Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
कः क्षमते तरीतुम् ॥ ३९१ ॥ इत्युक्त्वा'द्रविणं नीत्वा श्रेष्ठी कांचिद् दिशं रहः । प्रययौ किं न वा' कुर्युः पुमांसः प्रेयसीकृते ॥३९२ ॥ यतः-" दुष्कराण्यपि कुर्वती प्रियाः प्राणभियाकृते । किं नॉन्धि लंघयामासुः पांडवा द्रौपदीकृते ॥ ३९३ ॥" गृहे स्थितस्य जज्ञेऽथ श्रीदत्तस्य सुताजनुः । अवाप्यांवसरं'मायः प्रभवेदेवमय॑हो ॥ ३९४ ॥ श्रीदत्तश्च तदादध्यौ धिग्मे दःखपरंपराम् । पित्रोर्वियोगः ' श्रीहानिर्देषी राजांगजाजनुः ॥ ३९५ ॥ परविनैकसंतोषि दैवर्मद्यापि कई किम् । इति खिन्नात्मनस्तस्य व्यतीयुर्दिवसा दश ॥ ३९६ ॥ श्रीदत्तः'शंखदत्तेन 'सुहृदा वादितस्तदा। खिद्यस्व ' मात्मश्रीहेतोर्यात्रां' यावो महांबुधौ ॥३९७ ॥ तवार्द्ध च ममा च'श्रीदत्तोऽपि प्रपद्य 'तत् । स्वभायो मालयित्वा च स्वेभ्यस्तां पुत्रिकामपि ॥ ३९८ ।। सज्जीभूयांचटद्यानपात्रे मित्रेण संयुतः। सिंहलद्वीपमाप्तश्च नव वर्षाणि तस्थिवान् ।। ३९९ ॥ विभाव्य भूरिलाभं च कटाहद्वीपमप्यम् । जग्मतुस्तस्थतुश्च द्वे वर्षे 'हर्षेण वाणिजौ ॥४०० ।। अर्जयामासतुश्चष्टिौ द्रव्यकोटीः क्रमेण' तौ । कर्मोपक्रमयोोंगे किमाश्चर्य 'धनार्जने ॥ ४०१ ।। पण्यैः पुण्यैरिवागण्यैः करीं ट्रैश्च गिरींद्रवत् । भूरीन् प्रपूर्य तौ पोतान्' प्रीतो पश्चात्मचेलतुः॥४०२।। अट्टालकस्थौ मंजूषां' तरतीमेयैती जले । दृष्ट्वान्यदा नाविकैस्तौ ग्राहयामासर्दुतम् ।। ४०३ ॥ ग्राह्य मध्यस्थमामित्थं मध्यस्थसाक्षिकम् । उदजीर्घटतां तां च यावत्तावर्दपश्यताम् ॥ ४०४ ॥ निंबपत्रावृतां कन्यां नीलांगी गतचेतनाम् । सर्वः किमेतदित्युक्तौ शंखदत्तोऽभ्यधत्त तान् ॥४०५।। युग्मम् ।।दष्टां दुष्टाहिना ह्येतां कोऽपि पावीवहज्जले। इत्युक्त्वांछोव्य तां मंत्रांभोभिः स'उदजीजिवत ॥ ४०६ ॥ अवदच मुदा प्रत्युजीवितेयं मयैव भोः । एना रूपश्रिया मेनां परिणेष्येऽहमेव तत ।। ४०७ ।।
१ पुत्रीजन्म । २ प्रारब्धोद्योगयो: योगे । ३ आगतोम् । ४ उद्घाटमासतुः । । मैना असरसम् । श्रीदत्तोऽपि तदावादीन्मैवं वादीर्यदादितः। मयार्दमूचे शेषादपदे त्वादत्स्व मे धनम् ॥ ४०८ ॥ एतां तु'स्वीकरिष्येऽहमेवं विवदमानको । तौ प्रीति मैदनफलाभिलाषादपि वेमतुः ॥ ४०९ ।। उक्तंच-" रमणीं विहाय न भवति विसंहतिः स्निग्धबधुजनमनसाम् । यत्कुंचिका सुदृढमपि'तालकबंधं द्विधा'कुरुते ॥ ४१०॥" विवादसादरौ वादिप्रतिवादिवदुद्धरौ। निर्यामकेण। पोक्तौ तौ स्वस्थौ संपति तिष्ठतम् ॥ ४११ ॥ सुवर्णकूलाख्यं वेलापुरं । पोतः प्रयास्यति । दिनद्वयेन विवों तत्र निर्णेष्यते बदः॥ ४१२ ॥ स्वस्थीभूते शंखदत्ते श्रीदत्तोऽथ व्यचिंतयत् । प्रत्युज्जीवनतस्तैरप्येषांस्यैव हि दास्यते ॥ ४१३ ।। अनागतं ततः किंचित्सूत्रयामीति मंत्रयन् । दुराशयः स्वकं मित्रं भृशं विसंभमानयत् ।। ४१४ ॥ रात्रौ च यानपात्रस्याहालके स निविष्टवान् । मित्रमाचष्ट भोश्चित्रं पश्याष्टोस्पस्तिमिव्रजेत् ॥ ४१५॥ तत्रैत्य कौतुकाच्छंखदत्तोऽप्यैक्षिष्ट यावता । मित्रेणामित्रवत्तावत्पयस्यांपात्यतांबुधौ ।। ४१३ ॥ अद्रष्टव्यमुखीं धिग् धिक् सुमुखीमपि दुर्मुखीम् । यदर्थ मित्रद्रोहाचं कुर्युस्तद्भविका अपि ।। ४१७॥ दुष्टधीरिष्टसिख्या च दृष्टः कृत्रिमपूत्कृतिः । प्रातः माह सुहृन्मे हा इंहो धिक कापि नेक्ष्यते ॥४१८॥ इत्यादिकपटाटोपं फटाटोपमिवाफलम् । फणीव निर्विषः कुर्वस्तद्वेलापुरमाप सः ॥ ४१९ ।। श्रीदत्तेन च दंतींद्राः क्षितींद्राय डुबौकिरे । उत्तार्य सोत्सवं सोऽपि हृष्टस्तं बहमानयत ॥ ४२० ॥ ददे च दंतिनां मूल्यं शुक्लं च मुमुचे खिलम् । भांडशालामुपादाय सोऽथ स्वैरं व्यवाहरत् ॥ ४२१ ।। तत्कन्योद्वाहनं च जगृहे स्वगृहे च सः । कुर्वन्समग्र सामग्री याति भूपसभेऽन्वहम् ॥ ४२२ ॥ रूपश्रीहारिणीं वीक्ष्य राजश्चामरहारिणीम् । तस्याः' स्वरूपं चापृच्छत् 'कंचित्मोवाच सोऽपि च ।। ४२३ ।।
1 कामफलाभिकापात् पक्षे मदनफलं " मीढल " इति प्रसिद्धफलं तद् भक्षणाद वमनं भवति । २ तिमथः इति पाठः कचित् । एषा सुवर्णरेखांतरेखा वेश्या नृपाश्रिता। धनलक्षार्थदानेन विना वार्तापि ननिया ॥४२४॥ इति श्रुत्वा प्रतिश्रुत्य'तस्यै लक्षार्द्धमप्यसौ। रयेऽध्यारोप्य तां वेश्यां तां च कन्या वनेऽवजत् ।। ४२५॥ निष्कंपश्चंपकच्छायमाश्रितः पार्थयोयोः । ते निवेश्य स निर्माति नर्मकर्मादि यावता॥४२६।। एकछेकतयानेककपीभिः कपिपुंगवः। कामुकक्रीडया' क्रीडंस्तत्रायाति स्म तावता ।।४२७। सोऽपि गाणिक्यमाणिक्यमपाक्षी प्रेक्ष्य तं तथा । किं 'स्वाः स्युर्वानरस्यास्य वानर्योऽमू: प्रियायिताः ॥४२८ ॥ सुवर्णरेखाप्यांचख्यौ पृच्छा तिर्यक्ष दक्ष! का। काश्चिजनन्योऽप्येतस्य भगिन्योऽपि च काश्चन ॥ ४२९ ॥ काश्चिदहितरः काश्चित्संभाव्यं' तेऽपरा अपि । विविक्तचित्तः श्रीदत्तोऽभ्यधत्तोदात्तगीस्ततः ॥ ४३० ॥ धिग् धिग् निंद्यतमं जन्म' पशूनामविवकिनाम् । स्वमातृपुत्र्यादिविभागोऽपि न विद्यते ॥४३१।। किं तेन जन्मना पापजन्मना जीवितेन च । कृत्यांकृत्यविविक्तत्वोपलब्धौ यत्र मुग्धता ॥ ४३२॥ तदाकर्ण्य पराक्षिप्त इव वादी मदोद्धरः । गच्छन्नपि कपिः पश्चाद्वलितः प्रत्युवाच तम् ॥ ४३३।। रे रे दुष्ट ! दुराचार ! परदोषकभाषक! । ज्वलत्पश्यसि शैलाग्रे न पुनः पादयोरधः ॥ ४३४ ।। यतः-" राईसरिसवमित्ताणि परच्छिहाणि गवेसए । अप्पणो बिल्लमित्ताणि पासंतोविन पासई ॥ ४३५॥" रे स्वपुत्री सवित्री च निवेश्यैवं स्वपार्श्वयोः । स्वमित्रमब्धौ क्षिप्त्वा च'पाप! मामिति निंदसि ॥ ४३६॥ जल्पित्वेत्युल्लमेव 'स'स्वयुथे समीयिवान् । वज्राहत इवात्यातः श्रीदत्तश्चेति दध्यिवान् ॥ ४३७॥ धिकिमेतदनेनोक्तमसमंजसमंजसा । बालेयमंबुधौ लब्धा' पुत्रिका मामिका कथम् ॥ ४३८ ॥ एषा सुवर्णरेखापि जनयित्री कुतो मम । सोमश्रीर्जनयित्री मे किंचिदुच्चैर्वपुश्च सा || ४३९॥ किमपि श्यामलांगी च सा न
२ गणिकागणरत्नम्।
श्रीश्राद्धविधिप्रकरणम

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134