम्यं । इति व्यवहारशुद्धि स्वरूपं ॥
तथा देशादिविरुद्धपरित्यागो, देशकालनृपादिविरुद्धवर्जनं । यदुक्तं हितोपदेशमालायां-" देसस्स य कालस्स य, निवस्स लोगस्स तहय धम्मस्स । वजंतो पडिकूल, धम्म सम्मं च लहइ नरो॥१॥" तत्र सौवीरेषु कृषिकर्म, लाटेषु सुरासन्धान देशविरुदं । अन्यदपि यद्यत्र देशे शिष्टजनैरनाचीर्ण तत् तत्र देशविरुद्धं । जातिकुलाद्यपेक्षया वानुचितं देशविरुद्धं, यथा ब्राह्मणस्य
दिविक्रयश्च । उक्तं हि तत्समये-"तिलवल्लघुता तेषां, तिलवच्छयामता पुनः । तिलवच्च निपीड्यन्ते, ये तिलव्यवसायिनः॥१॥" कुलमपेक्ष्य च चौलुक्यानां मद्यपानं देशविरुद्धं । अन्यदेशिकानां पुरस्तद्देशनिन्दाविधानादि वा देशविरुद्धं १। कालविरुद्धं त्वेवं शीतत्तौ हिमालयपरिसरेऽत्यन्तशीते, ग्रीष्म वत्यन्तजाङ्गले मरुस्थले, वर्षास्वत्यन्तपिच्छलपङ्काकुलेष्वपरदक्षिणसमुद्रपर्यन्तभागेषु, तथातिदुर्भिक्षे, मिथोनृपयविरोधे, धाव्यादिना मार्गरोधे, दुरुत्तारमहारण्ये, यामिनीमुखादिभयवेलायां वा तादृक्सामर्थ्यसहायादिदृढबलं विना प्रस्थानं प्राणधननाशाद्यनर्थकृत्करोति । यद्वा फाल्गुनमासाद्यनन्तरं तिलपीलनतिलव्यवसायतिलभक्षणादि, वर्षासु वा तन्दुलीयकादिपत्रशाकग्रहणादि, बहुजीवाकुलभूमौ शकटखेटनादि वा महादोषहेतुं करोति, तच्च
। राजादेर्दोषग्रहणं, राज्ञः संमतानामसंमाननं, राज्ञोऽसंमतानां सङ्गतिर्वैरिस्थानेषु लोभाद्गति(रिस्थानागतैः सह व्यवहारादि, राज्ञः प्रसादे स्वच्छन्देन राजकृत्येष्वपि विधिनिषेधकरणं, नागराणां प्रतिकूलाचरणं, स्वामिद्रोहादि च राजविरुद्धं । दुस्सहोदकं भुवनभानुकेवलिजीवरोहिण्यादेरिव । सा हि नैष्ठिक्यधीतस्वाध्यायलक्षापि विकथारसान्मुधा राड्या दुःशीलतादिवादिनी रुष्टनृपेण मान्योत्तमश्रेष्ठिपुत्रीत्वादिना जिहाच्छेदादिभिः खण्डशोऽकृता देशनिर्वासनादिदुःखिनी नानाभवेषु जिहाच्छेदादि सेहे ३ । लोकस्यनिन्दा, विशिष्य च गुणसमृद्धस्य । इयमात्मोत्कर्षश्च लोकविरुद्धौ । यतः-"संतेहिं असंतेहिं अ, परस्स किं पिएहिं दोसेहिं । अथ्यो जसो न लाइ, सोवि अमित्तो कओ होइ ॥१॥ सुहवि उज्जममाणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिनोवत्थी कसाया य ॥२॥ जइ संति गुणा नणु, अभणिआवि काहिंति अत्तउक्करिसं । अह तेवि न संति मुहा, अनुक्करिसेण किं तेण ॥३॥ मित्ता हसंति निदंति, बंधवा गुरुजणा उविखंति । पिअरोपि न बहु मन्नति, अप्पबहुमाणिणं पुरिसं ॥४॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥५॥ परनिन्दा महापापं, परपापान्यहो यतः । अकर्तृत्वेऽपि लुम्पन्ति, तत्कत्री जरतीं यथा ॥६॥" सुग्रामे सुन्दरोगी, धर्मी, यात्रिकादीनां भोजनवासस्थानायुपकारी । तत्मातिवेश्मिकी जरद्विषी तं निन्दति, यात्रिका विदेशे म्रियन्ते, तमासादिलोभात्तानेष सत्यापयतीत्यादि । अन्यदा क्षुत्तृषार्तः कार्पटिको गृहेऽभावादाभीर्याः तक्रमानाय्य पायितो मृतः, आभीराशिरःश्रीश्राद्धविधिप्रकरणम्
77

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134